SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ १९० प्रथमे काण्डेशब्दलिङ्गाभ्यां (न शब्द-लिङ्गयोः प्रवृत्तिः, न च शब्द-लिङ्गाभ्यां) विनाऽपोहप्रतिपत्तिः, न चासा. धारणस्यान्वयः, तदेवमपोहकल्पनायां शब्द-लिङ्गयोः प्रवृत्तिरेव न प्राप्नोति; प्रवृत्तौ वा प्रामाण्यमभ्युपगतं हीयेत। तथाहि-प्रेतिपाद्यार्थाव्यभिचारित्वं तयोः प्रामाण्यम् , अपोहश्च प्रतिपाद्यत्वेन भवताऽभ्युपगम्यमानोऽभावरूपत्वान्निःस्वभाव इति व तयोरव्यभिचारित्वम् ? न च विजातीया. ५दर्शनमात्रेणैव शब्द-लिङ्गे अगृहीतसाहचर्य एव स्वमर्थ गमयिष्यतः, विजातीयादर्शनमात्रेण गम भ्युपगमे स्वार्थः परार्थ इति विशेषानुपपत्तेः तथा च स्वार्थमपि न गमयेत् तत्र अदृष्टत्वात परार्थवत् । तदेवं शब्द-लिङ्गयोरप्रामाण्याभ्युपगमप्रसङ्गान्नापोहः शब्दार्थो युक्तः। यदि वा असत्यपि सारूप्ये शावलेयादिष्वगोऽपोहकल्पना तदा गवाश्वस्यापि कस्मान्न कल्प्येतासौ अविशेषात् । तदुक्तं कुमारिलेन ___ "अथासत्यपि सारूप्ये स्यादपोहस्य कल्पना। गवाश्वयोरयं कस्मादगोपोहो न कल्प्यते” ॥ [ श्लो० वा० अपो० श्लो० ७६ ] 'गवाश्वयोः' इति “गवाश्वप्रभृतीनि चं" [पाणि०-२-४-११ सिद्धान्तकौ० पृ० २०४] इत्येकवद्भावल. क्षणास्मरणादुक्तम् । अविशेषप्रतिपादनार्थं स एव पुनरप्युक्तवान् "शाबलेयाच्च भिन्नत्वं वाहुलेयाश्वयोः समम् ।। सामान्यं नान्यदिष्टं चेत् क्वागोऽपोहः प्रवर्तताम्" ? ॥ [श्लो० वा० अपो० श्लो०७७] यथैव हि शाबलेयाद् वैलक्षण्यादश्वे न प्रवर्त्तते तथा बाहुलेयस्यापि ततो वैलक्षण्यमस्तीति न तत्राप्यसौ प्रवर्तेत; एवं शावलेयादिष्वपि योज्यम् , सर्वत्र वैलक्षण्याविशेषात् । ___ अपि च, यथा स्वलक्षणादिषु समयासम्भवान्न शब्दार्थत्वम् तथाऽपोहेऽपि । तथाहि-निश्चि. तार्थो हि समयकृत् समयं करोति; न चापोहः केनचिदिन्द्रियैर्व्यवसीयते, व्यवहारात् पूर्व तस्या२० वस्तुत्वात् इन्द्रियाणां च वस्तुविषयत्वात् । न चान्यच्यावृत्त स्वलक्षणमुपलभ्य शम अन्यापोहादन्यत्र शब्दवृत्तेः प्रवृत्त्यनभ्युपगमात् । नौप्यनुमानेनापोहाध्यवसायः, "न चान्वयविनिर्मुक्ता प्रवृत्तिः शब्द-लिङ्गयोः" इत्यादिना तत्प्रतिषेधस्य तत्रोतत्वात् । तस्मात् 'अकृतसमयत्वात्' इत्यस्य हेनोरनैकान्तिकत्वमपोहेन, अकृतसमयत्वेऽप्यपोहे शब्दप्रवृत्त्यभ्युपगमात् ।। २५ इतश्चापोहे सङ्केतासम्भवः अतिप्रसक्तेः । तथाहि-कथमश्वादीनां गोशब्दानभिधेयत्वम् ? १ न वासा-आ० कां० । २ “अपोहश्चाप्यनिष्पन्नः साहचर्य व दृश्यताम् । तस्मिन्नदृश्यमाने च न तयोः स्यात् प्रमाणता' ॥ श्लो० वा० अपो० श्लो० ७४ । तत्त्वसं० का० ९३५ पृ० २९८ । ३ "न चाऽदर्शनमात्रेण ताभ्यां प्रत्यायनं भवेत् । सर्वत्रैव ह्यदृष्टत्वात् प्रत्याग्यं नावशिष्यते" ॥ श्लो. वा० अपो० श्लो० ७५ । तत्त्वसं० का० ९३६ पृ० २९८ । ४-चर्येण ए-वा. बा०। ५ स्वार्थ इति वा. बा०। ६-स्यापि कस्यापि कस्मा-आ. कां० । ७ कल्पेता-वा. बा. विना। ८ तत्त्वसं. का. ९३७ पृ. २९८। ९ “गवाश्वादिः" हैम. ३-१-१४४ । १० तत्त्वसं० ९३८ पृ० २९९ । ११ प्रवर्तत ए-आ० वि० कां० गु० वा. बा० । १२ शास्त्रवा० स्याद्वादक० पृ० का० ४.३ प्र. पं०१३।। १३ "इन्द्रियै प्यगोपोहः प्रथमं व्यवसीयते । नान्यत्र शब्दवृत्तिश्च किं दृष्ट्वा स प्रयुज्यताम्" ॥ श्लो. वा० अपो० श्लो० ७८ । तत्त्वसं का० ९३९ पृ. २९९ । १४ "संज्ञासंज्ञिसंबन्धकाले"-तत्त्वसं० पजि. पृ. २९९ पं० १३। १५ "पूर्वोक्तेन प्रबन्धेन नानुमाऽप्यत्र विद्यते । संबन्धानुभवोऽप्यस्य तेन नैवोपपद्यते ॥ श्लो. वा. अपो. श्लो० ७९ । तत्त्वसं. का. ९४० पृ. २९९ । १६ पृ० १८९ पं० २१ तथा ४२। १७-श्चापोहसं-वा. बा. विना। १८ “अगोशब्दाभिधेयत्वं गम्यतां च कथं पुनः । न दृष्टो यत्र गोशब्दः संबन्धानुभवक्षणे"॥ श्लो० वा. अपो० श्लो० ८१॥ तत्त्वसं. का. ९४१ पृ. २९९ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy