________________
शब्दार्थ - तत्संबन्धयोर्मीमांसा |
न वापोह्यभेदात् स्वतो भेदाभावेऽपि तस्य भेदादपर्यायत्वम्, स्वैतस्तस्य नानात्वाभावेऽभावैकरूपत्वात् परतोऽप्यसौ भवन् काल्पनिकः स्यात्; न हि स्वतोऽसतो भेदस्य परतः सम्भवो युक्तः । यथा हि संसर्गिणः शाबलेयादयः आधारतयाऽन्तरङ्गा अपि तं स्वरूपतो भेत्तुमशक्ताः - बहुष्वपि शाबलेयादिष्वेकस्यागोव्यवच्छेदलक्षणस्यापोहस्य तेष्वभ्युपगमात् - तथा बहिरङ्गभूतैरश्वादिभिरपोरसौ भिद्यत इत्यपि साहसम्: न हि यस्यान्तरङ्गोऽप्यर्थो न भेदकस्तस्य बहिरङ्गो भविष्यति ५ बहिरङ्गत्वहानिप्रसङ्गात् ।
अथान्तरङ्गा एवाधारस्तस्य भेदकाः, असदेतत् अवस्तुनः सम्बन्धिभेदाद् भेदानुपपत्तेः, वस्तुन्यपि हि सम्बन्धिभेदाद् भेदो नोपलभ्यते किमुतावस्तुनि निःश्वभावोत्तहा हि- देवहिकमेकपि (निःस्वभावे । तथाहि देवदत्तादिकमेकमपि ) वस्तु युगपत् क्रमेण वाने के (कै) रासनादिभिर (रभि) सम्बध्यमानमनासादितभेदमेवोपलभ्यते किं पुनर्यदन्यव्यावृत्तिरूपमवस्तु, तत्त्वादेव च क्वचिद - १० सम्बद्धं विजातीयांच्चाऽव्यावृत्तम् अत एवानधिगतविशेषांशं तादृशं सम्बन्धिभेदादपि कथमिव दमवीत ? किञ्च भवतु नाम सम्बन्धिभेदाद् भेदस्तथापि वस्तुभूतसामान्यानभ्युपगमे भवतां स एवापोहाश्रयः सम्बन्धी न सिद्धिमासादयति यस्य भेदात् तद्भेदोऽवकैल्प्यते । तथाहि यदि गवादीनां वस्तुभूतं सारूप्यं प्रसिद्धं भवेत् तदा ऽश्वाद्य पोहाश्रयत्वमेषामविशेषेण सिद्ध्येत (त्) नान्यथा, अतोऽपोहविषेयत्वमेषामिच्छताऽवश्यं सारूप्यमङ्गीकर्तव्यम्, तदेव च सामान्यं वस्तुभूतं शब्दवाच्यं १५ भविष्यतीत्य पोहकल्पना व्यर्थैव ।
पोमेनापोह मेदोऽपि वस्तुभूतसामान्यमन्तरेण न सिद्धिमासादयति । तथाहि यद्यश्वादीनामेकः कश्चित् सर्वव्यक्तिसाधारणो धर्मोऽनुगामी स्यात् तदा ते सर्वे गवादिशब्दैरविशेषेणापोरन नान्यथा, विशेषापरिज्ञानात् । साधारणधर्माभ्युपगमे चापोह कल्पनावैयर्थ्यम् ।
अपि च, अपोहः शब्द- लिङ्गाभ्यामेव प्रतिपाद्यत इति भवद्भिरिष्यते, शब्द- लिङ्गयोश्च वस्तु- २० भूतसामान्यमन्तरेण प्रवृत्तिरनुपपन्नेति नातोऽपोहप्रतिपत्तिः । तथाहि - अनुगतवस्तुव्यतिरेकेणे न
१ " ननु चापोह्यभेदेन भेदोऽपोहस्य सेत्स्यति । न विशेषः स्वतस्तस्य परत चौपचारिकः " ॥
१८९
श्लो० वा० अपो० श्लो० ४७ | तत्त्वसं० का० ९२८ पृ० २९६ ॥
२ स्वतस्य आ० बा० ।
३ "संसर्गिणोऽपि चाधारा यं न भिन्दन्ति रूपतः । अपोयैः स बहिर्भूतैर्भिद्यते अतिकलना ॥ श्लो० वा० अपो० लो० ५२ । तत्त्वसं० का० ९२९ पृ० २९६ ॥
४ इत्यभि (ति) सा वा० बा० । “ इत्यतिसाहसम् " - प्रमेयक० पृ० १२६ प्र० पं० ८ । ५ " तेनैवाssधारभेदेनाप्यस्य भेदो न युज्यते । न हि संबन्धिभेदेन भेदो वस्तुन्यपीष्यते " ॥
" किमुताऽवस्त्वसंसृष्टमन्यतश्चाऽनिवर्तितम् । अनवाप्त विशेषांशं यत् किमप्यनिरूपितम् " ॥ श्लो० वा० अपो० श्लो० ४८-४९ । तत्त्वसं० का ० ९३० - ९३१ पृ० २९६ ।
६ नोपलभ्यते किं पुनर्यदम्य वा० वा० विना० । ७ “ किमुताऽवस्तुनि । तथाहि देवदत्तादिकमेकमेव वस्तु युगपत् क्रमेण वानेकैराभरणादिभिरभिसंबध्यमानमनासादितभेदमेवोपलभ्यते " - प्रमेयक० पृ० १२६ प्र० पं० ९ । तत्त्वसं ० पक्षि० पृ० २९६ पं० २७-२८ । ८- मवस्तुत्वा-आ० हा०वि० कां० गु० । ९-याद्वावृत्तम् वा० बा० । १० - ति तस्य वा० बा० । ११- कल्पते वा० वा० । १२ यथा ग-भां० मां० वा० बा० विना ।
" न चाप्रसिद्ध सारूप्याऽनपोहविषया:मना । शक्तः कश्चिदपि ज्ञातुं गवादीनविशेषतः " ॥
श्लो० वा० अपो० श्लो० ७१ । तत्त्वसं० का० ९३२ पृ० २९७ । १३- भूतं शब्दसारू - भ० मां० । १४ “ विषयशब्दोऽत्राश्रयवचनः, जलविषया मत्स्या इति यथा" - तत्वसं ० पक्षि० पृ० २९७ पं० १३ । १५- ना व्यर्थिता भ० मां० ।-ना व्यर्थिका आ० वि० कां० गु० ।
१६ “ अपोद्यानपि चाश्वादी नेकधर्मान्वयादृते । न निरूपयितुं शक्तिस्तत्राऽपोहो न सिध्यति ॥
श्लो० वा० अपो० श्लो० ७२ । तत्त्वसं० का० ९३३ पृ० २९७ । पन्नेति नापोह - गु० भा० ।
शब्दयोः । ताभ्यां च न विनाऽप हो न चाऽसाधारणेऽन्वयः " ॥
श्लो० वा० अपो० श्लो० ७३ | तत्त्वसं० का० ९३४ पृ० २९७ ।
।
१७- पन्नेति नानापोह आ० कां० १८ " न चान्वयविनिर्मुक्ते प्रवृत्तिर्लिङ्ग
१९- ण च भ० मां० ।