SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ १८८ प्रथमे काण्डेश्वापोहस्य वाच्यत्वं मुधैवाभ्युपगतं परेण बुद्ध्याकारस्याम(न)पेक्षितबाह्यार्थालम्बनस्य विधिरूपस्यैव शब्दार्थत्वापत्तेः । इत्यभ्युपगमबाधा प्रतिज्ञायाः परस्य ।। अथ बुद्ध्याकारालम्बनाऽपि सा वुद्धिर्विजातीयाऽगवा(यगवा)दिबुद्धिभ्यो व्यावृत्तरूपा प्रवर्तते तेनापोहकल्पना युक्तैव, असदेतत्; यतो यद्यपि बुद्धिर्बुद्ध्यन्तराद् व्यवच्छिन्ना तथापि सा ५न बुद्ध्यन्तरव्यवच्छेदावसायिनी जायते, किं तर्हि अश्वादिष्वर्थेषु विधिरूपाऽध्यवसायिनी; तेन वस्त्वेव विधिरूपं वाच्यं कल्पयितुं युक्तिमत् नापोहः, बुद्ध्यन्तरस्य बुध्यन्तरानपोहकत्वात् । किश्च, योऽयं भवद्भिरपोहः पदार्थत्वेन कल्पितः स वाक्यादपोद्धृत्य कल्पितस्य पदस्यार्थः इष्टः-वाक्यार्थस्तु प्रतिभालक्षण एव । यथोक्तम् “अपोद्धारपदस्यायं वाक्यादर्थो विवेचितः। वाक्यार्थः प्रतिभाख्योऽयं तेनादावुपजन्यते" ॥ [ __] इति, -स चायुक्तः; शब्दार्थस्य विधिरूपताप्रसक्तेः, तथापि वाह्येऽर्थे शब्दवाच्यत्वेनासत्यपि वाक्याओं भवद्भिः प्रतिभालक्षण एव वर्ण्यते नापोहस्तदा पदार्थोऽपि वाक्यार्थवत् प्रतिभालक्षण एव प्रसक इति द्वयोरपि पद-वाक्यार्थयोर्विधिरूपत्वम् । अथ प्रतिभायाः प्रतिभान्तराद् विजातीयाद् व्यव. च्छेदोऽस्तीत्यपोहरूपता, न सम्यगेतत् ; यतो यद्यपि बुद्धेर्बुद्ध्यन्तराद् व्यावृत्तिरस्ति तथापि" न च १५ तत्र शब्दव्यापारः। तथाहि-शब्दादसावुत्पद्यमाना न स्वरूपोत्पादव्यतिरेकेणान्यं बुद्धयन्तरव्यवच्छे. दलक्षणं शब्दादवसीयमानमंशं बिभ्राणा लक्ष्यते किं तर्हि ? विधिरूपावसायिन्येवोत्पत्तिमती । न च शब्दादनवसीयमानो वस्त्वंशः शब्दार्थो युक्तः अतिप्रसङ्गादिति प्रतीतिबाधितत्वं प्रतिज्ञायाः। अपि च, ये भिन्नसामान्यवचना गवादयः, ये च विशेषवचनाः शाबलेयादयस्ते भवदमिप्रायेण पर्यायाः प्राप्नुवन्ति, अर्थभेदाभावात्, वृक्ष-पादपादिशब्दवत् । स च अवस्तुत्वात्, वस्तु. २०न्येव हि "संसृष्टत्व-एकत्व-नानात्वादिविकल्पाः सम्भवन्ति, नावस्तुन्येवापोहाये परस्परं संसृष्टतादिविकल्पो युक्त इति कथमेषां भेदः? तदभ्युपगमे वा नियमेन वस्तुत्वापत्तिः । तथाहि-'ये परस्परं भिद्यन्ते ते वस्तुरूपाः, यथा स्वलक्षणानि, परस्परं मिद्यन्ते चापोहाः' इति स्वभावहेतुः, इति विधिरेव शब्दार्थः। एतेनानुमानबाधितत्वं प्रतिज्ञायाः प्रतिपादितम्। ___ अथावस्तुत्वमभ्युपगम्यतेऽपोहानां तदा नानात्वाभावात् पर्यायत्वप्रसङ्गैः इत्येकान्त एषः । १ "बुद्ध्याकारस्यानपेक्षितबाह्यार्थावलम्बनस्य"-तत्त्वसं० पनि० पृ० २९३ पं० २४ । २ बुद्ध्यालम्ब-भां० मां० वा० बा० विना। ३ "बुद्धिर्विजातीयगवादिबुद्धिभ्यो व्यावृत्तरूपा"-तत्त्वसं० पजि. पृ० २९४ पं. ३ । ४ “वस्तुरूपा च सा बुद्धिः शब्दार्थेषूपजायते । तेन वस्त्वेव कल्प्येत वाच्यं बुद्धयनपोहकम्" ॥ श्लो० वा. अपो० श्लो० ३९ । तत्त्वसं. का. ९२२ पृ० २९४ । ५-भासल-आ. वि. का. गु०। ६ “अपोद्धारे"-तत्त्वसं० पजि. पृ० २९४ पं० १७ । ७ “असत्यपि च बाह्येऽर्थे वाक्यार्थप्रतिभा यथा। पदार्थोऽपि तथैव स्यात् किमपोहः प्रकल्प्यते"॥ श्लो. वा० अपो० श्लो. ४० । तत्त्वसं. का. ९२३ पृ. २९४ । ८-हस्तथा प-भां० मां । "नापोहलक्षणस्तथा पदार्थोऽपि"-तत्त्वसं० पजि० पृ० २९४ पं० २३ । ९ "बुद्ध्यन्तराद् व्यवच्छेदो न च बुद्धेः प्रतीयते । स्वरूपोत्पादमात्राच नान्यमंशं बिभर्ति सा" ॥ श्लो० वा. अपो० श्लो.४१ । तत्त्वसं० का० ९२४ पृ. २९४ । १०-पिन तत्र आ० कां । "तथापि तस्यां न शब्दव्यापारोऽस्ति"-तत्त्वसं० पजि० पृ. २९५ पं० ३ । ११ लभ्यते वा। १२ "भिन्नसामान्यवचना विशेषवचनाश्च ये । सर्वे भवेयुः पर्याया यद्यपोहस्य वाच्यता" ॥ श्लोवा. अपो० श्लो० ४२ । तत्त्वसं० का० ९२५ पृ. २९५ । १३ “वृक्ष-पादपादिशब्दवत् । वस्तुन्येव हि संसृष्ट"-तत्त्वसं० पजि० पृ० २९५६० १२-१६। १४ अर्थभेदाभावश्च । १५ “संसृष्टैकत्वनानात्वविकल्परहितात्मनाम् । अवस्तुत्वादपोहानां तव स्याद् भिन्नता कथम्" ? ॥ श्लो. वा. अपो० श्लो०४५। तत्त्वसं० का. ९२६ पृ. २९५ । १६ संस्पृष्टत्व-आ० वि० का गु० । १७-ख्ये परस्परसं-वा० बा० ।-ख्ये परसं-आ० वि० का० गु०। १८ “यदि वा भिद्यमानत्वाद् वस्त्वसाधारणांशवत् । अवस्तुत्वे त्वनानात्वात् पर्यायत्वान्न मुच्यते" ॥ श्लो. वा. अपो० श्लो० ४६ । तत्त्वसं० का० ९२७ पृ. २९५ । १९ प्र० पृ० पं० १९ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy