SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ १८६ प्रथमे काण्डे"किन्तु गौर्गवयो हस्ती वृक्ष इत्यादिशब्दतः। विधिरूपावसायेन मतिः शाब्दी प्रवर्तते" ॥ [ तत्त्वसं० का ० ९११] "यदि गौरित्ययं शब्दः समर्थोऽन्यनिवर्तने। जनको गवि गोवुद्धेम॒ग्यतामपरो ध्वनिः” ॥ [ भामहालं० परि० ६ श्लो० १७] "ननु ज्ञानफलाः शब्दा न चैकस्य फलद्वयम्। अपवाद-विधिज्ञानं फलमेकस्य वः कथम्" ? ॥ [ भामहालं० परि० ६ श्लो० १८] "प्रागगौरिति विज्ञानं गोशब्दश्राविणो भवेत् । येनागोः प्रतिषेधाय प्रवृत्तो गौरिति ध्वनिः" ॥ [ भामहालं० परि० ६ श्लो० १९] यदि गोशब्दोऽन्यव्यवच्छेदप्रतिपादनपरस्तदा तस्य तत्रैव चरितार्थत्वात् सास्नादिमति पदार्थे १० गोशब्दात् प्रतीतिर्न प्राप्नोति, ततश्च सास्नादिमत्पदार्थविषयाया गोबुद्धर्जनकोऽन्यो ध्वनिरन्वे. षणीयः । अथेकेनैव गोशब्देन बुद्धिद्वयस्थ जन्यमानत्वान्नापरो ध्वनिम॒ग्यः, नैकस्य विधिकारिणः प्रतिषेधकारिणो वा शब्दस्य युगपद्विज्ञानद्वयलक्षणं फलमुपलभ्यते, नापि परस्परविरुद्धमपवादविधिज्ञानं फलं युक्तम्; यदि च गोशब्देनागोनिवृत्तिर्मुख्यतः प्रतिपाद्यते तदा गोशब्दश्रवणानन्तरं प्रथमं 'अगौः' इत्येषा श्रोतुः प्रतिपत्तिर्भवेत् । यत्रैव ह्यव्यवधानेन शब्दात् प्रत्यय उपजायते स एवं १५ शाब्दोऽर्थः; न चाव्यवधानेनागोव्यवच्छेदे मतिः, अतो गोबुद्ध्यनुत्पत्तिप्रसङ्गात् प्रथमतरमगोप्रतीतिप्रसङ्गाच्च नापोहः शब्दार्थः। अपि च, अपोहलक्षणं सामान्य वाच्यत्वेनाभिधीयमानं कदाचित् पर्युदासलक्षणं वाऽमियेत, प्रसज्यलक्षणं वा? तत्र प्रथमपक्षे सिद्धसाध्यता प्रतिज्ञादोषः, अस्माभिरपि गोत्वाख्यं सामान्यं गोशब्दवाच्यमित्यभ्युपगम्यमानत्वात्-यदेव ह्यगोनिवृत्तिलक्षणं सामान्यं गोशब्देनोच्यते २० भवता तदेवाऽस्माभिर्भावलक्षणं सामान्यं तद्वाच्यमभिधीयते, अभावस्य भावान्तरात्मकत्वेन स्थितत्वात् । तदुक्तम् "क्षीरे दध्यादि यन्नास्ति प्रागभावः स उच्यते" [श्लो० वा० अभा० परि० श्लो०२] "नास्ति वा (स्तिता) पयसो दनि प्रध्वंसाभावलक्षणम् । गवि योऽश्वाद्यभावश्च सोऽन्योन्याभाव उच्यते" ॥ "शिरसोऽवयवा निम्ना वृद्धि-काठिन्यवर्जिताः। शशशृङ्गादिरूपेण सोऽत्यन्ताभाव उच्यते" ॥ [श्लो० वा० अभा०परि० श्लो०३-४] "न चावस्तुन एते स्युर्भेदास्तेनाऽस्य वस्तुनि (वस्तुता)"। [ श्लो० वा० अभा० परि० श्लो०८] एतेन क्षीरादय एव दध्यादिरूपेण अविद्यमानाः प्रागभावादिव्यपदेशभाज इत्युक्तं भवति । १ "वृक्षश्चे(त्या)दिशब्दतः"-तत्त्वसं० का० ९११। २" 'यदि गौः' इत्यादिना श्लोकत्रयेण भामहस्य मतेन प्रतीत्यादिबाधामुद्भावयति"-तत्त्वसं० पञ्जि. पृ० २९१ पं० ८ । “यदि गौ(रिति शब्दोऽयं भवेद)न्यनिराकृतौ"-तत्त्वसं. का० ९१२ । “यदि गौरित्ययं शब्दः कृतार्थोऽन्यनिराकृतौ”-भामहालं. परि०६ श्लो. १७। ३ "गोबुद्धेदृश्यतामपरो ध्वनिः"-तत्त्वसं० का० ९१२। ४ “न तु ज्ञानफलाः (शब्दा न चैकस्य फलद्व )यम्”-तत्त्वसं० का० ९१३ । “अर्थज्ञानफलाः शब्दाः"-भामहालं. परि. ६ श्लो. १८। ५-विधिनि-भां० मा० । “विधिज्ञाने फले चैकस्य"-भामहालं. परि० ६ श्लो. १८ । “विधि(ज्ञानं फलमेकस्य वा कथम् )"-तत्त्वसं. का. ९१३। ६-शब्दश्रावणो वि०।-शब्दश्रवणाद आ० कां० । “पुरा(s)गौरिति विज्ञानं गोशब्दश्रवणाद् भवेत्"-भामहालं. परि० ६ श्लो० १९ । तत्त्वसं० का० ९१४ । ७-नागौप्रति-आ० का० । “येनागोप्रतिषेधाय"-भामहालं. परि. ६ श्लो. १९। ८-व शब्दोर्थः भां० मां० विना। ९ "अगोनिवृत्तिः सामान्य वाच्यं यैः परिकल्पितम् । गोत्वं वस्त्वेव तैरुक्तमगोऽपोहगिरा स्फुटम्" ॥ श्लो० वा० अपो० श्लो. १। तत्त्वसं० का० ९१५पृ० २९२ । १. "भावान्तरमभावो हि पुरस्तात् प्रतिपादितः। श्लो० वा. अपो० श्लो.२ । तत्त्वसं. का. ९१६ पृ. २९२। ११ तत्त्वसं० का० १६५१-१६५२-१६५३-१६५५पृ० ४७१-४७२ । तत्त्वसं० पञ्जि.पृ० २९२५०१४-१७॥ १२ “नास्तिता"-श्लो० वा० पृ० ४७३ पं०७। तत्त्वसं• का० १६५१ पृ. ४७१।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy