SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ शब्दार्थ- तत्संबन्धयोमीमांसा । १८५ [विवक्षापदार्थवादिमतमुल्लिख्य तन्निरसनम् ] अन्ये वाहुः-"अर्थविवक्षां शब्दोऽनुमापयति" इति । यथोक्तम्"अनुमान विवक्षायाः शब्दादैन्यन्न विद्यते" [ ] इति । अत्रापि यदि परमार्थतो विवक्षा पारमार्थिकशब्दार्थ विषयेष्यते तदसिद्धम् , स्वलक्षणादेः शब्दार्थस्य कस्यचिदसम्भवात् ; अतो न क्वचिदर्थे परमार्थे विवक्षाऽस्ति, अन्वयिनोऽर्थस्याभावात् । ५ नापि तत्प्रतिपादकः शब्दः सम्भवति । यदाह "कवा श्रुतिः" [ तत्त्वसं० का०९०७ ] इति । न च विवक्षायां प्रतिपाद्यायां शब्दाद बहिरर्थे प्रवृत्तिः प्राप्नोति, तस्याप्रेरितत्वात् अर्थान्तरवत् । न च विवक्षापरिवर्तिनो बाहास्य च सारूप्यादप्रेरितेऽपि तत्र ततः प्रवृनिर्यमलकवत्, सर्वदा बाह्ये प्रवृत्तेरयोगात् कदाचिद् विवक्षापरिवर्तिन्यपि प्रेरिते प्रवृत्तिप्रसक्तर्यमलकयोरिव । अथ परमा-१० र्थतः स्वप्रतिभासानुभवेऽपि वक्तुरेवमध्यवसायो भवति 'मयाऽस्मै वाह्य एवार्थः प्रतिपाद्यते' श्रोतुरप्येवमध्यवसायः 'ममायं बाहामेव प्रतिपादयति' इतिः अतस्तैमिरिक यद्विचन्द्रदर्शनवदयं शाब्दो व्यवहार इति । यद्येवमस्मत्पक्ष एव समाश्रित इति कथं न सिद्धसाध्यता? शब्दस्तु लिङ्गभूतो विव. क्षामनुमापयतीत्यभ्युपगम्यत एव यथा धूमोऽग्निम् । [ वेभाषिकमतं निर्दिश्य नन्निग्मनम् ] पतेन वैभाषिकोऽपि शब्दविषयं नामास्यमर्थचिह्नरूपं विप्रयुक्तं संस्कारमिच्छन्निरस्तः । तथाहि-तन्नामादि यदि क्षणिकं तदाऽन्ययायोगः । अक्षणिकवे ऋमिशाना-पपत्तिः, वाह्ये च प्रवृत्यभावः; सारूप्यात् प्रवृत्ती न सर्वदा वाहा एव प्रवृत्तिः। "अशक्यसमयो ह्यात्मा नामादीनामनन्यभाक् । ते पामतो न चान्यत्वं कथञ्चिदुपपद्यते"॥[ ] इत्यादेःसर्वस्य समानत्वात् । तदेवम् 'अशक्यसमयत्वात्' इत्यस्य हेतो सिद्धता । नाप्यनेकान्ति-२० कैत्व-विरुद्धत्वे । तत् सिद्धम् अपोहकृच्छन्द इति । ['निषेधमात्रमेव अन्यापोहः' इति मन्या कौमारिलकृतानामाक्षेपाणामुपन्यासः] अत्र परो निषेधमात्रमेव किलान्यापोहोऽभिप्रेत इति मन्यमानः प्रतिशायाः प्रतीत्यादिविरोधमुद्भावयन्नाह-- "नेन्वन्यापोहकच्छब्दो युष्मत्पक्ष नु वर्णितः। निषेधमा नैवेह प्रतिभासव (सेऽव ) गम्यते' ॥ [ तत्वसं० का० ५.१०] १ तत्त्वसं० पजि. पृ० २८९५० १७ । शानवा० स्याहादरू. पृ० ४०० द्वि. पं. ७। २ तत्त्वसं० पञ्जि. पृ. २८९५० १७ । शास्त्रवा० स्याद्वादक. पृ० ४०० द्वि. पं० ८। ३-दन्यत्र वि-हा. नि. विना। ४ "एतेनैव विवक्षाऽपि शब्दगम्या निराकृता । शब्दार्थासंभव हीन्थं व विवक्षा क वा श्रुतिः" ॥ तत्वसं० का ९.७पृ० २८९ । ५ परमार्थवि-वि• विना। ६-ह-कदा श्रु-बा। ७ "(सारूप्याच) श्रुतेर्वृत्तिः कथं वा( ऽशब्द) चोदिते । सामान्या( धमलकव )जामायनेन दूषितम्" ॥ तत्त्वसं. का. ९०८ पृ. २८९ । ८"विवक्षानु(मितिश्लिष्टमाकार बाह्यभावनः । व्यवस्यता: प्रगृत्ति)ञ्चत् नदेवाऽस्मन्मनं पुनः"॥ तत्वसं. का. ९०९ पृ. २९० । ९-नुभावे-बा. हा० वि०। १०-नुत्पत्तिः भां० मा. विना। ११ तत्त्वसं० पजि. पृ. २९० पं०८। १२-चामतो न वाक्यत्वम् भां. मां० ।-पामतो नाव्यत्वम् वा. बा० । “तथा मतो न वाच्यत्वम्"-तत्त्वसं. पजि. पृ. २९. पं०८। १३-कत्वावि-भां. वा. बा.। १४ प्रमेयक. पृ० १२५ द्वि. पं. ४.७ । । "नन ज्ञानफलाः शब्दाः" इत्यादि कुमारिलवचनम्' इति निर्दिष्टं सम्मतिटीकाकारेणाऽस्य निररानावसरे । "एतेन यदुक्तं कुमारिलेन" इत्युल्लिख्य श्लोकपश्चकमेतनिरदेशि श्रीयशोविजयः शास्त्रवा० स्याद्वादक० पृ. ४०२ प्र. पं० ५-१०। १५ “युष्माभिः कथमुच्यते"-तत्त्वसं० का. ९१. पृ. २९०। १६-भासे व-भा. मा० ।-भामैव-वा० ।-"भासेऽवगम्यते"तत्वसं. का. ९१०। प्रमेयक. पृ० १२५ द्वि० ५० ५। स. न. २
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy