SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डे - [ ५-६ अभिजल्प-बुद्ध्यारूढाकारपदार्थवादिमतद्वय निरसनम् ] अभिपपेक्षेऽपि यदि शब्दस्य कश्चिदर्थः सम्भवेत् तदा तेन सहैकीकरणं भवेदपि, स्वलक्षणादिस्वरूपस्य च शब्दार्थस्यासम्भवः प्राक् प्रदर्शित इति कथं तेनैकीकरणम् ? अपि चायमभिजल्पो बुद्धिस्थ एव । तथाहि - बाह्यार्थयोः (बाह्ययोः) शब्दार्थयोर्भिन्नेन्द्रियग्राह्यत्वादिभ्यो भेदस्य सिद्धेस्तयोरै५ क्यापादनं परमार्थतोऽयुक्तमेवेति वुद्धिस्थयोरेव शब्दार्थयोरेकबुद्धिगतत्वादेकीकरणं युक्तम् । तथाहिउपगृहीताभिधेयाकारतिरोभूतशब्दस्वभावो बुद्धौ विपरिवर्त्तमानः शब्दात्मा स्वरूपानुगतमर्थमविभागेनान्तः सन्निवेशयन्नभिजल्प उच्यते स च बुद्धेरात्मगत एवाकारो युको न बाह्यः, तस्यैकान्तेन प्रस्परं विविक्तस्वभावत्वात्; ततश्च बुद्धिशब्दार्थपादनन्तरोक्तादस्य न कश्चिद् भेदः, उभयत्रापि बौद्ध एवार्थः । एतावन्मात्रं तु भिद्यते- 'शब्दार्थावेकीकृतौ' इति । दोषस्तु समान एव १० "ज्ञानादव्यतिरिक्तं च कथमर्थान्तरं व्रजेत्” ? [ ] इति । १८४ [ ७ प्रतिभापदार्थवादिमतनिरसनम् ] प्रतिभापक्षे तु यदि सा परमार्थतो बाह्यार्थविषया तदैकत्र वस्तुनि शब्दादौ विरुद्धसमयाव स्थायिनां विचित्राः प्रतिभा न प्राप्नुवन्ति, एकस्यानेकस्वभावासम्भवात् । अथ निर्विषया तदार्थे प्रवृत्ति प्रतिपत्ती न प्राप्नुतः, अतद्विषयत्वाच्छब्दस्य । अथ स्वप्रतिभासो (से) ऽनर्थे ऽर्थाध्यवसायेन १५ भ्रान्त्या ते प्रवृत्ति प्रतिपत्ती भवतस्तदा भ्रान्तः शब्दार्थः प्राप्नोति, तस्याश्च बीजं वक्तव्यम्; अन्यथा सा सर्वत्र सर्वदा भवेत् । यदि पुनर्भावानां परस्परतो भेद एवं बीजमस्यास्तदाऽस्मत्पक्ष एव समर्थितः स्यादिति सिद्धसाध्यता । किञ्च, सर्वमेतत् स्वलक्षणादिकं शब्दविषयत्वेनाभ्युपगम्यमानं क्षैणिकम् अक्षणिकं वेति ? औद्यपक्षे सङ्केतकालदृस्य व्यवहारकालानंन्वयान्न तत्र समयः सप्रयोजनः । अक्षणिकपक्षे च २० "नाक्रमात् क्रमिणो भावें :" [ इति शब्दार्थविषयस्यै कमिज्ञानस्याभावप्रसक्तिः । 1 १ पृ० १८० पं० २२ । “ जल्पो बुद्धिस्थ एवायं बाह्ययोगविभेदतः । ततः को भेद एतस्य त्रुटि (बुद्धि) पक्षादनन्तरात् " ? ॥ "बुद्ध्याकारोऽपि शब्दार्थः प्रागेव विनिवारितः । ज्ञानादव्यतिरिक्तस्य व्यापकत्व वियोगतः” ॥ तत्त्वसं० का ० ९०० - ९०१ पृ० २८८ । २ “सहैकीकरणं भवेत् यावता स्वलक्षणादिरूपस्य शब्दार्थस्याऽसंभवः पूर्व प्रतिपादितः " - तत्त्वसं० पञ्जि० पृ० २८८ पं० ९ । ३ भवेदयमपि आ० हा०वि० । ४ पृ० १७५ पं० ५-५० १७९ पं० ११ । ५ " तथाहि - बाह्ययोः शब्दार्थयोः " - तत्त्वसं ० पजि० पृ० २८८ पं० ११। ६ तथा गृहीता-आ० वि० । ७ • स्वभावबुद्धौ आ० हा० वि० । ८ पृ० १८१ पं० ४ । ९ " व्यक्तयो नानुयान्त्यन्यदनुयायि न भासते । ज्ञानादव्यतिरिक्तं च कथमर्थान्तरं व्रजेत् " ? ॥ तत्त्वसं० प०ि पृ० ३८९ पं० २२ । १० पृ० १८२ पं० ८ । " प्रतिभाऽपि च शब्दार्थो बाह्यार्थविषया यदि । एकात्म नियते बाह्ये विचित्राः प्रतिभाः कथम् " ? ॥ " अथ निर्विषया एता वासनामात्रभावतः । प्रतिपत्तिः प्रवृत्तिर्वा बाह्यार्थेषु कथं भवेत् " ? ॥ "बाह्यरूपाधिमोक्षेण स्वाकारे यदि ते मते । शब्दार्थोऽतात्त्विकः प्राप्तस्तथा भ्रान्त्या प्रवर्तनात् " ॥ “निर्बीजा न च सा युक्ता सर्वत्रैव प्रसङ्गतः । इतरेतरभेदोऽस्य बीजं चेत् पक्ष एष नः" ॥ तत्त्वसं ० का ० ९०२ - ९०५ पृ० २८८ । ११ स्वविषयप्रतिभासोऽनर्थे ऽर्थाव्यवसा - वि० गु० भा० । - 'स्वविषयप्रतिभासे ऽनर्थे ऽर्थव्यवसायेन' वि० सं० । “स्वप्रतिभासेऽनर्थेऽध्यवसायेन" - तत्त्वसं० पक्षि० पृ० २८९ पं० ४ । “यदि च निर्विषया कथं तर्हि तदर्थे प्रवृत्ति-प्रतिपत्ती ? अनर्थेऽर्थाध्यवसायेन भ्रान्त्या चेत्” - शास्त्रवा० स्याद्वादक० पृ० ४०० द्वि० पं० ६ । १२ " यदि वा सर्वमेवेदं क्षणिकं स्यान्न वा तथा । क्षणिकत्वेऽन्वयायोगः क्रमिज्ञानं च नान्यथा " ॥ तत्त्वसं ० का ० ९०६ पृ० २८९ । १५ उक्तिरेषा तत्त्वसं० पजि० पृ० १३ आद्ये पक्षे भां० म० । १४ - नन्वये न त आ० वि० गु० । २८९ पं० १४ । १६-स्य व्यवहारक्रमि - वि० ।-स्य व्यवहारः क्रमि - गु० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy