SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ शब्दार्थ-तत्संबन्धयोर्मीमांसा । १८३ साक्षात् प्रतिपादयन्ति; अन्यथा हि कथं परस्परव्याहताः प्रवचनभेदा उत्पाद्यकथाप्रबन्धाश्च स्ववि. कल्पोपरचितपदार्थभेदद्योतकाः स्युरिति ? [प्रागुक्ते पक्षसप्तके प्रतिविधातव्ये प्रथमम् अस्त्यर्थवादिमतनिरसनम् ] अत्र प्रतिविदधति-यद्यस्त्यर्थः पूर्वोदितवलक्षणादिस्वभाव इष्यते तदा पूर्वोदितदोषप्रसङ्गः। किञ्च, अनिर्धारितविशेषरूपत्वादस्त्यर्थस्य तस्मिन् केवले शब्दैः प्रतिपाद्यमाने 'गौः' 'गवयः' 'गजः' ५ इत्यादिभेदेन व्यवहारो न स्यात्, तस्य शब्दैरप्रतिपादितत्वात् । न च गोशब्दात् गोत्वविशिष्टस्याथस्य सत्तामात्रस्य शाबलेयत्वादिभेदरहितस्य प्रतीतेर्भेदेन व्यवहारो भविष्यतीति प्रतिपादयितुं शक्यम्, अभ्युपगमविरोधात्-गोशब्दादस्त्यर्थमात्रपरित्यागेन गवादिविशेषस्य प्रतिपत्त्यभ्युपगमात् । अथ विषाणादेर्विशेषस्य गोशब्दादप्रेतीतेरस्त्यर्थवाचकत्वं शब्दस्याभिप्रेतम् ; नन्वेवं यदा गोत्वादिना विशिष्टमर्थमात्रमुच्यत इति मतं तदा तद्वैतोऽर्थस्याभिधानमङ्गीकृतं स्यात्, तंत्र च जातेस्तत्स-१० मवायस्य च निषेधात् तद्वतोऽर्थस्यासम्भव इति पूर्वोक्तो दोषः । किञ्च, तद्वतोऽर्थस्य स्वलक्षणास्मकत्वादेशक्यसमयत्वमव्यवहार्यत्वमस्पष्टावभासप्रसङ्गश्च पूर्ववदापद्यत एव; स्वलक्षणादिव्यतिरेकेणान्योऽस्त्यर्थो निरूप्यमाणो न बुद्धौ प्रतिभातीत्यस्यासत्त्वमेव ।। [२ समुदायपदार्थवादिमतनिरसनम् ] समुदायाभिधानपक्षे तु जाते.दानां च तपःप्रभृतीनामभिधानमङ्गीकृतमिति प्रत्येकाभिधान-१५ पक्षभाविनो दोषाः सर्वे युगपत् प्रामुवन्तीति न तत्पक्षाभ्युपगमोऽपि श्रेयान् ।। [३-४ असत्यसंबन्ध-असत्योपाधिसत्यपदार्थवादिमतद्वयनिरसनम्] 'असत्यसंबन्ध'-'असंत्योपाधिसत्य' इति पक्षद्वये च संयोग-समवायलक्षणस्य सम्बन्धस्य निषिद्धत्वात् सामान्यस्य च त्रिगुणात्मकस्य सत्यस्याव्यतिरिक्तस्य, व्यतिरिक्तस्याप्यसम्भवात् नासत्यः संयोगः । नाप्यसत्योपाधि सामान्य शब्दवाच्यं सम्भवति । २० १-कथं प्र-गु०। २-बन्धाश्च विक-भां० मां० वा. बा. विना। ३ पृ. १७९ पं० १३ । "तत्राऽस्त्यर्थोऽभिधेयोऽयं किं खलक्षण मिष्यते । जातियोगोऽथ यद्वाऽन्य (त?) बुद्धर्वा प्रतिबिम्बकम् ॥ "एते स्व(स)दोषाः पूर्वोक्ता अस्त्यर्थे केवलेऽपि च । प्रतिपाद्ये न भेदेन व्यवहारोऽवकल्पते" ॥ तत्त्वसं० का० ८९३-८९४ पृ० २८६ । ४ पृ. १७४ पं० २३। ५ पृ० १७४ पं० २५। ६ केवलशब्दैः वि. विना०। ७ शब्दैरपि प्र-गु० । ८ "गोत्वशब्दविशिष्टार्थसत्तामात्रगर्भवेत् । विषाणाकृतिनीलादिभेदाख्यातेस्तु तन्मतम्" ॥ तत्त्वसं० का० ८९५ पृ० २८७ । ९ प्रतीतिर-भां० मां० विना । १. "नन्वेवं तद्वतोऽर्थस्य भेदानां चाभिधा भवत् । तद्भावे तत्र दोषश्च नान्योऽस्त्यर्थश्च दृश्यते" ॥ तत्त्वसं० का० ८९६ पृ० २८७ । ११-टमर्थमात्रमण्यते वा० बा० ।-एधर्ममात्रमिष्यते -को. आ० ।-'टधर्मिमात्रमिप्यते' वि० सं०। १२-द्वतोऽर्थस्य स्वलक्षणात्मकत्वादस्याभिधान-वि०। १३-तत्त्वं च आ० हा. वि. गु०। १४ पृ. १७८ पं० २७। १५-दशब्दस-वा० बा०। १६ पृ० १७६ पं० ११-पृ० १७७ पं०६। १७ पृ. १८०५०५। "समुदायाभिधानेऽपि जातिभेदाभिधा स्फुटा। तपोजातिक्रियादीनां सामस्त्येनाभिधानतः" ॥ तत्त्वसं० का० ८९७ पृ. २८७ । १८पृ० १८० पं० १३। "निर्धारितखरूपाणां द्रव्यादीनां तु योगतः संबन्धो यच्च सामान्यं सत्यं तद् वारितं पुरा"। तत्वसं० का० ८९८ पृ० २८७ ॥ १९ पृ. १८० पं० १८॥ "भेदजात्यादिरूपेण शब्दार्थानुपपत्तितः । अर्थेनेकीकृतं रूपं न शब्दस्पोपपद्यते ॥ तत्त्वसं. का० ८९९ पृ. २८७ । २. सांख्यसंमतस्य । २१ न्यायसंमतस्य ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy