SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ १८० प्रथमे काण्डे - शब्दाः प्रयुज्यन्ते' तथा दृष्टार्थेष्वपि गवादिशब्देष्वेतत् तुल्यम्, यतस्तेभ्योऽप्येवं प्रतीतिरुपजायते'अस्ति कोऽप्यर्थो यो गवादिशब्दाभिधेयो गोत्वादिः' येस्तु तत्राकारविशेषपरिग्रहः केषाञ्चिदुपजायते स तेषां सिद्धान्तबलात् न तु शब्दात् । [२ समुदायार्थवादिमतम् ] ५ अपरे "ब्राह्मणादिशब्दैस्तपो-जाति-श्रुतादिसमुदायो विना विकल्प- समुच्चयाभ्यामभिधीयते, यथा वनादिशब्दैर्धवादयः" इत्याहुः । तथाहि - 'वनम्' इत्युक्ते 'धैवो (वो वा) खदिरो वा' इति न विकल्पेन प्रतीतिरुपजायते, नापि 'धवश्च खदिरश्च' इति समुच्चयेनः अपि तु सामस्त्येन प्रतीयन्ते धवादयः तथा 'ब्राह्मणः' इत्युक्ते 'तपो वा जातिर्वा श्रुतं वा' 'तपश्च जातिश्च श्रुतं च' इति न प्रतिपत्तिर्भवति अपि तु साकल्येन सम्बन्ध्यन्तरव्यवच्छिन्नास्तपः प्रभृतयः संहताः प्रतीयन्त इति । १० बहुष्वनियतैकसमुदायिभेदावधारणं विकल्पः, एकत्र युगपदभिसम्बन्ध्यमानस्य नियतस्यैकस्य ( तस्यानेकस्य ) स्वरूप भेदावधारणं समुच्चयः, तद्व्यतिरेकेणात्र प्रतिपत्तिर्लोकप्रतीतैव । [ ३ असत्यसंबन्धपदार्थवादिमतम् ] अपरे " द्रव्यत्वादिभिरनिर्धारितरूपैर्यः सम्बन्धो द्रव्यादीनां स शब्दार्थः स च सम्बन्धिनां शब्दार्थत्वेनासत्यत्वादसत्य इत्युच्यते । यद्वा तपः श्रुतादीनां मेचकवर्णवदैक्येन भासनादेषामेव १५ परस्परमसत्यः संसर्गः " । तथाहि एते प्रत्येकं समुदिता वा न स्वेन रूपेणोपलभ्यन्ते किन्त्वलातचक्रवदेषां समूहः स्वरूपमुत्क्रम्यावभासत इति । [ ४ असत्योपाधिसत्यपदार्थवादिमतम् ] अन्ये त्वाहुः-“र्यद् असत्योपाधि सत्यं स शब्दार्थः" इति । तत्र स (?) शब्दार्थत्वेनाऽसत्या उपाधयो विशेषा वलयाऽङ्गुलीयकादयो यस्य सत्यस्य सर्वभेदानुयायिनः सुवर्णादिसामान्यात्मनस्तत् २० सत्यमसत्योपाधि शब्दप्रवृत्तिनिमित्तमभिधेयम् । [ ५ अभिजल्पपदार्थवादिमतम् ] अन्ये तु ब्रुवते - " शब्द एवाभिजल्पत्वमागतः शब्दार्थः" इति । स चाभिजल्पः 'शब्द एवार्थः' १ “प्रयोगदर्शनाभ्यासादाकारावग्रहस्तु यः । न स शब्दस्य विषयः स हि यत्नान्तराश्रयः” ॥ वाक्यप० का० २ श्लो० १२२ पृ० १३३ । २ “समुदायोऽभिधेयो वाऽप्यविकल्प- समुच्चयः” । तत्त्वसं० का० ८८८ पृ० २८४ । “समुदायोऽभिधेयः स्यादविकल्प-समुच्चयः” । वाक्यप० का० २ श्लो० १२८ पृ० १३५ । तथा, शास्त्रवा० स्याद्वादक ० पृ० ४०० प्र० पं० ५ । ३- तादिः समु-आ० कां०डे० भा० । ४ " धवो वा खदिरो वा पलाशो वेति" - तत्त्वसं० पजि० पृ० २८४ पं० १० । शास्त्रवा० स्याद्वादक० पृ० ४०० प्र० पं० ६ । ५- तस्यैव ( क )स्य स्व-वा० वा० । तस्यैव स्व-आ० हा ० वि॰ डे० भा० कां० गु० । “युगपदभिसंबध्यमानस्य नियतस्यानेकस्य स्वरूप भेदावधारणम्'- तत्त्वसं० पञ्जि० पृ० २८४ पं० १५ । ६ “असत्यो वाऽपि संसर्गः शब्दार्थः कैश्चिदुच्यते” ॥ तत्त्वसं० का० ८८८ पृ० २८४ । “असत्यो वाऽपि संसर्गः शब्दार्थः कैश्चिदिष्यते” । वाक्यप० का० २ श्लो० १२८ पृ० १३५ । तथा, शास्त्रवा० स्याद्वादक० पृ० ४०० प्र० पं० १० । - मुक्तस्याव - वा० बा० । ८ “असत्योपाधि यत् सत्यं तद् वा शब्द निबन्धनम् ” । तत्त्वसं० का ० ८८९ पृ० २८४ । “असत्योपाधि यत् सत्यं तद् वा शब्दनिबन्धनम्” । वाक्यप ० का ० २ श्लो० १२९ पृ० १३६ । तथा, शास्त्रवा० स्याद्वादक० पृ० ४०० प्र० पं० १२ । ९-त्यं शब्दा- मां ० मां० विना । १० " तत्र शब्दार्थत्वेनाऽसत्या उपाधयः " - तत्त्वसं० प० पृ० २८४ पं० २३ । ११ " शब्दो वाऽप्यभिजल्पत्वमागतो याति वाच्यताम् " ॥ “सोऽयमित्यभिसंबन्धाद् रूपमेकीकृतं यदा । शब्दस्यार्थेन तं शब्दमभिजल्पं प्रचक्षते ॥ तत्त्वसं ० का ० ८८९-८९० पृ० २८४ - २८५ । " शब्दो वाऽप्यभिजन्य (ल्प ) त्वमागतो याति वाच्यताम् " ॥ “सोऽयमित्यभिसंबन्धाद् रूपमेकीकृतं यदा । शब्दस्यार्थेन तं शब्दमभिजल्पं प्रचक्षते " ॥ "तयोरपृथगर्थत्वे रूढेरव्यभिचारिणि । किंचिदेव क्वचिद् द्रव्यं प्राधान्येनाऽवतिष्ठते” ॥ "लोकेऽर्थरूपतां शब्दः प्रतिपन्नः प्रवर्तते । शास्त्रे तूभयरूपत्वं प्रविभक्तं विवक्षया” ॥ 1 Sararao का० २ ० १२९-१३२ पृ० १३६-१३७ । तथा, शास्त्रवा० स्याद्वादक० पृ० ४०० प्र० पं० १३ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy