SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ शब्दार्थ-तत्संबन्धयोर्मीमांसा । १८१ इत्येवं शब्देऽर्थस्य निवेशनम् 'सोऽयम्' इत्यभिसम्बन्धः, तस्माद् यदा शब्दस्यार्थेन सहकीकृतं रूपं भवति तं स्वीकृतार्थाकारं शब्दमभिजल्पमित्याहुः । [६ बुधारूढाकारपदार्थवादिमतम् ] अन्ये तु “बुद्ध्यारूढमेवाकारं बाह्यवस्तुविषयं बाह्यवस्तुतया गृहीतं बुद्धिरूपत्वेनौविभावितं शब्दार्थम्" आहुः । तथाहि-यावद बुद्धिरूपमर्थेष्वप्रत्यस्तं 'बुद्धिरूपमेव' इति तत्त्वभावनया गृह तावत् तस्य शब्दार्थत्वं नावसीयते तत्र क्रियाविशेषसम्बन्धाभावात, न हि 'गामानय' 'दधि खाद' इत्यादिकाः क्रियास्ताशि बुद्धिरूपे सम्भवन्ति, क्रियायोगसम्भवी चार्थः शब्दैरभिधीयते, अतो बुद्धिरूपतया गृहीतोऽसौ न शब्दार्थः; यदा तु बाह्ये वस्तुनि प्रत्यस्तो भवति तदा तस्मिन् प्रतिपत्ता वाह्यतया विपर्यस्तः क्रियासाधनसामर्थ्य तस्य मन्यत इति भवति शब्दार्थः।। ... ननु चापोहवादिपक्षादस्य को विशेषः? तथाहि-अपोहवादिनाऽपि बुद्ध्याकारो वाह्यरूपतया १० गृहीतः शब्दार्थ इतीष्यत एव । यथोक्तम् "तेंदूपारोपमन्यान्यव्यावृत्त्याधिगतैः पुनः शब्दार्थोऽर्थः स एवेति वचनेन विरुध्यते"॥[ ] इति, नैतदस्तिः अयं हि बुद्ध्याकारवादी बाह्ये वस्तुन्यभ्रान्तं सविषयं द्रव्यादिपु पारमार्थिकेष्वध्यस्तं बुद्ध्याकारं परमार्थतः शब्दार्थमिच्छति न पुनरा( न तु निरा)लम्बनं भिन्नेष्वमेदाध्यवसायेन प्रवृत्तेन्तिमितरेतरभेदनिबन्धनमभ्युपैति यदा तु यथाऽस्माभिरुच्यते "सं सर्वो (सर्वो) मिथ्यावभासोऽयमर्थ इतीप्यत एव यथोक्तेष्वेका(मर्थेष्वेका )त्मकग्रहः । इतरेतरभेदोऽस्य वीजं संज्ञा यदर्थिका"M ] इति तदा सिद्धसाध्यता। यद् वक्ष्यति"इतरेतरभेदोऽस्य वीजं चेत् पक्ष एष नः"॥[ तत्त्वसं० का०९०५ ] इति । २० न चापोहवादिना परमार्थतः किश्चिद वाच्यं बुद्ध्याकारोऽन्यो वा शब्दानामिष्यते। तथाहि१-कारश-बा० भ०। २ “यो वाऽर्थो बुद्धिविषयो बाद्यवस्तुनिबन्धनः । स बाह्य वस्त्विति ज्ञातः शब्दार्थः कैश्विदिष्यते" ॥ तत्त्वसं. का०८९१ पृ. २८५। “यो वाऽर्थों बुद्धिविषयो बाह्यवस्तुनिबन्धनः । स बाह्यवस्त्विति ज्ञातः शब्दार्थः कैश्चिदिष्यते" ॥ वाक्यप का. २ श्लो. १३४ पृ० १३७ । तथा, शास्त्रवा० स्याद्वादक. पृ. ४०० द्वि. पं.१। ३-नाविर्भावि-भां० मां० । “वुद्धिरूपत्वेनाविर्भावितम्"-तत्त्वसं. पजि. पृ० २८५५०७। ४-त्ययस्तं भां० मा०। ५-ति तत्र भा-भां० मां०।-ति त्वच्च भा-हा०। ६-'धि च खाद' वि० ब०। ७बाह्यवस्तुनि का। ८-धनासा-वा. बा०। ९-स्य स मन्य-वा० बा०। १० गृहीतः शब्दार्थों इतीष्य(ोऽभीष्य-) वा. बा० । गृहीतशब्दार्थो इतीय-आ० कां० गु० । “अपोहवादिनाऽपि बुद्धयाकारो बाह्यरूपतया गृहीतः शब्दार्थ इति भाष्यत एव"-तत्त्वसं० पजि. पृ. २८५ पं० २० । “अपोहवादिनापि वुद्ध्याकारो बाह्यरूपतयाऽध्य. वसितः शब्दार्थोऽभीष्ट एव"-प्रमेयक० पृ० १२९ द्वि० पं० १। ११ तपारोपमस्यान्यव्यावृत्त्यं विगतः पुनः। शब्दार्थोऽर्थःस पवेति वचनेतिरुध्यते ॥वा. बा। तद्रूपारोपगत्यान्यव्यावृत्त्यधिगतेः पुनः। भा० मा० । "तद्रूपारोपगत्याऽन्यव्यावृत्त्यधिगतेः पुनः। शब्दार्थोऽर्थः स एवेति वचने न विरुध्यते"॥ तत्त्वसं• पजि. पृ० २८५ पं० २१ । १२-वादो बा-कां० वि०। १३-न्तं संबन्धविषयं वा• बा । १४ “ननु (तु) निरालम्बनं मिन्नेष्वमेदाध्यवसायेन"-तत्त्वसं० पजि. पृ. २८५ पं० २४ । १५-वृत्तेभ्रान्त-वा. बा० ।-वृत्तेभ्रान्तमितरभेद-आक वि०। १६ यथा तु भा.मां. विना । यया तु हा.। “यदि तु यथाऽस्माभिरुच्यतेसर्वो मिथ्यावभासोऽयमर्थेष्वेकात्मना ग्रहः । इतरेतरभेदोऽस्य बीजं संज्ञा यदर्थिका" ॥ तत्त्वसं० पजि. पृ० २८५ पं० २५ । १७ अत्र 'सः' इत्यस्य 'इतीष्यत एव यथोक्ते' इत्यस्य चार्थाननुसारिणः पाठस्य लिपिकारदोषेण प्रवेशाद् इदं तत्त्वसंग्रहपजिकागतपद्यमपि गद्यमिव जातम् । १८-रभेदेस्य भां० मां० हा० वि० गु०।-रभेद स्य आ• कां । १९ शास्त्रवा० स्याद्वादक. पृ० ४०० द्वि० पं० ७ । २०-तरामेदोऽस्य आ० के० गु० वा.।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy