SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ शब्दार्थ-तत्संबन्धयोर्मीमांसा । [पदवाच्यविषयाणि वाजध्यायन-व्याडि-पाणिनीनां मतानि] "जातिः पदार्थः” इति वाजध्यायनः । “द्रव्यम्" इति व्याडिः । “उभयम्" पाणिनिः । तदप्यनेनैव निरस्तम् जातेरयोगाद् द्रव्यस्य च स्वलक्षणात्मकत्वात् तत्पक्षभाविदोषानतिवृत्तेः। [बुद्ध्याकारे समयासंभवसाधनम् ] बुंध्याकारेऽपि न समयः सम्भवति, तस्य वुद्धितादात्म्येन व्यवस्थितत्वाद् नासौ तद्बुद्धिख- ५ रूपवत् प्रतिपाद्यमर्थ बुद्ध्यन्तरं वाऽनुगच्छति; ततश्व सङ्केत-व्यवहारकालाव्यापकत्वात् स्वलक्षणवत् कथं तत्रापि समयः? भवतु वा तस्य व्यवहारकालान्वयस्तथापि न तत्र समयो व्यवहर्तृणां युक्तः। तथाहि–'अपि नामेतः शब्दादर्थक्रियार्थी पुमानर्थक्रियाक्षमानर्थान् विज्ञाय प्रवर्तिष्यते' इति मन्यमानैर्व्यवहर्तृभिरभिधायका ध्वनयो नियोज्यन्ते न व्यसनितया; न चासौ विकल्पो बुद्ध्याकारोऽ. भिप्रेतशीताऽपनोदादिकार्य तदर्थिनः सम्पादयितुमलम् तदनुभवोत्पत्तावपि तदभावात् , तेन तत्रापि १० समयाभावान्नासिद्धः 'अकृतसमयत्वात्' इति हेतुः। . ['अस्त्यादयः शब्दार्थाः' इति वादिनां पक्षसप्तके निरूपयितव्ये प्रथमम् अस्त्यर्थवादिमतम् ] अथ अस्त्यर्थादयोऽपरे शब्दार्थाः सन्ति, ततश्च तत्र समयसम्भवादसिद्धतैव हेतोः । तथाहि'अस्त्यर्थः' इति यदेतत् प्रतीयते तदेव सर्वशब्दानामभिधेयं न विशेषः, यथैव ह्यपूर्व-देवतादिशब्दा नाकारं विशेष बुद्धिषु सन्निवेशयन्ति केवलं तत्रैतावत् प्रतीयते-'सन्ति केऽप्यर्थाः येष्वपूर्वादयः१५ १ "आकृत्यभिधानाद्वा एकं विभक्तौ वाजप्यायनः" । “आकृत्यभिधानाद्वा एक शब्दं विभक्तौ वाजप्यायन आचार्यों न्याय्यं मन्यते । एका आकृतिः, सा चाभिधीयते” इति अ०१ पा०२ सू०६४ महाभा० पृ०९० पं० ५। “जातिशब्दार्थवाचिनो वाजप्यायनस्य मते गवादयः शब्दा भिन्नद्रव्यसमवेतजातिमभिदधति"-सर्वदर्शनसं० द. १३५० २३७ । “तदित्थं वाजप्यायनाचार्यमतेन सार्वत्रिकी जातिपदार्थव्यवस्थोपपद्यते"-वाक्यप० तृ. का० श्लो० २ हेलाराजटी० पृ. ६ पं० २८ जातिसः। २-ति व्याजध्यायनः गु० डे. भा० वि० । “वाजा( का ? )त्यायनः"-तत्त्वसं० पञ्जि. २८२ पं० २५ । इदं च रूपं 'वाजध्य'प्रकृतेरायनणि प्रत्यये निष्पन्नम् । किन्तु अस्य प्रकृतिः क्वचित् 'वाजव्य' इति, क्वचिच्च 'वाजप्य' इति दृश्यते । तद्यथा-“वाजव्य" चान्द्रव्या० अ० २ पा० ४ सू० ३५, गणर० म० पृ० १५० का० २३६ । “वाजप्य" अ० ४ पा.१ सू० ९९ काशिका तथा सिद्धान्तकौ । “वाजप्यायन" बङ्गीयविश्वकोषे बकारादिवर्गे । “व्याज( वाजव्यतिकेत्येके" हैमश० अ०६ पा० १सू० ५३ । चान्द्रे 'वाजव्य' 'व्यतिक' इति प्रकृतिद्वयम् । काशिका-कौमुद्योः 'वाजप्य' 'तिक' इति प्रकृतिद्वयम् । गणरत्नमहोदधौ च का० २३५-२३६ 'तिक' 'वाजव्य' इति प्रकृतिद्वयं दृश्यते । यद्यपि हैमशब्दानुशासने 'व्याज(वाज)' इत्येव मुद्रितमस्ति तथापि तत्र चान्द्रादिपाठानुरोधेन 'वाजव्यायन' इति रूपानुरोधेन च 'वाजव्य' इत्येव प्रकृतिः साध्वी। अत्र Pro.Dr. E.Windisch इत्यनेन सम्पादिःस्य चान्द्रव्याकरणस्य पृ० १६१ गतं द्वितीय टिप्पनकं द्रष्टव्यम । ३ “द्रव्याभिधानं व्याडि:" "द्रव्याभिधानं व्याडिराचार्यो न्याय्यं मन्यते द्रव्यमभिधीयते” इति अ०१ पा०२ सू०६४ महाभा० पृ० ९४ पं० १४ । “द्रव्यपदार्थवादिव्याडिनये शब्दस्य व्यक्तिरेवाभिधेयतया प्रतिभासते"-सर्वदर्शनसं० द. १३ पं० २४४ । “व्याडिमते तु सर्वशब्दानां द्रव्यमर्थः”-वाक्यप० तृ० का० श्लो० २ हेलाराजटी० पृ.६ पं०२९ जातिस० । ४“उभय मित्याह" "कथं ज्ञायते?" "उभयथा ह्याचार्येण सूत्राणि पठितानि । आकृति पदार्थ मत्वा xxx द्रव्यं पदार्थ मत्वा xxx"अ. १ पा. १ आ०१जातिव्यक्तिपदार्थ नि० महाभा० पृ. ५२ पं० १४ । "पाणिन्याचार्यस्योभयं संमतम्"-सर्वदर्शनसं० द. १३ पं० २४६ । ५ "बुद्ध्याकारच बुद्धिस्थो नार्थबुधन्तरानुगः । नामिप्रेतार्थकारी च सोऽपि वाच्यो न तत्त्वतः"॥ "येऽन्येऽन्यथैव शब्दार्थमस्त्यादीन् प्रचक्षते । निरस्ता एव तेऽप्येतैस्तथापि पुनरुच्यते" ॥ तत्त्वसं० का. ८८५-८८६ पृ० २८३ । तथा, शास्त्रवा० स्याद्वादक० पृ० ४०० प्र०५०२।६-पि समयः भां. मां० गु० डे. भा०। ७शब्दार्थक्रिया-गु० । शब्दार्थः क्रिया-भां० मां। ८ “अस्त्यर्थः सर्वशब्दानामिति प्रत्याय्यलक्षणम् । अपूर्व-देवता-खगैः सममाहुर्गवादिषु"॥ तत्त्वसं० का० ८८७ पृ० २८३ । “अस्त्यर्थः सर्वशब्दानामिति प्रत्याय्यलक्षणम् । अपूर्व-देवता-खर्गः सममाहुर्गवादिषु" ॥ वाक्यप० का० २ श्लो० १२१ पृ० १३२ तथा, शास्त्रवा० स्याद्वादक. पृ० ४०० प्र०५०३। ९ 'नार्थाकारविशेषम' वि० सं० । “नाकारविशेषम्"-तत्त्वसं० पनि पृ० २८३ पं० २८ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy