SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ १७८ प्रथमे काण्डेलिङ्गाऽनिर्देशः । तेनायमों भवति-योऽयं गुणविशंपाश्रयः सा व्यक्तिचोच्यते मूर्तिश्चेति । तत्र यदा द्रव्ये मूर्तिशब्दस्तदाऽधिकरणसाधनो द्रष्टव्यः-मूर्च्छन्त्यस्मिन्नवयवा इति मूर्तिः, यदा तु रूपादिषु तदा कर्तसाधनः-मुर्छन्ति द्रव्ये समवयन्तीति रूपादयो मूर्तिः। व्यक्तिशब्दस्तु द्रव्ये कर्मसाधनः रूपादिषु करणसाधनः" [अ० २ आ० २ सू० ६८ न्यायवा० पृ० ३३२ पं० ३-२४] । ५ भाष्यकारमतेन च यथाश्रुति सूत्रार्थः-गुणविशंपाणामाश्रयो द्रव्यमेव व्यक्तिर्मूर्तिश्चेति तस्येटम् । यथोक्तम्-"गुणविशेषाणां रूप-रस-गन्ध-स्पर्शानाम् गुरुत्व-द्रवत्व-घनत्व-संस्काराणाम् अव्यापिनश्च परिमाणविशेषस्याश्रयो यथासम्भवं तद् द्रव्यं मूर्ति (मूर्तिः)मूर्चिछतावयवत्वात्" [न्यायद० वात्स्या० भा० पृ० २२४ ] इति। आकृतिशब्देन प्राण्यवयवानां पाण्यादीनाम् तदययवानां चाङ्गुल्यादीनां संयोगोऽमिधीयते । १० तथा च सूत्रम्-"आकृतिर्जातिलिङ्गाख्या" [न्यायद० अ० २ आ० २ सू० ६७] इति । अस्य भाष्यम्-"यया जातिर्जातिलिङ्गानि च व्याख्यायन्ते तामाकृतिं विद्यात् सा च सत्वावयवानाम् । तदवयवानां च नियतो व्यूहः” [न्यायद० वात्स्या० भा० पृ० २२५] व्यूहशब्देन संयोगविशेष उच्यते, नियतग्रहणेन कृत्रिमसंयोगनिरासः, तत्र जातिलिङ्गानि प्राण्यवयवाः शिर:-पाण्या दयः तैर्हि गोत्वादिलक्षणा जातिर्लिङ्गयते, आकृत्या तु कदाचित् साक्षाजातिय॑ज्यते यदा शिरः-पा. १५ण्यादिसन्निवेशदर्शनाद् गोत्वं व्यज्यते, कदाचिजातिलिङ्गानि यदा विषाणादिभिरवयवैः'पृथक पृथक स्वावयवसन्निवेशाभिव्यक्तैर्गोत्वादिय॑ज्यते; तेन जातेस्तल्लिङ्गानां च प्रख्यापिका भवत्याकृतिः । जातिशब्देनाभिन्नाभिधान-प्रत्ययप्रसवनिमित्तं सामान्याख्यं वस्तूच्यते । तथा च सूत्रम्“समानप्रत्ययप्रसवात्मिका जातिः" [न्यायद० अ०२ आ०२ सू०६८] इति समानप्रत्ययोत्पत्तिकारणं जातिरित्यर्थः। २० तत्र व्यक्त्याकृत्योः एतेनैव स्वलक्षणस्य शब्दार्थत्वनिराकरणेन शब्दार्थत्वं निराकृतम् । तथाहि यथा स्वलक्षणस्याकृतसमयत्वादशब्दार्थत्वं तथा तयोरपीति 'अकृतसमयत्वात्' इत्यस्य हेतो - सिद्धिः, नाप्यनैकान्तिकता। अपि च, व्यक्तिर्द्रव्य-गुणविशेष-कर्मलक्षणा, आकृति त्मिका, एते च द्रव्यादयः प्रतिषिद्धत्वाद् असन्तः कथं शब्दार्थतामुपयान्ति ? [२-४ जाति-तद्योग-तद्वत्सु संकेतासंभवप्रदर्शनम् ] २५ एवं स्वलक्षणवजाति-तद्योग-जातिमत्स्वपि-जात्यादेरसम्भवात्-समयासम्भवः। यथा च जातेस्तद्योगस्य च समवायस्यासम्भवस्तथा प्रागेव प्रतिपादितम्, जाति-तद्योगयोश्चाभावे तद्वतोऽप्यसम्भव एव तत्कृतत्वात् तद्यपदेशस्य, तद्वतश्च स्वलक्षणात्मकत्वात् तत्पक्षभावी दोषः समान एव। आकृतिश्च संयोगा १-धना आ. वि. का. गु०। २ नेदं वार्तिकं शब्दशो न्यायवार्तिक । ३ "यथा श्रोत्रेऽक्षराणि पतन्ति तथा सूत्रार्थः” वि. टि.। ४ व्यक्तिमूर्ति-आ. वि. कां०। ५-वैः पृथक् पृथग् न स्वाव-भां० मां० ।-वैः पृथग्न स्वाव-आ० हा० गु०। ६ प्रख्ययिका वा० वा० । प्रत्याख्यातिका आ० हा० वि० गु०। ७ सूत्रं तु “समानप्रसवात्मिका जातिः" इति दृश्यते न्यायदर्शने, न्यायवार्तिके, तत्त्वसंग्रहपत्रिकायां च । ८ "एतेनैव प्रकारेण व्यक्त्याकृत्योर्निराकृतिः। स्खलक्षणात्मतेवेष्टा तयोरपि यतः परैः"॥ तत्त्वसं० का० ८८१ पृ. २८२ । ९ "द्रव्यादियोगयोः प्राक् तु प्रतिषेधाभिधानतः । न तात्त्विकी तयोर्युक्ता शब्दार्थत्वव्यवस्थितिः" ॥ तत्त्वसं० का० ८८२ पृ० २८२ । १. "जाति-संबन्धयोः पूर्व व्यासतः प्रतिषेधनात् । नानन्तराः प्रकल्प्यन्ते शब्दार्थास्त्रिविधाः परे" ॥ "तद् व्यक्त्याकृतिजातीनां पदार्थत्वं यदुच्यते । तदसंभवि सर्वासामपि नीरूपता यतः" ॥ तत्त्वसं. का०८८३-८८४ पृ. २८२-२८३ । ११ पृ. ११०५० ९ तथा पृ०१०६पं०१०।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy