SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ शब्दार्थ-सत्संपन्भयोर्मीमांसा । १७३ पदार्थस्तु मलमिव आरा प्राजमकविभागो यस्यासौ मलारो गौर्गली आगमे तद्वत् कुण्ठं हृदयं यस्य तदर्थप्रतिपत्त्यसामर्थ्यात्-असौ तथा मन्दधीः, सम्यगीयन्ते परिच्छिद्यन्तेऽनेनार्था इति समय आगमः तस्य परमोऽकल्पितश्चासावर्थः समयपरमार्थः तस्य विस्तरो रचनाविशेषःशब्दार्थयोश्च मेदेऽपि पारमार्थिकसम्बन्धप्रतिपादनायाऽभेदविवक्षया "प्रथने वावशब्दे" [पाणि० ३, ३,३३] इति घञ् न कृतः-तस्य विहाट इति दीप्यमानान् श्रोतृबुद्धौ प्रकाशमानानान् दीपयति५ प्रकाशयतीति विहाटश्चासौ जनश्च चतुर्दशपूर्व विदादिलोकः तस्य पर्यपासनम्-कारणे कार्योपचारात्-सेवाजनिततयाख्यानं तत्र सह कर्णाभ्यां वर्तत इति सकर्णः तद्व्याख्यातार्थावधारणसमर्थः यथा इति येन प्रकारेण भवति तं तथाभूतमर्थमुन्नेष्ये लेशतः प्रतिपादयिष्ये । ___ यथाभूतेनार्थेन प्रतिपादितेनातिकुण्ठधीरपि श्रोतृजनो विशिष्टागमव्याख्यातृप्रतिपादितार्थावधारणपटुः सम्पद्यते तमर्थमनेन प्रकरणेन प्रतिपादयिष्यामीति यावत् ।। [शब्दार्थ-तत्संबन्धयोर्मीमांसा-पूर्वपक्षः] [ 'अपोह एव शब्दस्यार्थः' इति बौद्धमतस्य संक्षिप्य स्थापनम् ] ननु च 'समयपरमार्थविस्तर'-इत्यनेनागमस्याकल्पितो बाह्यार्थः प्रतिपाद्यत्वेन शब्दार्थयोश्च वास्तवः सम्बन्धो निर्दिष्टः, द्वितयमप्येतदयुक्तम् ; प्रमाणबाधितत्वात् इति बौद्धाः। तथाहि-शब्दानां न परमार्थतः किञ्चिद् वाच्यं वस्तुस्वरूपमस्ति; सर्व एव हि शाब्दप्रत्ययो भ्रान्तः, मिन्नेम्वर्थेविभेदा-१५ काराध्यवसायेन प्रवृत्तेः। यत्र तु पारम्पर्येण वस्तुप्रतिबन्धस्तत्रार्थसंवादो भ्रान्तत्वेऽपि, तत्र यत् तदारोपितं विकल्पबुद्ध्याऽर्थेष्वभिन्न रूपं तद् अन्यव्यावृत्तपदार्थानुभवबलायातत्वात् स्वयं चान्यव्या. वृत्ततया प्रतिभासनात् भ्रान्तैश्चान्यव्यावृत्तार्थेन सहैक्येनाध्यवसितत्वात् अन्यापोढपदार्थाधिगतिफलत्वाञ्च अन्यापोह इत्युच्यते, अतः अपोहः शब्दार्थः इति प्रसिद्धम् । ['विधिरेव शब्दस्यार्थः' इति विधिवादिमतस्य संक्षिप्य प्रतिस्थापनम् ] २० अत्र विधिवादिनः प्रेरयन्ति-यदि भवतां द्रव्य-गुण-कर्म-सामान्यादिलक्षणानि विशेषणानि शब्दप्रवृत्तिनिमित्तानि परमार्थतो न सन्ति कथं लोके 'दण्डी'इत्याद्यभिधानप्रत्ययाः प्रवर्त्तन्ते द्रव्याधुपाधिनिमित्ताः? तथाहि-'दण्डी' 'विषाणी' इत्यादिधी-ध्वनी लोके द्रव्योपाधिको प्रसिद्धौ, 'शुक्लः' 'कृष्णः' इति गुणोपाधिकौ, 'चलति' 'भ्रमति' इति कर्मनिमित्तौ, 'अस्ति' 'विद्यते' इति सत्तानिमितको, 'गौः' 'अश्वः' इति सामान्यविशेषोपाधी, 'इह तन्तुषु पटः' इति समवायनिमित्तः (तो)। तत्रै-२५ षां द्रव्यादीनामभावे 'दण्डी' इत्यादिप्रत्यय-शब्दौ निर्विषयौ स्याताम् । न चानिमित्तावेतौ युक्ती, सर्वत्र सर्वदा तयोरविशेषेण प्रवृत्तिप्रसङ्गात् । न चाविभागेन तयोः प्रवृत्तिरस्ति, तस्मात् सन्ति द्रव्यादयः पारमार्थिकाः प्रस्तुतप्रत्यय-शब्दविषयाः। प्रमाणयन्ति चौत्र-ये परस्परासङ्कीर्णप्रवृत्तयस्ते सनिमित्ताः, यथा श्रोत्रादिप्रत्ययाः, असङ्कीर्णप्रवृत्तयश्च 'दण्डी' इत्यादिशब्द-प्रत्ययाः इति स्वभावहेतुः । अनिमित्तत्वे सर्वत्राविशेषेण प्रवृत्तिप्रसङ्गो३० बाधकं प्रमाणम्। १ "मट्ठ-मराला य अलसम्मि"-देशीना. व. ६ श्लो० ११२ पृ. २२२ । “मंदं अलसं जडं मरालं च"-पाइल. ना० श्लो. १५ पृ.३। २ "वेरशब्दे प्रथने" इति हैमं सूत्रम्-५, ३, ६९। ३ "हट दीप्तौ" है. धातुपारा० १, १८८ पृ. २७। ४ कार्य कारणोपचारात् भां• मां०। ५ शब्दश एवेदं संपूर्णमपोहप्रकरणमविकलतया तत्त्वसंग्रहपत्रिकायां दृश्यते पृ. २७४ का०८६७-पृ० ३६६ का० १२१२। ६ यदारो-वि०। ७-यं वा-या. बा । ८-नाभ्रान्तेश्चा-भां। “यदि नोपाधयः केचिद् विद्यन्ते (परमार्थतः)। (दण्डी शुक्लश्चलत्यस्ति गो) रिहेत्यादिधी (ध्वनी)। (स्यातां) किंविषयावेतौ नाऽनिमित्तौ च तौ मतौ । सर्वस्मिन्नविभागेन तयोर्वृत्तिरसंभवी" (2)॥ तत्त्वसं० का० ८६७, ८६८ पृ. २७४ । १. 'इहात्मनि ज्ञानम्' इत्यादिको संबन्धोपाधिको” प्रमेयक पृ० १२८ द्वि० पं०८-१। ११-ण वृत्तिमा०मा०।१२ प्रयोगोऽयं विद्यते प्रमेयक. पृ. १२८ द्वि. पं. ७ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy