SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डेसाधनस्यासिद्धिरिति वक्तुं शक्यम्, शास्त्रश्रवणतः प्रयोजनावगमे शास्त्रस्यादौ तद्वाक्योपन्यासस वैयर्थ्यप्रसक्तः । अत एव “शास्त्रार्थप्रतिक्षाप्रतिपादनपरः आदिवाक्योपन्यासः" [ ] इत्याद्यपि प्रतिक्षिप्तम् , अप्रमाणादादिवाक्यात् तदसिद्धेः। तथा, सम्बन्धाऽभिधेयप्रत्यायनपराण्यपि वाक्यानि शास्त्रादौ वाड्यात्रेण निश्चयायोगान्निष्प्रयोजनानि प्रतिक्षिप्तान्येष, उक्तन्यायस्य समान५त्वात् । तद्युक्तम् 'समय'-इत्यादि-अभिधेयप्रयोजनप्रतिपादकम् -गाथासूत्रम्। [उत्तरपक्षः-आदिवाक्योपन्यासस्य सार्थकत्वसमर्थनम्] अत्र प्रतिविधीयते- यदुक्तम् 'न प्रत्यक्षमनुमान वा शब्दः' तत्र सिद्धसाभ्यता, प्रत्यक्षानुमानलक्षणायोगात् तत्र । यर्च 'नापि शब्दः प्रमाणम् बहिरर्थे तस्य प्रतिबन्धवैकल्येन, विवक्षायां तु प्रसिबन्धेऽपि यथाविवक्षमर्थासम्भवात् तदप्यसारम्; बाह्यार्थेन शब्दप्रतिबन्धस्य प्रसाधयिष्यमाणत्वात् १० तत्रैव च प्रतिपति-प्रवृस्यादिव्यवहारस्योपलभ्यमानत्वाद् बाह्यार्थ एव शब्दस्य मामाण्यमभ्युपगन्तव्यं प्रत्यक्षवत्। न चार्थाध्यभिचारित्वप्रामाण्यनिश्चयवतां ततः प्रवर्त्तमानानां प्रेक्षापूर्वकारिताक्षतिः। न चानाप्तप्रणीत सरित्तटपर्यस्तगुडशकट' वाक्यविशिष्टतानवगमाद् नातः प्रवृत्तिः, प्रत्यक्षाभासात् प्रत्यक्षस्येवा नाप्तप्रणीतवाक्यादस्य विशिष्टतावसायात्; यस्य तु न तद्विशिष्टावसायो नासावतः प्रवर्तते अनवधत१५ हेत्वाभासविवेकाद्धेतोरिवानुमेयार्थक्रियार्थी । न चाप्तानां परहितप्रतिबद्धप्रयासानां प्रमाणभूतत्वात् स्ववाड्यात्रेण प्रवर्तयितुं प्रभवतां प्रयोजनवाक्योपन्यासवैयर्थ्यम् , सुनिश्चिताप्तप्रणीतवाक्यादपि प्रतिनियतप्रयोजनार्थिनां तदुपायानिश्चये तत्र प्रवृत्त्ययोगात् । न च प्रयोजनविशेषप्रतिपादकवाक्यमन्तरेणाप्तप्रणीतशास्त्रस्यापि तद्विशेषप्रतिपादकत्वनिश्चयः येन तत एव तदर्थिनां तत्र प्रवृत्तिः स्यात्, तदनमिमतप्रयोजनप्रतिपादकानामपि तेषां संभवात् ।। २० अतः “यत्र खल्वाप्तैः 'इदं कर्तव्यम्' इति पुरुषाः प्रतीततदाप्तभावा नियुज्यन्ते तत्राधीरिततत्प्रेरणाऽतथाभावविषयविचारास्तदभिहितं वाक्यमेव बहु मन्यमाना अनादृतप्रयोजनपरिप्रश्ना एव प्रवर्त्तन्ते, विनिश्चिततदाप्तभावानां प्रत्यवस्थानासंभवात्" [ ] इति निरस्तम्, आप्तप्रवर्तितप्रतिनियतप्रयोजनार्थिजनप्रेरणावाक्यस्यैव प्रयोजनवाक्यत्वनिश्चयात् अन्यथाऽभिमतफलार्थिजनमेरकवाक्यस्याप्तप्रयुक्तत्वमेवानिश्चितं स्यात् अनभिमतार्थप्रेरकस्यावगताप्तवाक्यत्वे चाति२५प्रसङ्गः न चाप्तवाक्यादपि प्रतिनियतप्रयोजनाथिनस्तदवगर्म तत्र प्रवतितुमुत्सहन्ते, अतिप्रसङ्गादेवेति सुप्रसिद्धम् । अर्थसंशयोत्पादकत्वेन चादिवाक्यस्य प्रवर्तकत्वप्रतिक्षेपे सिद्धतासाधनम् , व्यापकानुपलब्धेस्वसिद्धतोद्भावनमादिवाक्यानिश्चितबाह्यार्थप्रामाण्याद् युक्तमेव, यथा च तत्र तस्या (तस्य) प्रामाण्यं तथा प्रतिपादयिष्यामः । अत एव "आप्ताभिहितत्वासिद्धरविसंवादकत्वायोगाप्रमाणत्वा३० भावनिश्चयनिमित्ताभावादप्रवर्तकत्वं प्रयोजनवाक्यस्य प्रेक्षापूर्वकारिणःप्रेति"[ इति यदुच्यते तदपि प्रतिव्यूढं द्रष्टव्यम् । एतेनैव सम्बन्धाभिधेयाभिधानस्यापि सार्थकत्वं प्रतिपादितम् । तत् स्थितमभिधेयप्रयोजनप्रतिपादकत्वं समुदायार्थः 'समय'-इत्यादिगाथासूत्रस्य । अन च 'आगममलारहृदय' इत्यनुवादेन 'समयपरमार्थविस्तरविहाटजनपर्युपासनसको यथा भवति तमर्थमुन्नेष्ये' इति विधिपरा पदघटना कर्तव्या। १ "एतेन शास्त्रप्रतिज्ञाख्यापनफलः संक्षेपतः शास्त्रशरीरख्यापनफलव तदादौ वाक्योपन्यास इत्येवमादयोऽसत्कल्पनाः xxx निर्वर्णितोत्तराः" इति स्याद्वादर० पृ. ९ द्वि.पं०६।२ पृ. १६९ पं० ८।३ पृ० १७० पं०१-३।४ पृ. १७. पं० ८। ५ यदा-आ० का०। ६ न चार्थव्य-वा. बा. विना। -चधारिततत्प्रेरणातथाभाव-आ. वा० बा०। ८-र्थिना ज-आ• गु• हा० भा० डे० ।-र्थिनो ज-वि• कां०। ९-वे वा-भा० हे. गु.आ.। १० अथ-आ• कां० हे. गु० भा०। ११ वि० प्रतौ 'तस्य प्रामाण्यम्' इत्येव संशोधितम् । अथवा 'तस्याऽप्रामाण्यम्' इत्यस्यैव पाठस्य प्राह्यतायां 'न' पदं पूरयित्वा 'यथा च न तत्र तस्याऽप्रामाण्यम्' इति पाठो बोद्धव्यः । ११प्रतीतिर्यदु-वा. बा. बिना । १३-नवाक्यस्य प्रति-भां० मा०।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy