SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ आदिवाक्योपन्याससमीक्षा । संशयानः प्रवर्त्तताम् किमकिञ्चित्करप्रयोजनवाक्येन ? न च सामान्यस्य विशेषस्य च दर्शनाऽदर्शनाभ्यामेव यथोक्ताभ्यां संशयः, किन्तु साधक-बाधकप्रमाणाप्रवृत्तावपि सा च प्रयोजनवाक्योपन्या साऽनुपन्यासयोरपि सम्भवत्येव । १७१ मा भूत् संशयोत्पादनेन वाक्यस्य शास्त्रश्रवणादिप्रवृत्तौ सामर्थ्यम्, किन्तु प्रकरणारम्भप्रतिवेधाय 'नारब्धव्यमिदं प्रकरणम्, अप्रयोजनत्वात्, काकदन्तपरीक्षावत्' इति व्यापकानुपलब्धेर- ५ सिद्धोद्भावनाय तदुपन्यास इति चेत्, एतदप्यसत् यतः शास्त्रप्रयोजनं वाक्येनाप्रदर्शयता तदसिद्धिरुद्रावयितुमशक्या, वाक्यस्याप्रमाणत्या प्रयोजनविशेषसद्भावप्रकाशनसामर्थ्याभावात् । न च सप्रयोजनत्वेतरयोः परस्परपरिहार स्थितयोः कुतश्चित् प्रमाणादेकभावाप्रतिपत्तावतराभावप्रतिपत्तिः - अतिप्रसङ्गात् - येन वाक्यमात्रस्योपक्षेपेण हेतोरसिद्धिः स्यात् । नापि कुतश्चित् प्रयोजनविशेषमुपलभ्य (भ) मानेन स्वयमुपलब्धप्रयोजनविशेषोपलम्भोपायमप्रदर्शयता कर्तुं शक्या असिद्धतो- १० द्भावना, वाक्यस्याप्रमाणस्य हेतुप्रतिपक्षभूतार्थोपस्थापनाऽशकस्योपन्यासमात्रेणासिद्धेरयोगात् । नाप्यनिबन्धना प्रतिपत्तिः, अतिप्रसङ्गात् । अथ यद्यप्यप्रमाणत्वाद् विपरीतार्थोपस्थापनमुखेनासिद्धतामिदं नोद्भावयति तथापि शास्त्रस्य निष्प्रयोजनता सन्दिग्धाऽतः, सन्दिग्धनिष्प्रयोजनत्वस्य शास्त्रस्य प्रयोजनाभावं निश्चितं प्रेक्षावदारम्भप्रतिषेधहेतुं प्रयुञ्जानोऽनेन वाक्येन प्रतिक्षेनुमिष्टः न पुनः प्रयोजनविषयनिश्चय एवोत्पादयितु- १५ मिएँः, न हि प्रतिपक्षोपक्षेपेणैव साधनधर्माणामसिद्धिः अपि तु स्वग्राहिज्ञानविकलतया सन्दिग्धधर्मिसम्बन्धित्वमप्यसिद्धत्वमेव, तस्मात् सन्दिग्धासिद्धतोद्भावनाय वाक्यप्रयोग इति, तदप्यनुपपनम् ; यथा हि सप्रयोजनत्वे सन्देहोत्पादने वाक्यस्यानुपयोगित्वम् - शास्त्रमात्रादपि भावात् - तथा निष्प्रयोजनत्वेऽपि एवं ह्यनेन वाक्येन हेतोरसिद्धतोद्भाविता भवति यदि तत्संत्तासन्देहनिबन्धनानि कारणान्यपि तदैव प्रकाशितानि भवन्ति । न च विपर्यस्तपुरुषसन्देहोत्पादने तद् वाक्यं प्रभवति, २० अदर्शनात् । न च प्रस्तुतशास्त्रस्य प्रयोजनवच्छास्त्रान्तरेण कथञ्चित् साम्यात् साधक-बाधकप्रमाणाप्रवृत्तितश्चान्यानि सन्देहकारणानिं' सम्भवन्ति, वाक्यमप्येतावन्मात्रप्रकाशनपरं हेतोः सन्दिग्धासिद्धतामुद्भावयेत्, तच्च तथाप्रकाशनमनुपन्यस्तेऽपि वाक्ये शास्त्रमात्रादपि दर्शनात् प्रमाणद्वयावृत्तेश्च भवतीति कस्तस्योपयोगः ? अनुपन्यस्ते कथं तत् इति चेत्, उपन्यस्तेऽपि कथम् न हि तदुपन्यासानुपन्यासावस्थयोः सन्दिग्धत्वात् प्रस्तुतात् कथञ्चन विशेषं पश्यामः ? असिद्धतोद्भावन- २५ मन न्यायेन सर्वमेवासङ्गतमिति चेत्, नैतत् न ह्यनेन प्रकारेणासिद्धतोद्भावनमेव प्रतिक्षिप्यते, किन्तु प्रमाणरहिताद् वा यात्रादसिद्धता नोद्भावयितुं शक्येति प्रदर्श्यते । तन्न प्रयोजनवाक्यं हेत्वसिद्धतोद्भावनार्थमपि युक्तम् । न च परोपन्यस्ते साधने प्रयोजनवाक्येनासिद्धतामुद्भाव्य 'कथमसिद्धिः साधनस्य' इति प्रत्यवस्थानवन्तं शास्त्रपरिसमाप्तेः प्रयोजनमवगमयेंन् शास्त्रं श्रावयति ततः समधिगते प्रयोजने तदुपन्यस्तस्य ३० १ अत्र अर्थानुसंधानबलात् ' - प्रतिषेधाय प्रयुज्यमानायाः' इत्येव पाठो बोद्ध्यः । " यत् प्रयोजनरहितं वाक्यम् तदर्थो वा न तत् प्रेक्षावता आरभ्यते कर्तुम् प्रतिपादयितुं वा । तद्यथा 'दशदाडिमा 'दिवाक्यं काकदन्त - x x x प्रकरणम् तदर्थो वेति व्यापकानुपलब्ध्या प्रत्यवतिष्ठमानस्य तदसिद्धतोद्भावनार्थमादौ प्रयोजनवाक्योपन्यासस्तत्र " - हेतु ० टी० ता० लि० पृ० २ प्र० पं० १-२ । " " किन्तु यत् प्रयोजनरहितम् अनर्थकं वा तद् नारब्धव्यम्, यथा काकदन्तपरीक्षोन्मत्तादिवाक्यम्; प्रयोजनरहितं चेदं शास्त्रम् अतो न श्रोतुं कर्तुं वा प्रारब्धव्यम्' इत्येवं व्यापकानुपलब्ध्या यः प्रत्यवतिष्ठते तस्य हेतोरसिद्धतोद्भावनार्थमादौ प्रयोजनादिवाक्योपन्यास इति” तत्त्वसं० पक्षि० पृ० ६ पं० ९ । “व्यापकानुपलब्ध्या प्रत्यवतिष्ठमानान् प्रति व्यापकानुपलब्धेरसिद्धतोद्भावनार्थ प्रयोजनवाक्यम्" - तत्त्वार्थ श्लोकवा० पृ० ४ पं० १९-२० । “शास्त्रप्रारम्भप्रतिषेधाय प्रयुज्यमानायाः व्यापकानुपलब्धेरसिद्धतोद्भावनार्थम्” इति स्याद्वादर० पृ० ८ द्वि० पं० ६ । २ णादेकाभावाप्रवा बा• विना । “कुतश्चित् प्रमाणादेकभावाप्रतीता वितराभावप्रतिपत्तिः” इति स्याद्वादर० पृ० ८ द्वि० पं० ९ । ३ अत्र “नापि कुतश्चित् प्रयोजनविशेषं स्वयं प्रतिपन्नवता परस्य तत्प्रकाशनोपायमनुपदर्शयता" इति स्याद्वादर० पृ० ८ द्वि० पं० १० । ४- मानोन डे० गु० भा० । ५- नाऽशक्य- भां०। ६- पनामुखे वा० बा० । ७ष्टः तर्हि भां० मां० । ८-ताद्भवति आ० कां ० गु० डे० भा० । ९-त्सत्वासन्देह - भां० । १० - जनाच्छा-भां० मां० । ११ - नि भवन्ति मां० । १२- यत् शा-भां०] मां० । “प्रत्यवतिष्ठमानं परं शास्त्रपरिसमाप्तितः प्रयोजनमनुगमयिष्यन् शास्त्रं श्रावयति" इति सादर० पृ० प्र० पं० ७ १
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy