SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ १७४ प्रथमे काण्डे[विधिवादिमतं सविस्तरं दूषयताम् अपोहवादिनां मतस्य निर्देशः] अत्र यदि पारमार्थिकबाह्यविषयभूतेन निमित्तेन सन्नि(सनि)मित्तत्वमेषां साधयितुमिष्टं तदा अनैकान्तिकता हेतोः; साध्यविपर्यये बाधकप्रमाणाभावात् । अथ येन केनचिनिमित्तन सनिमित्तत्व मिष्यते तदा सिद्धसाध्यता। तथाहि-अस्माभिरपीष्यते एवैषामन्तर्जल्पवासनाप्रबोधो निमित्तं न ५तु विषयभूतम् , भ्रान्तत्वेन सर्वस्य श(शा)ब्द प्रत्ययस्य निर्विषयत्वात् । तदुक्तम् "येने येन हि नाम्ना वै यो यो धर्मोऽर्मिलप्यते । न स संविद्यते तत्र धर्माणां सा हि धर्माता" ॥ [ ] इति। न च शाब्दप्रत्ययस्य भ्रान्तत्वाऽविषयत्वयोः किं प्रमाणमिति वक्तव्यम्, भिन्नेष्वमेदाध्यवसायेन प्रवर्त्तमानस्य प्रत्ययस्य भ्रान्तत्वात् । तथाहि-यः 'अतस्मिंस्तत्' इति प्रत्ययः स भ्रान्तः, यथा मरीचि. १० कायां जलप्रत्ययः, तथा चायं भिन्नेष्वर्थेष्वमेदाध्यवसायी शाब्दः प्रत्यय इति स्वभावहेतुः । न च सामान्य वस्तुभूतं ग्राह्यमस्ति येनासिद्धताऽस्य हेतोः स्यात्, तस्य निषिद्धत्वात् । भवतु वा सामा. ग्यम् तथापि तस्य भेदेभ्योऽर्थान्तरत्वे भिन्नेष्वमेदाध्यवसायो भ्रान्तिरेव, न ह्यन्येनान्ये समाना युक्तास्तद्वन्तो नाम स्युः । अनर्थान्तरत्वेऽपि सामान्यस्य सर्वमेव विश्वमेकं वस्तु परमार्थत इति तत्र सामान्यप्रत्ययो भ्रान्तिरेव; न चैकवस्तुविषयः समानप्रत्ययः, मेदग्रहणपुरस्सरत्वात् तस्य । भ्रान्त १५त्वे च सिद्धे निर्विषयत्वमपि सिद्धम्, स्वाकारार्पणेन जनकस्य कस्यचिदर्थस्यालम्बनलक्षणस्य प्राप्तस्याभावात्। अन्यथा वा निर्विषयत्वम् । तथाहि-यत्रैव कृतसमया ध्वनयः स एव तेषामों युक्तो नान्यः, अतिप्रसङ्गात् न च क्वचिद् वस्तुन्येषां परमार्थतः समयः संभवतीति निर्विषया ध्वनयः । प्रयोगःये यत्र भावतः कृतसमया न भवन्ति न ते परमार्थतस्तमभिदधति, यथा सानादिमति पिण्डेऽश्व२० शब्दोऽकृतसमयः, न भवन्ति च भावतः कृतसमयाः सर्वस्मिन् वस्तुनि सर्वे ध्वनयः इति व्यापकानु. पलब्धिः कृतसमयत्वेनाभिधायकत्वस्य व्याप्तत्वात् तस्य चेहाभावः । [संकेतासंभवसाधनाय खलक्षणाद्यर्थभेदेन विकल्पपञ्चकविधानम्] न चायमसिद्धो हेतुः। तथाहि-गृहीतसमयं वस्तु शब्दार्थत्वेन व्यवस्थाप्यमानं स्वलक्षणं वा व्यवस्थाप्येत, जातिर्वा, तद्योगो वा, जातिमान् वा पदार्थः, बुद्धेर्वा आकार इति विकल्पाः। सर्वेष्वपि २५ समयासंभवान्न युक्तं शब्दार्थत्वं तत्त्वतः; सांवृतस्य तु शब्दार्थत्वस्य न निषेध इति न स्ववचनविरोधः प्रतिज्ञायाः। एवं ह्यसौ स्यात्-स्वलक्षणादीन् शब्देनाप्रतिपाद्य न शक्यमशब्दार्थत्वमेषां प्रतिपादयितुम्, तत्प्रतिपिपादयिषया च शब्देन स्वलक्षणादीनुपदर्शयता शैब्दार्थत्वमेषामभ्युपेयं स्यात् पुनश्च तदेव प्रतिज्ञया प्रतिषिद्धमिति खवचनव्याघातः; न चासावभ्युपगम्यत इति । एतेन यदुक्तमुद्योत. १ "उच्यते विषयोऽमीषां धी-ध्वनीनां न कश्चन । अन्तर्मात्रानिविष्टं तु बीजमेषां निबन्धनम्॥ तत्त्वसं० का० ८६९ पृ. २७५। २"तत्र यदि मुख्यतो बाह्येन विषयभूतेन सनिमित्तत्वमेषां साधयितुमिष्टं तदाऽनैकान्तिकता हेतोः" तत्त्वसं० पजि. पृ० २७५ पं० १९ । ३-न संनि-कां०। ४-भूतत्वम् भ्रा-भां• मां० विना। ५ “तत्रेदमुक्तं तायिना" इति निर्दिश्य श्लोकोऽयं समुद्धृतस्तत्त्वसंग्रहपत्रिकायाम् पृ० १२५० १२। ६-भिलप्यते आ० भां• मां. बा०। ७स स वि-आ. वि. का. । ८ “यस्य यस्य हि शब्दस्य यो यो विषय उच्यते । स स ( संविद्य ) ते नैव वस्तूनां सा हि धर्मता" ॥ तत्त्वसं० का० ८७० पृ०२७५। ९-त्ययभ्रान्त-भां० मां. वा. बा. विना। १० पृ. ११० पं०९। ११ “ नहि अनेन अन्ये समाना भवन्ति तद्वन्तो हि तथा स्युः" इति सामान्यपदार्थविचारप्रस्तावे न्यायकु० लि. पृ० १६१ प्र. पं० १०। १२ “सामान्यप्रत्ययः"-तत्त्वसं० पजिपृ. २७६ पं० १०। १३ सानामति आ० कां. गु० डे. भा. वा. बा। १४ “यतः खलक्षणं जातिस्तद्योगो जातिमांस्तथा। बुद्ध्याकारो न शब्दार्थे घटामश्चति तत्त्वतः"॥ तत्त्वसं० का० ८७१ पृ. २७६ । १५ “पदार्थबुद्धा आकारः"-तत्त्वसं. पजि. पृ. २७६ पं० २३। १६-ब्दार्थस्य डे. गु०। १७ "शब्दार्थत्वमेषामभ्युपेतं स्यातू"-तत्त्वसं.पजि.पू. २७६ पं० २७ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy