SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ मुक्तिस्वरूपवादः । र्भिन्नस्वरूपतया प्रतिभासमानयोरेकस्याऽपरत्राध्यारोपः, अतिप्रसङ्गात् । नाप्यगृहीतयोः स संभवति, अतिप्रसङ्गादेव । न च दृश्यबुद्धौ विकल्प्यं प्रतिभाति, नापि विकल्पयबुद्धौ दृश्यम् । न चैकबुद्धावप्रतिभासमानयो रूप-रसयोरिव परस्पराध्यारोपः, सादृश्यनिबन्धनश्चान्यत्राध्यारोपः उपलब्धो वस्त्ववस्तुनोश्च नील- खरविषाणयोरिव सारूप्याभावतो नाध्यारोप इति प्रतिपादितम् । न च दृश्याभ्यवसायिविकल्प्यबुद्ध्युत्पाद एव तदध्यारोपः, तद्बुद्धेः सदृशपरिणामसामान्यव्यवस्थापकत्वो- ५ पपत्तेरनन्तरमेव तस्या वस्तुस्वरूपग्राहिस विकल्पकाध्यक्षरूपत्वेन व्यवस्थापितत्वात् । तथा, अनुमा नेनापि परिच्छिद्यमानेऽर्थान्तरव्यावृत्तिरूपेऽनर्थरूपे सामान्ये बहिष्प्रवृत्त्ययोग एव । नातद्रूपव्यावृत्तिमात्रविषयमनुमानम्, अतद्रूपपरावृत्तवस्तुमात्रविषयत्वादिति चेत्, किं तद् वस्तुमात्रमन्यत्रं समानपरिणामात् ? अनुभूयते च सामान्यम् - अलिङ्गजत्वान्नानुमानेन - अविसंवादित्वात् प्रत्यक्षप्रमाणेन प्रमाणान्तरानभ्युपगमात् । तथाहि प्रत्यक्षेणैव ज्ञानेन शाखादिविभागमपरिच्छिन्दताऽपि दवीयसि १० देशे वृक्षादिमात्र तिपत्तिदर्शनम् तन्निराकरणे चानुभवविरोधः । न च सादृश्यम् समानपरिणामाभावे तदसंभवात् । ननु च यदि समानपरिणामः सामान्यम्, तस्य वस्तुनः सजातीयादपि परिणामाद् विभक्ततयाऽन्यत्रानन्वयात् क्वचिद् गृहीतसंबन्धेन शब्देन लिङ्गेन वाऽन्यस्य तज्जातीयस्य प्रतिपादनं न प्राप्नोति, नैष दोषः, विभक्तेऽपि वस्तुतस्तस्मिन्ननाश्रित देशादि भेदे समान परिणाममात्रे शब्दस्य लिङ्गस्य वा तावन्मात्रस्यैव संकेतितत्वात् संबन्धं गृहीतवतोऽन्यत्रापि तत्परिणाममात्रेण भेद- १५ प्रतिपत्तेरजन्यत्वात् तत्तया प्रतिपत्त्यविरोधान्न दोषः । प्रतिपादयिष्यते च नित्यानित्याद्यनेकान्तरूपं वस्त्वेकान्तवादप्रतिषेधेनेति नानेकान्तज्ञानं मिथ्याज्ञानम् । १६५ यदपि 'स्वदेशादिषु सत्त्वं परदेशादिष्वसत्त्वं वस्तुनोऽभ्युपगम्यत एव इतरेतराभावस्याभ्युपगमात्' इत्यादि, तदप्ययुक्तम्; इतरेतराभावस्य घटवस्त्वभेदे घटविनाशे पटोत्पत्तिप्रसङ्गात् पटाद्यभावस्य विनष्टत्वात् । अथ घटा भिन्नोऽभावस्तदा घटादीनां परस्परं भेदो न स्यात् । २० यदा हि घटाभावरूपः पटो न भवति तदा पटो घट एव स्यात्, यथा वा घटस्य घटाभावाद् भिन्नत्वाद् घटरूपता तथा पटादेरपि स्यात् घटाभावाद् भिन्नत्वादेव । नाप्येषां परस्पराभिन्नानामभावेन भेदः शक्यते कर्तुम्, तस्य मिन्नाऽभिन्न मेदकरणेऽकिञ्चित्करत्वात् । न चाभिन्नानामन्योन्याभावः संभवति । नापि परस्परभिन्नानामभावेन भेदः क्रियते, स्वहेतुभ्य एव भिन्नानामुत्पत्तेः । नापि भेदव्यवहारः क्रियते, यतो भावानामात्मीयरूपेणोत्पत्तिरेव स्वतो मेदः स च २५ प्रत्यक्षे प्रतिभासनादेव भेदव्यवहारहेतुः तेन "वस्त्वसंकरसिद्धिश्च तत्प्रामाण्यसमाश्रिता” [ ] इति निरस्तम् । किञ्च भावाभावयोर्भेदो नाभावनिबन्धनः, अनवस्थाप्रसङ्गात् । अथ स्वरूपेण भेदस्तदा भावानामपि स स्यादिति किमपरेणाभावेन भिन्नेन विकल्पितेन ? तन्नैकान्तभिन्नोऽभिन्नो वेतरेतराभावः संभवति । न चाभाव एवान्यापोहस्य, घटादेः सर्वात्मकत्वप्रसङ्गात् । तथा हि-यथा घटस्य स्वदेश- ३० कालाssकारादिना सत्वं तथा यदि परदेश- कालाऽऽकारादिनाऽपि तथा सति स्वदेशादित्ववत् परदेशादित्वप्रसक्तेः कथं न सर्वात्मकत्वम् ? अथ परदेशादित्ववत् स्वदेशादित्वमपि तस्य नास्ति तदा सर्वथाऽभावप्रसक्तिः । अथ यदेव स्वसत्वं तदेव परासवम् ; नन्वेवमपि यदि परासवे स्वसत्त्वानुप्रवेशस्तदा सर्वथाऽसस्त्रम् अथ स्वसत्वे परासत्त्वस्य तदा परासत्त्वाभावात् सर्वात्मकत्वम् - यथा हि स्वासत्वासत्त्वात् स्वसत्त्वं तस्य तथा परासवासत्त्वात् परसश्व प्रसक्तिर- ३५ निवारितप्रसरा, अविशेषात् । न च परासवं कल्पितरूपमिति न तन्निवृत्तिः परसत्त्वात्मिकेति वाच्यम्, स्वासत्त्वेऽप्येवंप्रसङ्गात् । अथ नाभावनिवृत्या पदार्थो भावरूपः प्रतिनियतो वा भवति, अपि तु स्वहेतुसामप्रीत उपजायमानः स्वस्वभावनियत एवोपजायते; तथैवार्थसामर्थ्य भाविनाऽध्यक्षेण विषयीक्रियमाणो व्यवहारपथमवतार्यते किमितरेतराभावकल्पनया ? न किश्चित्, केवलं स्वसामग्रीतः स्वस्वभावनि - ४० १- रूपाना-वा० । २- मानतोऽपि वि० । ३-त्र मां० । ५- णामभावा० । ६ - स्तुनस्त - मां०, भां० । ९-स्य पटाभावा०, बा० । १० यदा मां०, भां० । सामान्यपरि भां०, मां० । ४- प्रतिपत्तिर्दर्श७-मात्रेणा मे - वा० । 6 पृ० १५५ पं० २४ ॥
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy