SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डेयतोत्पत्तिरेव परासत्त्वात्मकत्वव्यतिरेकेण नोपपद्यते, स्वस्वरूपनियतप्रतिभासनं च पराभावामकत्वप्रतिभासनमेव । अत एव "स्वकीयरूपानुभावान्नान्यतोऽन्यनिराक्रिया" [ ] इथेतदपि सदसदात्मकवस्तुप्रतिभासमन्तरेणानुपपन्नमेव । यदा हि पारमार्थिकपररूपव्यावृत्तिमत् तत्स्वरूपमध्यक्षे प्रतिभाति तदा स्वरूपमेव परतस्तस्य भेदः, तद्ग्रहणमेव चाध्यक्षतस्तद्भेदग्रह ५णम्। अन्यथा पारमार्थिकपरासत्त्वाभावे स्वसत्त्ववत् परसत्त्वात्मकत्वप्रसङ्गान तत्स्वरूपमेव भेदः, नापि सत्प्रतिभासनमेव भेदप्रतिभासनं स्यात् । अत एवान्यापोहस्य पदार्थात्मकत्वेऽपरापराभावकल्पनया नानवस्था । नापि परग्रहणमन्तरेण तद्भेदग्रहणाभावादितरेतराश्रयत्वाद् भेदाग्रहणम् । ने चाऽभावस्य तुच्छतया सहकारिमिर नुपकार्यस्य ज्ञानाजनकत्वम् ; नापि भावाऽभावयोरनुपकार्योपकारकतयाऽसंबन्धः, भावाभावात्म१० कस्य पदार्थस्य स्वसामग्रीत उत्पन्नस्य प्रत्यक्षे तथैव प्रतिभासनात् । न चाऽसदाकारावभासस्य मिथ्यात्वम्, सदाकारावभासेऽपि तत्प्रसङ्गात् । न चाऽसदवभासस्याभावः, अन्यविधितावभासस्यानुभवसिद्धत्वात् विविक्तता चास्याऽभावरूपत्वात्, तस्याश्चं स्वसत्त्वात् कथश्चिदमिन्नतया तद्वद् ज्ञानजनकत्वेनाध्यक्षे प्रतिभासमानाया अन्यपरिहारेण तत्रैव प्रवृत्त्यादिव्यवहारहेतुत्वार भेदाऽभेदैकान्तपक्षस्योक्तदोषत्वात् कथञ्चिद्भेदाभेदपक्षस्य परिहृतविरोधत्वान्न सदसदूपत्वे १५ स्वदेशादावप्यनुपलब्धिप्रसङ्गादिदोषः। यञ्चोक्तम् ‘एवमात्मनोऽपि नित्यत्वमेव सुख-दुःखादेस्तहुणत्वेन ततोऽर्थान्तरस्य विनाशेऽप्यविनाशात्' इत्यादि, तत् प्राक् प्रतिक्षिप्तम् । यदपि 'कार्यान्तरेषु चाकर्तृत्वं न प्रतिषिध्यते' इत्यादि, तदप्यसारम् ; एकान्तपक्षे कार्यकर्तृत्वस्यैवासम्भवात् । यच्च 'न चानेकान्तभावनातो विशि टशरीरलाभे प्रतिबन्धः' इत्यादि, तन्न प्रतिसमाधानमर्हति अनभ्युपगतोपालम्भमात्रत्वात् । यो २० 'मुक्तावप्यनेकान्तो न व्यावर्तते' इति, तदिष्यते एव; स्वसत्त्वादिना मुक्तत्वेऽप्यन्यसत्त्वादिना अमुक्त त्वस्येष्टत्वात्; अन्यथा तस्य मुक्तत्वमेव न स्यात् इति प्रतिपादितत्वात् ।। यदपि 'अनेकान्त' इत्यादि, तदप्यसङ्गतम्। अनन्तधर्माध्यासितवस्तुस्वरूपमनेकान्तः। न च स्वरूपमपरधर्मान्तरापेक्षमभ्युपगम्यते येन तत्र रूपान्तरोपक्षेपेणानवस्था प्रेर्येत; तदपेक्षत्वे पदार्थस्वरूपव्यवस्थैवोत्सीदेत्, अपरापरधर्मापेक्षत्वेन प्रतिनियतापेक्षधर्मस्वरूपस्यैवाव्यवस्थितेः । २५ ततश्चैकान्तस्यापि कथं व्यवस्था ? तथाहि-सदादिरूपतैवैकान्तः तत्रैकान्ताभ्युपगमेऽपरं सदादिरूपं प्रसक्तम्, तत्राप्यपरमिति परेणापि वक्तुं शक्यम् । अथ पररूपानपेक्षं सत्त्वादित्वमेवैकान्तः तहनन्तधर्माध्यासितवस्तुस्वरूपमप्यनेकान्तः किं न स्यात् ? न चापरतद्रूपाभावे वस्तुनः स्वरूपमन्यथा भवति; अन्यथा अपरसत्वाद्यभावे सत्त्वादेरप्यन्यथात्वप्रसक्तिरित्यलं दुर्मतिविस्पन्दिते प्रत्तरप्रदानप्रयासेन । 'आत्मैकत्वज्ञानात्' इत्यादिन्थस्तु सिद्धसाध्यतया न समाधानमर्हति । ३० यथोक्तमुक्तिमार्गज्ञानादेरपरस्य तदुपायत्वेनाभ्युपगम्यमानस्य प्रमाणबाधितत्वेन मिथ्यारूपत्वान तत्साधकत्वमित्यलमतिप्रसङ्गेन । तत् स्थितमेतत् 'अनुपमसुखादिस्वभावामात्मनः कथञ्चिदव्यतिरिक्तां स्थितिमुपगतानाम्'इति॥ १-नुभवा-मां०, भां०। २-सनम-वा० । ३-रूपस्य व्या-वि० ४-दा स्वस्वरू-मां०, भां०। ५न चासाव-आ०, हा०। ६ ज्ञानज-मां०, भां०। ७-श्व सत्त्वा-आ०, वि०, हा०। ८झानाज-आ०, वि०, हा०। ९ पृ० १५५ पं० २६। १०पृ० १६. पं० २०। ११पृ० १५५ पं० २७। १२ पृ० १५५ पं. २९। १३ पृ० १५५५० ३१। १४ पृ० १५५ ५० ३२। १५ पृ. १५५५०३४ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy