SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ १६४ प्रथमे काण्डेधर्मिण्यभावः' इत्यनेकान्तपक्षस्य बाधकमुपन्यस्तं तद् अबाधकमेव, प्रतीयमाने वस्तुनि विरोधा सिद्धेः। न च येनैव रूपेण नित्यत्वविधिस्तेनैव प्रतिषेधविधिः-येनैकत्व(कत्र)विरोधः स्यात्किं तनुस्यूताकारतया नित्यत्वविधावृत्ताकारतया च तस्य प्रतिषेधः। न चान्यधर्मनिमित योर्विधि-प्रतिषेधयोरेकत्र विरोधः, अतिप्रसङ्गात् । न चानुगतव्यावृत्ताकारयोः सामान्यविशेषरूपत५याऽऽत्यन्तिको भेदः, पूर्वोत्तरकालभाविस्वपर्यायतादात्म्येन स्थितस्यानुगताकारस्य बाह्याऽऽध्यात्मिकस्यार्थस्याबाधितप्रत्यक्षप्रतिपत्तौ प्रतिभासनात् । यच्चेदम् 'घटादिर्मंदादिरूपतया नित्य इत्यत्र मृदूपतायास्ततोऽर्थान्तरत्वान्न ततो घटो नित्यः, मृदूपता हि मृत्त्वं सामान्यमर्थान्तरम् , तस्य नित्यत्वे न घटस्य तथाभावस्ततोऽन्यत्वात् घटस्य च कारणाद् विलयोपलब्धेरनित्यत्वमेव' इति, अयुक्तमेतत्; सामान्यस्य विशेषादर्थान्तरत्वानुप१०पत्तेः समानासमानपरिणामात्मको घटाद्यर्थोऽभ्युपगन्तव्यः । तथाहि-न तावत्र प्रयादर्थान्तर भूता मृत्त्वजातिः सत्ता वा, स्वाश्रयैः संबन्धाभावात्-स्वसंबन्धात् प्रागसद्भिरपि स्वाश्रयैः संबन्धे - तिप्रसङ्गात्; स्वत एव सद्भिः सत्तासंबन्धकल्पनावैयर्थ्यात् । समवायस्य सर्वगतत्वाद् व्यक्त्यन्तरपरिहारेण व्यक्त्यन्तरैरेव सर्वगतस्यापि सामान्यस्य संबन्धेऽतिप्रसङ्गपरिहारायाभ्युपगम्यमाना च प्रत्यासत्तिः प्रत्येकं परिसमाप्त्या व्यक्त्यात्मभूता वाभ्युपगम्यमाना कथं समानपरिणामातिरिक्तस्य १५ सामान्यस्य कल्पनां न निरस्येत् शुक्लादिवञ्च स्वाश्रये स्वानुरूपप्रत्ययादिहेतोः सामान्यात् सदादिप्रत्ययादिवृत्तिर्न भवेत् ? सामान्यस्य तु स्वत एव सदादिप्रत्ययादिविषयत्वे द्रव्यादिषु कः प्रद्वेषः ? परतश्चेदनवस्था । अनध्यारोपिततद्रूपे च तत्प्रत्ययादिवृत्तावतिप्रसङ्गः स्यात् । तद्रूपाध्यारोपेऽपि तत्प्रत्ययादिश्चान्यत्र भ्रान्त एव प्रसक्तः। ___ समवायमपि च तादूप्यमेव समवायिनोः पश्यामः; अन्यथा तस्याप्याश्रिततया संबन्धान्तर२० कल्पनाप्रसङ्गात् तत्र चानवस्थायाः प्रदर्शितत्वात् । विशेषणविशेष्यभावसंबन्धेऽप्यपरतत्कल्पनेऽनवस्था। समवायात् तत्संवन्धकल्पने इतरेतराश्रयत्वम्। अनाश्रितस्य तत्संवन्धत्वेऽप्यतिप्रसङ्गः। तस्य स्वतः संबन्धे वा सामान्यस्यापि तथाऽस्तु विशेषाभावात् । सति च वस्तुद्वये सन्निहिते 'इदं सदिदं च सत्' इति समुंश्चयात्मकः प्रत्ययोऽनुभूयते, न पुनः 'इदमेवेदम्' इति; संभवद्विवक्षितैकव्यक्त्याधेयरूपस्य च सामान्यस्याशेषाश्रयग्रहणासंभवान्न कदाचनापि तस्य संपूर्णस्य २५ ग्रहणं स्यात् । तद् व्यक्त्यनाधेयरूपासंभवे तद्गतरूपादिवत् तन्मात्रमेव स्यात् । स्वाश्रयसर्वगत सामान्यवादस्तु परिणामसामान्यवादान्न विशिष्यते, प्रत्याश्रयं परिसमाप्तत्वस्यान्यथानुपपत्त्या सामान्यसंबन्धशून्येष्वपि द्रव्यादिषु पदार्थादिप्रत्ययाद्यन्वयदर्शनाच्च । नाप्यन्यस्य व्यावृत्तिः, स्वलक्षणगतायाः प्रत्येकपरिसमाप्तायाः परिणामसामान्यादभिन्नत्वात् व्यावृत्तेः। तदाश्रयान्यानेकव्यक्तिसाधारणी बुद्धिपरिकल्पिताऽतजातीयव्यावृत्तिः सामान्यमिष्यते, ३० तस्मिंश्चावस्तुभूते शब्दप्रतिपादिते तथाविधे सामान्येऽस्खलक्षणविवक्षितेऽर्थक्रियार्थिनां स्वलक्षणे वृत्तिरपरिकल्पितरूपे कथं स्यात् ? । दृश्य-विकल्प ( ल्प्य ) योरेकीकरणेन प्रवृत्तौ गोबुद्ध्याऽप्यश्वे प्रवर्तेत । न च विकल्पितस्य सामान्यस्यावस्तुभूततया केनचिद दृश्येन सारूप्यमस्ति, सद्भावे वा सारूप्यस्य किं दृश्य-विकल्प्यैकीकरणवाचोयुक्त्या? तदेव दृश्यं सामान्यज्ञाने प्रतिभासते, तत्प्रति भासाच तत्रैव वृत्तिरिति किं न स्फुटमेवाभिधीयते अवस्त्वाकारस्य वस्तुना सारूप्यासंभवात् ? ३५ किञ्च, दृश्य-विकल्प्ययोरेकीकरणं दृश्ये विकल्प्यस्याध्यारोपः; स च गृहीतयोरगृहीतयोर्वा ? यदि गृहीतयोस्तदा दृश्य-विकल्प्ययो देन प्रतिपत्तेर्न दृश्ये विकल्प्याध्यारोपः; नहि घट-पटयो. १पर्यायाता-आ०, वि०, हा०, कां०, गु० । प्रमेयकमलमार्तण्डे-पर्यायतादा-इत्येव पाठो दृश्यते-पृ० ९३ द्वि०, पं०४ । २ पृ० १५५ पं० २२। ३-माप्ता व्य-कां०। ४ चाऽभ्यु-इति वि. प्रतौ संशोधितम्। ५-ध्यारोपितत्प्र-भां० ।-ध्यारोपपेति तत्प्र-वा०, बा०। ६ पृ. १५७ पं० १२ । ७-दं वा स-आ० । -दं चासकां०। ८-मुदया-वा०। ९-न्धश्वन्ये-वा०, बा०, भां०, मां०। १०-वक्षितेऽर्थे क्रि-भां०, मां० ।११-यार्थितां स्व-मां०, वा०, बा. विना। १२-क्षणे प्रवृत्तिः परि-इति वि. प्रतौ संशोधितम् । -क्षणे वृत्ति परि-आ०, हा० ।-क्षणे वृत्तिः परि-डे०, वि०। १३-कल्पैकी-वि०। १४-कल्पयो-भां०, मां।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy