SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ मुक्तिस्वरूपवादः । १६३ यथोक्तम् 'यदि योगजो धर्म आत्ममनः संयोगस्यापेक्षाकारणम्' इत्यादि, तदपि निरस्तम् ; सर्वस्यास्मान् प्रत्यन्नभ्युपगतोपालम्भमात्रत्वात् । यच्च 'मुमुक्षुप्रवृत्तिरिष्टाधिगमार्था, प्रेक्षापूर्वकारिप्रवृत्तित्वात्' इत्यनुमाने 'चिकित्साशास्त्रार्थानुष्ठायिनामातुराणामनिष्टप्रतिषेधार्था प्रवृत्तिर्दश्यते' इत्यनैकान्तिकोद्भावनं तत्रानिष्टनिषेधेनाऽऽरोग्यसुखप्राप्तिलक्षणेष्टाधिगमार्थित्वेन तेषां तत्र प्रवृत्तेदर्शनान्नानैकान्तिकत्वम् । न चास्माकमयं पक्षः - मोक्षसुखरागेण मुमुक्षवो वीतरागाः सन्तः ५ प्रवर्तन्ते, "मोक्षे भवे च सर्वत्र निःस्पृहो मुनिसत्तमः" [ ] इत्यभ्युपगमात् । यच्च 'विज्ञानमानन्दं ब्रह्म इत्याद्यागमस्य गौणार्थप्रतिपादनपरत्वम्' अभ्यधायि, तदत्यन्तमसङ्गतम् ; मुख्यार्थबाधकसद्भावे तदर्थकल्पनोपपत्तेः । न च तत्र किञ्चिद् बाधकमस्तीति प्रतिपादितम् । यचे 'किंच, इष्टार्थाधिगमायां च' इत्याद्युक्तं तदपि सिद्धसाध्यतादोषान्निःसारतया चोपेक्षितम् । यपि 'नित्यसुखाभ्युपगमे च विकल्पद्वयम्' इत्याद्यभिहितं तदप्यनभ्युपगमादेव निरस्तम्; नित्यस्य १० सुखस्यान्यस्य वा पदार्थस्यानभ्युपगमात् । यथाभूतं च स्वसंविदितं सुखं मोक्षावस्थायामात्मनस्तद्रूपतया परिणामिनः कथञ्चिदभिन्नमभ्युपगम्यते तथाभूतं प्राक् प्रसाधितमिति । यच्च 'न रागादिमतो विज्ञानात् तद्रहितस्योत्पत्तिर्युक्ता' इत्यादि, तदप्यसारम्; रागादिरहितस्य सकलपदार्थविषयस्य ज्ञानोपादानस्य ज्ञानस्य सर्वज्ञसाधनप्रस्तावे प्रतिपादितत्वात् । । च 'विलक्षणादपि कारणाद् विलक्षणकार्योत्पत्तिदर्शनाद् वोधाद् बोधरूपतेति न प्रमाण- १५ मस्ति' इत्यादि, तदपि प्रतिविहितम् अचेतनाश्चेतनोत्पत्त्यभ्युपगमे चार्वाकमतप्रसक्तेः परलोकाभावप्रसक्त्या । परलोकसद्भावश्च प्राक् प्रसाधितैः । येच्च 'ज्ञानस्य ज्ञानान्तरहेतुत्वे न पूर्वकालभावित्वं समानजातीयत्वम् एकसन्तानत्वं वा हेतुर्व्यभिचारात्' इत्यादि, तदपि प्रतिविहितमेव " तस्माद् यस्यैव संस्कारं नियमेनानुवर्तते" इत्यादिना । तेन 'मरणशरीरज्ञानस्य गर्भशरीरज्ञानहेतुत्वे सन्तानान्तरेऽपि ज्ञानजनकत्वप्रसङ्गः नियमहेतोरभावात्' इत्येतदपि स्वप्नायितमिव २० लक्ष्यते, नियम हेतोस्तत्संस्कारानुवर्तनस्य प्रदर्शितत्वात् । 'सुप्तावस्थायां विज्ञानसद्भावे जाग्रदवस्थातो न विशेषः स्यात्' इत्यादि, तदपि प्रतिविहितम् 'यस्य यावती मात्रा' इत्यादिना । तथाहि - मिद्धादिसाम्त्रीविशेषाद् विशिष्टं सुषुप्ताद्यवस्थायां गच्छत्तृणस्पर्शज्ञानतुल्यं बाह्याध्यात्मिकपदार्थानेकधर्मग्रहणविमुखं ज्ञानमस्ति; अन्यथा जाग्रत्-प्रबुद्धज्ञानप्रवाहयोरप्यभावप्रसक्तिरिति प्रतिपादितत्वात् परिणतिसमर्थनेन । यथा २५ च अश्वविकल्प काले प्रवाहेणोपजायमानमपि गोदर्शनं ज्ञानान्तरवेद्यमपि भवदभिप्रायेणानुपलक्षितमास्ते - अन्यथा अभ्वविकल्पप्रतिसंहारावस्थायाम् 'इयत्कालं यावत् मया गौर्दष्टो न चोपलक्षितः' इति ज्ञानानुत्पत्तिप्रसक्तेः प्रसिद्धव्यवहारोच्छेदः स्यात् - तथा सुषुप्तावस्थायां स्वसंविदितज्ञानवादिनोऽप्यनुपलक्षितं ज्ञानं भविष्यतीति न तदवस्थायां विज्ञानासत्त्वात् तत्सन्तत्युच्छेदः । न च युगपज्ज्ञानानुत्पत्तेरश्वविकल्पकाले ज्ञानान्तरवेद्यगोदर्शनासंभवः, सविकल्पाविकल्पयोर्ज्ञानयो- ३० युगपट्टत्तेरनुभवात् अन्यथा प्रतिनिवृत्ताश्वविकल्पस्य तावत्कालं यावद् गोदर्शनस्मरणायवसायो न स्यात् । क्रमभावेऽपि च तयोर्विज्ञानयोर्विज्ञानं ज्ञानान्तर विदितमप्यनुपलक्षितमवश्यं तस्यामवस्थायां परेणाभ्युपगमनीयम्, तदभ्युपगमे च यदि स्वापावस्थायां स्वसंविदितं यथोक्तं ज्ञानमभ्युपगम्यते तदा न कश्चिद्विरोधः । शेषस्तु पूर्वपक्षग्रन्थोऽनभ्युपगमान्निरस्तः । यपि 'अनेकान्तभावनातः इत्याद्यभ्युपगमे तज्ज्ञानस्य निःश्रेयसकारणत्वं प्रतिषिद्धम्, ३५ अनेकान्तज्ञानस्य बाधक सद्भावेन मिथ्यात्वोपपत्तेः' इत्यभिहितम्, तदद्भ्यसम्यक् अनेकान्तज्ञानस्यैवाsurfacत्वेन सम्यत्वेन प्रतिपादितत्वात् । यैच्च 'नित्यानित्ययो (-वयो ) विधि प्रतिषेधरूपत्वादमिन्ने १ पृ० १५२ पं० ३ । ४ पृ० १५२ पं० २८ । २ पृ० १५२ पं० ९ । ३ पृ० १५२ पं० १४ । ५ पृ० १५२ पं० ३३ । ६ पृ० १५३ पं० ३२ । ९ पृ० ६१ ७ पृ० १५९ पं० १८ । ८ पृ० १५४ पं० २४ । पं० १४ । १० पृ० १५४ पं० २६ । ११ पृ०७४ पं० १८ । १२ पृ० १५४ पं० २७ । १३० ७७ पं० ३२ । १४ पृ० १५४ पं० ३२ । १५ पृ० ७७ पं० ३२ । १६ पृ० १५४ पं० ३८ । १७ पृ० ९० पं० २७ । योर्विज्ञानं आ०, वि०, हा० । १९ पृ० १५५ पं० १२- पृ० १५५ पं० १९ । २० पृ० १५९ पं० २७ । १५५ पं० २० । १८ त २१ पृ०
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy