SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डे - च्छन्द-बुद्धि- प्रदीपादीनामपि सत्त्रे नात्यन्तिको व्युच्छेदोऽभ्युपगन्तव्यः - अन्यथा विवक्षितक्षणेऽपि सत्त्वाभावः - इति सर्वत्रात्यन्तानुच्छेदवत्येव सन्तानत्वलक्षणो हेतुर्वर्त्तत इति कथं न विरुद्धः ? १५८ विपरीतार्थोपस्थापकस्यानुमानान्तरस्य सद्भावादनुमानबाधितः पक्षः, हेतोर्वा कालात्ययाप दिष्टत्वम् । यथा चानुमानस्य पक्षबाधकत्वम् अनुमानबाधितपक्षनिर्देशानन्तरं प्रयुक्तत्वेन हेतोर्वा ५ कालात्ययापदिष्टत्वं तथाऽसकृत् प्रतिपादितमिति न पुनरुच्यते । अथ किं तदनुमानं प्रकृतप्रतिज्ञाया बाधकं येनात्रायमुक्तदोषः स्यात् ? उच्यते, पूर्वापरस्वभाव परिहारावाप्तिलक्षणपरिणामवान् शब्द-बुद्धि- प्रदीपादिकोऽर्थः सत्त्वात् कृतकत्वाद्वा, यावान् कश्चित् भावस्वभावः स सर्वः तादृशभावस्वभाव विवर्तमन्तरेण न सम्भवतितथाहि - न तावत् क्षणिकस्य निरन्वयविनाशिनः सत्त्वसम्भवोऽस्ति, स्वाकारानुकारि ज्ञान१० मन्यद्वा कार्यान्तरमप्राप्याऽऽत्मानम् संहरतः सकलशक्तिविरहितस्य व्योमकुसुमादेरिव सत्तानुपपत्तेः । तादृशस्य नहि कार्यकालप्राप्तिः, क्षणभङ्गभङ्गप्रसक्तेः । नापि फलस मयमात्मानमप्रापयतस्तजननसामर्थ्य चिरतरविनष्टस्येव सम्भवति । न च समनन्तरभाविनः कार्यस्योत्पादने कारणं स्वसत्ताकाल एव सामर्थ्यमाप्नोति, कार्यकाले तस्य स्वभाव (वा) विशेषात् ततः प्रागपि कार्योत्पत्तिप्रसङ्गात् । तस्मिन् सत्यभवन्नसति स्वयमेव भवन् अयं भावः तत्कार्यव्यपदेशमपि न लभते; १५ न हि समर्थ कारणे प्रादुर्भावमप्राप्नुवत् कार्यमितरद्वा कारणम् अतिप्रसङ्गात् । न च समनन्तरभावविशेषैमात्रेण तत्कार्यत्वं युक्तम्, समनन्तरप्रभवत्व स्यैवासम्भवात् - इतरेतराश्रयप्रसक्तेः - इति प्रतिपादितत्वात् । उपचरितं चैवं तस्य कार्यत्वमितरस्य च कारणत्वं स्यात् अक्षणिकवत् । तत्कारणभावे सत्यभवन्तं प्रति पुनः कारणस्य भावाभावयोर्न कश्चिद्विशेषः ततोऽक्षणिकादिव क्षणिकादपि २० सत्त्वादिर्वस्तुस्वभावो व्यावर्त्तत एव । न ह्यक्षणिके एव क्रम-यौगपद्याभ्यामर्थक्रियाविरोधः किं तर्हि क्षणभङ्गेऽपि । तथाहि न तावत् कार्य-कारणयोः क्रमः सम्भवति, कालभेदात् जन्यजनकभावविरोधातू, चिरतरोपरतोत्पन्नपितापुत्रवत् । न हि तादृशस्यापेक्षापि सम्भवति, अनाधेयाऽप्रहेयातिशयत्वात्, अक्षणिकवत् न हि किञ्चिदतिशयं ततो नासादयत् भावान्तरमपेक्षते यतः क्रमः स्यात्, जन्य- जनकयो राधेय विशेषत्वेऽपि न क्रमसम्भवः, क्रमिणोः कालभेदात् तत्त्वानुपपत्तेः । यौगपद्यं तु २५ तयोर्हेतुफलभावतयैवासम्भवि, समानकालयोर्हि न हेतुफलभावः सव्येतरगोविषाणवदपेक्षानुपपत्तेः । अत एव कृतकत्वादयोऽपि हेतवो वस्तुस्वभावाः परिणामानभ्युपगमवादिनां न सम्भवन्ति । तथाहि अपेक्षित परव्यापारो हि भावः स्वभावनिष्पत्तौ कृतक उच्यते, सा च परापेक्षा एकान्त नित्यवदेकान्ताऽनित्येऽप्यसम्भविनी; तदपेक्षाकारणकृतस्वभावविशेषेण विवक्षितवस्तुनः सम्बन्धोऽपि नोपपद्येत, स्वभावभेदप्रसक्तेः । अभेदे वाऽपेक्ष्यमाणादपेक्षकस्य सर्वथाऽऽत्मनिष्पत्तिप्रसङ्गात् । अतः ३० स्वभावभिन्नयोः प्रत्यस्तमितोपकार्योपकारकस्वभावयोर्भावयोः सम्बन्धानुपपत्तेः 'अस्येदम्' इति व्यपदेशस्यानुपपत्तिः । यदि पुनरपेक्षमाणस्य तदपेक्ष्यमाणेन व्यतिरिक्तमुपकारान्तरं क्रियेत, तत्सम्बन्धव्यपदेशार्थं तत्राप्युपकारान्तरं कल्पनीयमित्यनवस्था सकलव्योमतलावलम्बिनी प्रसज्येत । तस्मान्नित्याऽनित्यपक्षयोरर्थक्रियालक्षणं सत्वम् कृतकत्वं वा न सम्भवतीति यत् किञ्चित् सत् कृतकं वा तत्सर्व परिणामि, इतरथाऽकिञ्चित्करस्यावस्तुत्वप्रसङ्गान्नभस्तलार विन्दिनी कुसुमवत्३५ सन् कृतको वा शब्द-बुद्धि-प्रदीपादिरिति सिद्धः परिणामी । सत्त्वं चार्थक्रियाकारित्वमेव, अन्यस्य निषिद्धत्वात् तच्चात्यन्तोच्छेदवत्सु न सम्भवत्येव ततो व्यावर्त्तमानो हेतुः अनत्यन्तोच्छेदवत्स्वेव संभवतीति कथं न प्रकृतहेतुपक्षबाधकत्वमाशङ्कनीयं प्रकृतसाध्यसाधकस्य हेतोरनेकदोषदुष्टत्वप्रतिपादनात् ? न चासत्प्रतिपक्षत्वमप्यस्य । तथाहि - 'बुद्ध्या दिसन्तानो नात्यन्तोच्छेदवान्, सर्वप्रमाणानु४० पलभ्यमानतथोच्छेदत्वात्, यो हि सर्वप्रमाणानुपलभ्यमानतथोच्छेदो न स तत्वेनोपेयः, यथा १ - न्तिको वि-मां०, मां० । २ - वश्चाभावः वा०, बा० । ३ - वविवर्त्त - आ० । ४ - भावाभाववि-आ०, कां०। - भावाभावावि-वा०, बा०, मां०, भां० । ५ षमन्तरेण त भां०, मां० । ६ पृ० १३८ २३ । ७ हि कञ्चि वा०, बा० । ८-यन् भा-भां०, मां० । ९-पद्यते भां०, मां० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy