SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ मुक्तिस्वरूपवादः। १५९ पार्थिवपरमाणुपाकजरूपादिसन्तानः, तथाच बुझ्यादिसन्तानः, तस्मान्नात्यन्तोच्छेदवान्' इति कथं न सत्प्रतिपक्षत्वं 'सन्तानत्वात्' इत्यनुमानस्य ? न च प्रस्तुतानुमानत एव सन्तानोच्छेदस्य प्रतीतो सर्वप्रमाणानुपलभ्यमानतथोच्छेदत्वमसिद्धम्, सन्तानत्वसाधनस्य सत्प्रतिपक्षत्वात् । न चास्य प्रतिपक्षसाधनस्य प्रमाणत्वे सिद्धे सन्तानत्वसाधनस्य सत्प्रतिपक्षत्वम् अस्य च सत्प्रतिपक्षत्वे विक्षितानुपलब्धेः प्रतिपक्षसाधनस्य प्रमाणत्वमिति वाच्यम्, भवदभिप्रायेण सत्प्र-५ तिपक्षत्वदोषस्योद्भावनात्, परमार्थतस्तु यथाऽयं दोषो न भवति तथा प्रतिपादितम् प्रतिपादयिष्यते च । सन्तानत्वहेतोस्त्वसिद्धाऽनैकान्तिक-विरुद्धत्वान्यतमदोषदुष्टत्वेनासाधनत्वम्, तच प्रतिपादितमित्यलमतिप्रसङ्गेन, दिङ्मात्रप्रदर्शनपरत्वात् प्रयासस्य । यञ्च निर्हेतुकविनाशप्रतिषेधात् सन्तानोच्छेदे हेतुर्वाच्यः' इत्यादि, तदसङ्गतम् । सम्यग्ज्ञानाद् विपर्ययज्ञानव्यावृत्तिक्रमेण धर्माऽधर्मयोस्तत्कार्यस्य च शरीरादेरभावेऽपि सकल-१० पदार्थविषयसम्यग्ज्ञानानन्तानिन्द्रियजप्रशमसुखादिसन्तानस्य निवृत्त्यसिद्धेः । न च शरीरादिनिमित्तकारणमात्ममनःसंयोगं चासमवायिकारणमन्तरेण न ज्ञानोत्पत्तिः, परलोकसाधनप्रस्तावे "तैस्माद्यस्यैव संस्कारं नियमेनानुवर्तते। तन्नान्तरीयकं चित्तमतश्चित्तसमाश्रयम्" ॥ [ ] इति न्यायेन ज्ञानस्य ज्ञानोपादानत्वप्रतिपादनात्; अन्यथा परलोकाभावप्रसङ्गात्; नित्यस्यात्मन १५ समवायिकारणत्वेन ज्ञानादिकं प्रेति निषिद्धत्वात् आत्ममनःसंयोगस्य वाऽसमवायिकारणस्य प्रतिषेत्स्यमानत्वात् निषिद्धत्वाच्च संयोगस्य निमित्तकारणस्य वा; प्रतिनियतत्वेन शरीराद्यभावेऽपि देश-कालादेरात्मनो ज्ञानादिस्वभावस्योत्तरज्ञानाद्यवस्थारूपतया परिणमतः सहकारित्वसम्भवात् । ईश्वरज्ञानं च शरीरादिनिमित्तकारणविकलमप्यभ्युपगच्छति-तज्ज्ञानेऽपि नित्यत्वस्य प्रतिषिद्धत्वात्-न पुनर्मुक्त्यवस्थायामात्मनस्तत्स्वभावस्येति सुस्थितम् नैयायिकत्वं परस्य । २० __यत्तूक्तम् 'आरब्धकार्ययोर्धर्माधर्मयोरुपभोगात् प्रक्षयः संचितयोश्च तत्त्वज्ञानात्' इत्यादि, तदपि न सङ्गतम् ; उपभोगात् कर्मणः प्रक्षये तदुपभोगसमयेऽपरकर्मनिमित्तस्याभिलाषपूर्वकमनोवाक्-कायव्यापारस्वरूपस्य सम्भवादविकलकारणस्य च प्रचुरतरकर्मणः सद्भावात् कथमात्यन्तिकः कर्मक्षयः? सम्यग्ज्ञानस्य तु मिथ्याज्ञाननिवृत्त्यादिक्रमेण पापक्रियानिवृत्तिलक्षणचारित्रोपबृंहितस्याऽऽगामिकर्मानुत्पत्तिसामर्थ्यवत् सश्चितकर्मक्षयेऽपि सामर्थ्य संभाव्यत एव-यथोष्ण-२५ स्पर्शस्य भाविशीतस्पर्शानुत्पत्तौ समर्थस्य पूर्वप्रवृत्ततत्स्पर्शादिध्वंसेऽपि सामर्थ्यमुपलब्धम्-किन्तु परिणामिजीवाजीवादिवस्तुविषयमेव सम्यग्ज्ञानं न पुनरेकान्तनित्यानित्यात्मादिविषयम्; तस्य विपरीतार्थग्राहकत्वेन मिथ्यात्वोपपत्तेः। यथा चैकान्तवादिपरिकल्पित आत्माद्यों न संभवति तथा यथास्थानं निवेदयिष्यते । मिथ्याज्ञानस्य च मुक्तिहेतुत्वं परेणापि नेष्यत एव अतो यदुक्तम् "यथैधांसि" इत्यादि, तत् सर्वसंवररूपचारित्रोपबंहितसम्यग्ज्ञानाग्नेरशेषकर्मक्षये सामर्थ्यमभ्यु-३० पगम्यते, तत् सिद्धमेव साधितम् । __ यच्चोपभोगादशेषकर्मक्षयेऽनुमानमुपन्यस्तम्, तत्र यदेवाऽऽगामिकर्मप्रतिबन्धे समर्थ सम्यग्ज्ञानादि तदेव सञ्चितक्षयेऽपि परिकल्पयितुं युक्तमिति प्रतिपादितं सर्वज्ञसाधनप्रस्तावे । उपभोगात्तु प्रक्षये स्तोकमात्रस्य कर्मणः प्रचुरतरकर्मसंयोगसंचयोपपत्तेन तदशेषक्षयो युक्तिसङ्गतः। 'कर्मत्वात्' इति च हेतुः सन्तानत्ववदसिद्धाद्यनेकदोषदुष्टत्वान्न प्रकृतसाध्यसाधकः। असिद्धत्वादिदो-३५ षाद्भावन च सन्तानत्वहतुदूषणानुसारेण स्वयमेव वाच्य न पुनरुच्यत ग्रन्थगारवभयात् । येच्च 'समाधिबलादुत्पन्नतत्त्वज्ञानस्य' इत्यादि, तदप्ययुक्तम् अभिलाषरूपरागाद्यभावे १-वक्षितत्वा -वा०, बा०। २ पृ० १५६ पं० ३-पृ० १५७ पं० ३०। ३ पृ. १५० पं० १४ । ४ पृ० ७७ पं० ३२। ५ प्रतिषिद्धत्वा-वि. विना। ६ पृ० ११३ पं० ४२। ७ पृ० १२६ पं० २३ । अत्र स्थले प्रमेयकमलमार्तण्डे "नित्यत्वं चेश्वरज्ञानस्य ईश्वरनिराकरणे प्रतिषिद्धम् , शरीराद्यपायेऽप्यस्य ज्ञानायभ्युपगमेऽन्यात्मनोऽपि सोऽस्तु तत्स्वभावत्वात्"-पृ० ९१ प्र०, पं० १२। ८पृ० १५० पं० २०। ९ पृ० १५० पं० २२ । १०-त् सर्व संव-मां०। ११-मवगम्यते सिद्ध-वा०। १२ पृ० १५० पं० २६। १३-कर्मसामर्थ्यप्रति -वि०। १४-ग योप-वा०। १५ पृ० १५० पं० २८॥ ४ पृ० ७७.५० २ "नित्यत्वं चेश्वरज्ञानस्य श्वापृ० १५० पं० २० । सामर्थ्यप्रति
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy