SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ मुक्तिस्वरूपवादः । अथ समवायबुद्ध्या समवायः प्रतीयत इत्यभ्युपगमः, सोप्यनुपपन्नः समवायबुद्धेरनुपपत्तेः; न हि 'एते तन्तवः, अयं पटः, अयं समवायः' इति परस्परविविक्तं त्रितयं बहिर्ग्राह्याकारतया कस्यचित् प्रतीतावुद्भाति तथानुभवाभावात् । 1 अथानुमानेन प्रतीयते, अयुक्तमेतत्; प्रत्यक्षाभावे तत्पूर्वकस्यानुमानस्याप्यवृत्तेः । सामान्यतोदृष्टमपि नात्र वस्तुनि प्रवर्त्तते, तत्प्रभवकार्यानुपलब्धेः । न च इहबुद्धिरेव समवायज्ञापिका - ५ 'इह तन्तुषु पटः' इति प्रत्ययः सम्बन्धनिमित्तः, अबाधितेहप्रत्ययत्वात्, 'इह कुण्डे दधि' इति प्रत्ययवत् इति, विकल्पानुपपत्तेः । तथाहि किं निमित्तमात्रमनेन प्रतीयते, उत सम्बन्धः ? यदि निमित्तमात्रं तदा सिद्धसाध्यता । अथ सम्बन्धः, स संयोगः, समवायो वा ? संयोगप्रतिपत्तावभ्युपगमबाधा । समवायानुमाने सम्बन्धव्यतिरेकः । न चान्यस्य सम्बन्धे सत्यन्यस्य गमकत्वम्, अतिप्रसङ्गात् । नहि देवदत्तेन्द्रिय- घटसम्बन्धे यशदत्तेन्द्रियं रूपादिकमर्थ करणत्वात् प्रकाशयदू १० दृष्टम् । तन्न समवायः कस्यचित् प्रमाणस्य गोचरः । न च तस्य समवायिभ्यामसम्बद्धस्य सम्बन्धरूपता । न च तत्सम्बन्धनिमित्तोऽपरः समवायोऽभ्युपगम्यते; अभ्युपगमे वाऽनवस्थाप्रसङ्गः । विशेषणविशेष्यभावस्यापि तत्सम्बन्धनिमित्तस्य सम्बन्धाभ्युपगमेऽनवस्थादिकं दूषणं समानम् । न चासम्बन्धस्यापि तस्य सम्बन्धरूपत्वादपरपदार्थ सम्बन्धकत्वमिति वाच्यम्, विहितोत्तरत्वात् । न च समवायस्यान्यस्य वा एकान्त नित्यस्य कार्यजनकत्वं सम्भवति, नित्ये क्रम-यौगपद्याभ्यामर्थ - १५ क्रियाविरोधस्य प्रतिपादयिष्यमाणत्वात् । न च तदभावे पदार्थानां सत्त्वम्, सत्तासम्बन्धित्वेन तस्य निषिद्धेत्वानिषेत्स्यमानत्वाश्च । } तदेवं समवायस्याभावात् सन्तानत्वं बुद्ध्यादिसन्तानेषु न वृत्तिमत् सिद्धमिति सन्तानत्वलक्षणो हेतुः कथं नाऽसिद्धः ? १५७ अथोपादानोपादेयभूतबुद्ध्यादिलक्षणं प्रवाहरूपमेव सन्तानत्वं हेतुत्वेन विवक्षितम् ; नन्वेवं तस्य तथाभूतस्यान्यत्राननुवृत्तेरसाधारणानैकान्तिकत्वम् अभ्युपगमविरोधश्च । न हि परेण २० बुद्धिक्षणोपादानोऽपरः सर्व एव बुद्धिक्षणोऽभ्युपगम्यते एकसन्तानपतितः । तथाभ्युपगमे वा मुक्तावस्थायामपि पूर्वपूर्वबुद्ध्युपादानक्षणादुत्तरोत्तरोपादेयबुद्धिक्षणस्य संभवान्न बुद्धिसन्तानस्यात्यन्तोच्छेदः साध्यः सम्भवति, यथोक्त हेतु सद्भावबाधितत्वात् । अथ पूर्वापर समानजातीयक्षणप्रवाहमात्रं सन्तानत्वं तेनायमदोषः नन्वेवमपि हेतोरसा - धारणत्वं तदवस्थम् । नोकसन्तानरूपमन्यानुयायि, व्यक्तेर्व्यक्त्यन्तराननुगमात्; अनुगमे वा २५ सामान्यपक्षभावी पूर्वोक्तो दोषस्तदवस्थः; अनैकान्तिकश्च पाकजपरमाणुरूपादिभिः तथाविधसन्तानत्वस्य तत्र सद्भावेऽप्यत्यन्तोच्छेदाभावात् । अपि च, सन्तानत्वमपि भविष्यति अत्यन्तानुच्छेदश्चेति विपर्यये हेतोर्बाधकप्रमाणाभावेन सन्दिग्धविपक्षव्यावृत्तिकत्वादनैकान्तिकः । विपक्षेऽदर्शनं च हेतोर्बाधकं प्रमाणं प्रागेव प्रतिक्षिप्तम् । विरुद्धश्चायं हेतुः, शब्द-बुद्धि- प्रदीपादिष्वप्यत्यन्तानुच्छेदवत्स्वेव सन्तानत्वस्य भावात् । ३० न कान्तनित्येष्विवानित्येष्वप्यर्थक्रियाकारित्वलक्षणं सत्वं सम्भवतीति प्रतिपादयिष्यमाणत्वात् । न च प्रदीपादीनामुत्तरः परिणामो न प्रत्यक्षः इत्येतावता 'ते तथा न सन्ति' इति व्यवस्थापयितुं शक्यम्; अन्यथा परमाणूनामपि पारिमाण्डल्य गुणाधारतया प्रत्यक्षतोऽप्रतिपत्तेस्तद्रूपतयाऽसखप्रसङ्गः । अथ तेषां तद्रूपतयाऽनुमानात् प्रतिपत्तेर्नायं दोषः ननु सा अनुमानात् प्रतिपत्तिः प्रकृतेऽपि तुल्या । यथा हि स्थूलकार्यप्रतिपत्तिस्तदपरसूक्ष्मकारणमन्तरेणाऽसम्भविनी परमाणुस - ३५ तामवबोधयति तथा मध्यस्थितिदर्शनं पूर्वापरकोटि स्थितिमन्तरेणासम्भवि तां साधयतीति प्रतिपादयिष्यते । न च ध्वस्तस्यापि प्रदीपस्य विकारान्तरेण स्थित्यभ्युपगमे प्रत्यक्षबाधा, वारिस्थे तेजसि भास्वररूपाभ्युपगमेऽपि तद्वाधोपपत्तेः । अथोष्णस्पर्शस्य भास्वररूपाधिकरणतेजोद्रव्याभावेऽसम्भवादनुद्भूतस्य तत्र परिकल्पनमनुमानतस्तर्हि प्रदीपादेरप्यनुपादानोत्पत्तिवन्न सन्ततिचिपत्यभावमन्तरेण विपत्तिः सम्भवतीत्यनुमानतः किं न कल्प्यते तत्सन्तत्यनुच्छेदः अन्यथा ४० सन्तानचर मक्षणस्य क्षणान्तराजनकत्वेनासरखे पूर्वपूर्वक्षणानामपि तत्त्वान्न विवक्षितक्षणस्यापि सत्त्वमिति प्रदीपादेर्दृष्टान्तस्य बुद्ध्यादिसाध्यधर्मिणश्चाभाव इति नानुमानप्रवृत्तिः स्यात् ? तस्मा १ प्र० पृ० पं० ११ । २ पृ० ११० पं० ८ । ५-क्षबाधः आ०, मां० ॥ कां०, कां० । ३ मुक्त्यव-आ०, ४ पृ० १५६ पं० ६ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy