________________
१५६
प्रथमे काण्डे[ उत्तरपक्षः-मुक्तौ आत्यन्तिकविशेषगुणोच्छेदस्य निरसनम् ] अत्र प्रतिविधीयते-यत् तावदुक्तम् 'नवानामात्मविशेषगुणानां संतानोऽत्यन्तमुच्छिद्यते, सन्ता. नत्वात्' इति, अत्र बुद्ध्यादिविशेषगुणानां प्राक् प्रतिषिद्धत्वात् तत्सन्तानस्याभावादाश्रयासिद्धोहेतुः। तथा, बुद्ध्यादीनां विशेषगुणानां परेण स्वसंविदितत्वेनानभ्युपगमाद् शानान्तरग्राह्यत्वे वाऽन५वस्थादिदोषप्रसक्तेरवेद्यत्वमित्यज्ञातस्य सत्त्वासिद्धेः पुनरप्याश्रयासिद्धः 'सन्तानत्वात्' इति हेतुः।
किञ्च, सन्तानत्वं हेतुत्वेनोपादीयमानं यदि सामान्यमभिप्रेतं तदा बुझ्यादिविशेषगुणेषु प्रदीपे च तेजोद्रव्ये सत्तासामान्यव्यतिरेकेणापरसामान्यस्यासंभवात् स्वरूपासिद्धः। सत्तासामान्यरूपत्वे वा सन्तानत्वस्य 'सत् सत्' इति प्रत्ययहेतुत्वमेव स्यात्, न पुनः सन्तानप्रत्ययहेतुत्वम्।
अन्यथा द्रव्य-गुण-कर्मस्वरूपादेव 'सत् सत्' इति प्रत्ययसंभवात् सत्तापरिकल्पनावैयर्थ्यम् । १०अथ विशेषगुणाश्रिता जातिः सन्तानत्वं हेतुत्वेनोपन्यस्तम् तदा द्रव्यविशेष प्रदीपलक्षणे
साधर्म्यदृष्टान्ते तस्यासम्भवात् साधनविकलो दृष्टान्तः । न च सत्तादिलक्षणं सामान्यमेकं स्वाधारसर्वगतं वा प्रतिवादिनः प्रसिद्धमिति प्रतिवाद्यसिद्धो हेतुः। न च सन्तानत्वं सामान्य व्याल्या बुद्ध्यादिषु वृत्तिमत् सिद्धम्, तद्वत्तेः समवायस्य निषिद्धत्वात्। तत्सत्त्वेऽपि तद्बलात्
सन्तानत्वस्य बुद्ध्यादिसम्बन्धित्वे तस्य सर्वत्राविशेषादाकाशादिष्वपि नित्येषु सन्तानत्वस्य वृत्तेर१५ नैकान्तिकत्वम् । न च समवायस्याविशेषेऽपि समवार्यिनोविशेषात् सन्तानत्वं बुद्ध्यादिवेव वर्त्तते
नाकाशादिग्विति वक्तुं युक्तम्, इतरेतराश्रयप्रसक्तेः-सिद्धे हि सन्तानत्वस्याकाशादिव्यवच्छेदेन बुद्ध्यादिवृत्तित्वे विशेषत्वसिद्धिः, तत्सिद्धेश्चान्यपरिहारेण तद्वृत्तित्वसिद्धिरितीतरेतराश्रयत्वम् । अपि च, यदि समवायस्य सर्वत्राविशेषेऽपि बुद्ध्यादिविशेषगुण-सन्तानत्वयोः प्रतिनियताधाराधे यरूपता सिद्धिमासादयति तदा व्यर्थः समवायाभ्युपगमः, तद्यतिरेकेणापि तयोस्तद्रूपतासिद्धेः। २० {अथ प्रमाणपरिदृष्टत्वात् समवायस्याभ्युपगमः न पुनः समवायिविशेषरूपताऽन्यथाऽ
नुपपत्तेः, असदेतत् तद्राहकप्रमाणस्यैवाभावात् । तथाहि-स सर्वसमवाय्यनुगतैकस्वभावो वाऽभ्युपगम्येत, तव्यावृत्तस्वभावो वा? न तावत् तद्यावृत्तस्वभावः समवायः, सर्वतो व्यावतस्वभावस्यान्यासम्बन्धित्वेन नीलस्वरूपवत् समवायेत्वानुपपत्तेः । नापि तदनुगतैकस्वभावः, सामान्यवत् तत्समवायत्वायोगात्-नित्यस्य सतोऽनेकत्रवृत्तेः सामान्यस्य परेण समवायत्वान २५ भ्युपगमात् । न च समवायस्वरूपस्यापि ग्राहकत्वेन निर्विकल्पकं सविकल्पकं वाऽध्यक्षं प्रवर्त्तते किमुत तस्यानेकसमवाय्यनुगतैकतद्विशेषरूपस्य, तदग्रहणे तदनुगतैकरूपस्यापि अप्रतिभास नादिति सामान्यप्रतिषेधप्रस्तावे प्रतिपादितत्वात् । नापि तत्र प्रत्यक्षाप्रवृत्तौ तत्पूर्वकस्यानुमानस्यापि प्रवृत्तिः।
अथ सम्बन्धत्वेनासावध्यवसीयते, तदयुक्तम् । यतः किं 'सम्बन्धः' इति बुद्ध्याऽध्यवसीयते, ३० आहोखिद् ‘इह' इति बुद्ध्या, उत 'समवायः' इति प्रतीत्या ?
तद् यदि सम्बन्धबुद्ध्या तदा वक्तव्यम्-कोऽयं सम्बन्धः? किं सम्बन्धत्वजातियुक्तः, आहो. स्विदनेकोपादानजनितः, अनेकाश्रितो वा, सम्बन्धबुद्धिविषयो वा, सम्बन्धबुद्ध्युत्पादको वा? तद् यदि सम्बन्धत्वजातियुक्तः स न युक्तः, समवायासम्बन्धत्वप्रसङ्गात् । अथानेकोपादानजनितस्तदा घटादेरपि सम्बन्धत्वप्रसङ्गः। अथानेकाश्रितस्तदा घटजात्यादौ सम्बन्धत्वप्रसङ्गः। अथ ३५सम्बन्धबुढ्युत्पादकस्तदा लोचनादेरपि सम्बन्धत्वप्रसक्तिः। अथ सम्बन्धबुझ्यवसेयस्तदा घटादिप्वपि सम्बन्धशब्दव्युत्पादने सम्बन्धज्ञानविषयत्वे सम्बन्धत्वप्रसङ्गः, तथा, सम्बन्धेतरयोरेकज्ञानविषयत्वे इतरस्य सम्बन्धरूपताप्रसक्तिः। अथ सम्बन्धाकारः, सम्बन्धः, संयोगाभेदप्रसङ्गः अंत्रान्तराकारभेदश्च न भेदकः, तस्याऽप्रसिद्धेः ।
अथेहबुझ्याऽवसेयः समवायः, न; इहबुद्धरधिकरणाध्यवसायरूपत्वात् । न चान्यस्मिन्नाकारे ४० प्रतीयमानेऽन्याकारोऽर्थः कल्पयितुं युक्तः, अतिप्रसङ्गात् ।
१ पृ. १५० पं० ८। २ पृ. १३८ पं०१६। ३-ह्यत्वेनाऽनवस्था-वा०, बा०। ४-यिनो विशेआ०, कां० । ५-यस्यानु-मां०, भा०। ६-कतद्विशेषस्य रूपस्य गु० ।-कविशेषरूपस्य आ०, कां० ।-कविशेषस्य रूपस्य वि०। पृ० ११२ पं० २३ । ८-त्यादेः सं-भां०, मां०। ९ संयोगमे-भा०, मां० । १. अवान्तरा-आ०, को० । अथान्तरा-वि.। ११-यः, न; आ०, वि०, कां।