SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ मुक्तिस्वरूपवादः । मिद्धेनाभिभूतत्वं विशेष इति चेत्, असदेतत् तस्यापि तद्धर्मतया तादात्म्येनाभिभावकत्वायोगात् । व्यतिरेके तु रूपादिपदार्थानामेव सत्वात् तत्स्वरूपं निरूप्यम्, अभिभवश्च यदि विनाशः, न विज्ञानस्य सत्वम् विनाशस्य वा निर्हेतुकत्वम् । अथ तिरोभावः, न विज्ञानस्य सत्खेन 'तत्सत्तैव संवेदनम्' इत्यभ्युपगमे तस्यानुपपत्तेः । अतः सुषुप्तावस्थायां विज्ञानासत्त्वेनान्त्यज्ञानस्य सद्भा वादेकज्ञानसन्तानत्वं व्यभिचारीति । १५५ यच्चेदम् 'विशिष्टभावनावशाद् रागादिविनाशः' इति, असदेतत्; निर्हेतुकत्वात् विनाशैस्याभ्यासानुपपत्तेश्च । अभ्यासो ह्यवस्थिते ध्यातरि अतिशयाधायकत्वादुपपद्यते न क्षणिके ज्ञानमात्रे इति । अत एव न योगिनां सकलकल्पनाविकलं ज्ञानमुत्पद्यते । न च सन्तानापेक्षयाऽतिशयः, तस्यैवासम्भवाद् अविशिष्टाद् विशिष्टोत्पत्तेरयोगाच्च । तथाहि - पूर्वस्मादविशिष्टशदुत्तरोत्तरं सातिशयं कथमुपजायत इति चिन्त्यम् । यच्च 'संतानोच्छित्तिर्निःश्रेयसम्' इति, तत्र निर्हेतुकतया विनाश- १० स्योपायवैयर्थ्यम्, अयत्त सिद्धत्वादिति । 1 अन्ये तु "अनेकान्तभावनातो विशिष्टप्रदेशेऽक्षयशरीरादिलाभो निःश्रेयसम्” [ इति मन्यन्ते । तथा च नित्यभावनायां ग्रहः, अनित्यत्वे च द्वेष इत्युभयपरिहारार्थ मनेकान्तभावना इति, एवं सदादिष्वपि योज्यम् । प्रत्यक्षं च स्वदेश-काल-कारणाधारतया सत्त्वम् परदेशादिष्वसत्त्वमित्युभयरूपता । तथा घटादिर्मृदादिरूपतया नित्यः सर्वावस्थासुपलम्भात्, १५ घटादिरूपतया चानित्यस्तदपायात् एवमात्माप्यात्मादिरूपतया नित्यः सर्वदा सद्भावात्, सुखादिपर्यायरूपतया चानित्यस्तद्विनाशात् । एवं सर्वत्र स्वकार्येषु कर्तृत्वम् कार्यान्तरेषु चाकर्तृत्वमित्यूह्यम् स्वशब्दाभिधेयत्वम् शब्दान्तरानभिधेयत्वं चेति । तदेतदसाम्प्रतम्, मिथ्याज्ञानस्य निःश्रेयसकारणत्वेन प्रतिषेधात् । अनेकान्तज्ञानं च मिथ्यैव, बाधकोपपत्तेः । तथाहि - नित्यानित्यत्वयोर्विधिप्रतिषेधरूपत्वादभिन्ने धर्मिणि अभावः । एवं २० सदसत्त्वादेरपीति। यंश्चेदम् 'घटादिर्मृदादिरूपतया नित्यः' इति असदेतत्; मृद्रूपतायास्ततोऽर्थान्तरत्वात् । तथाहि घटादर्थान्तरं मृद्रूपता मृत्खं सामान्यम्, तस्य तु नित्यत्वे न घटस्य तथाभावस्ततोऽन्यत्वात् घटस्य तु कारणाद् विलयोपलब्धेरनित्यत्वमेव । यच्चेदम् ' स्वदेशादिषु सस्त्रं परदेशादिष्वसत्त्वम्' तदिष्यत एव इतरेतराभावस्याभ्युपगमात् । तथा हि-इतरस्मिन् देशादावितरस्य घटस्याभावो नानुत्पत्तिर्न प्रध्वंसः, तत्र तस्य सर्वदाऽसत्वात् । द्वैरूपये तु स्वदे- २५ शादिष्वप्यनुपलम्भप्रसङ्गः । एवमात्मनोऽपि नित्यत्वमेव, सुख-दुःखादेस्तद्गुणत्वेन ततोऽर्थान्तरस्य विनाशेऽप्यविनाशात् । 'कार्यान्तरेषु चाकर्तृत्वम्' न प्रतिषिध्यते । तथाहि यद् यस्यान्वयव्यतिरेकाभ्यामुत्पत्तौ व्याप्रियत इत्युपलब्धं तत् तस्य कारणं नान्यस्येत्यभ्युपगम्यत एव । एवं शब्दाभिधेयत्वेऽपि 'न सर्व सर्वशब्दाभिधेयम्' इत्यभ्युपगमात् । न चानेकान्तभावनातो विशिष्टशरीरादिलाभेऽस्ति प्रतिबन्धः । न चोत्पत्तिधर्मणां शरीरादीनामक्षयत्वं न्याय्यम् । तथा, मुक्ता- ३० वप्यनेकान्तो न व्यावर्त्तत इति मुक्तो न मुक्तश्चेति स्यात् । एवं च सति स एव मुक्तः संसारी चेति प्रसक्तम् । एवमनेकान्ते ऽप्यने कान्ताभ्युपगमो दूषणम्, वस्तुनः सदसद्रूपताऽनेकान्तः, तस्यानेकान्ताभ्युपगमे रूपान्तरमपि प्रसक्तम् । एवं नित्यानित्यरूपताव्यतिरिक्तं च रूपान्तरमित्यादि वाच्यम् । अन्ये तु "आत्मैकत्वज्ञानात् परमात्मनि लयः संपद्यते इति ब्रुवते । तथाहि - आत्मैव परमार्थसन्, ततोऽन्येषां भेदे प्रमाणाभावात्; प्रत्यक्षं हि पदार्थानां सद्भावग्राहकमेव न भेदस्य इत्यविद्या- ३९ समारोपित एवायं भेदः" [ ] इति मन्यन्ते, तदप्यसत्; आत्मैकत्वज्ञानस्य मिथ्यारूपतया निःश्रेयससाधकत्वानुपपत्तेः, मिध्यात्वं चात्माधिकार एव वक्ष्यामः । एवं शब्दाद्वै तज्ञानमपि मिथ्यारूपतया न निःश्रेयससाधनमिति द्रष्टव्यम् । यथा चैतेषां मिथ्यारूपता तथा प्रतिपादयिष्यामः । तन्नानुपम सुखावस्थान्तरप्राप्तिलक्षणात्मस्वरूपं मुक्तिः, तत्सद्भावे बाधकप्रमाणप्रदर्शनात्; विशेषगुणोच्छेद विशिष्टात्म स्वरूप मुक्ति सद्भावे च प्रदर्शितं प्रमाणमिति ॥ १ - न सद्भा - वि०, मां०, भां० । २-शयोगाभ्यासा - आ०, कां०।-शयोभ्यासा - वि० । पं० १५ । ४ प्र० पृ० पं० १४ । ५ प्र० पृ० पं० १७ । ३ प्र० पृ० ४०
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy