________________
प्रथमे काण्डे -
र्थान्तरत्वादावारकत्वं युक्तम्, अविद्यायास्तु तत्त्वान्यत्वेनानिर्वचनीयत्वेन तुच्छस्वभावत्वात् न स्वप्रकाशस्वभावे आनन्दे आवरणशक्तिः । तत् सर्वदा स्वप्रकाशानन्दानुभव प्राप्तिः धर्माऽधर्मजनिताभ्यां च सुख-दुःखाभ्यां सह युगपत् संवेदनं प्रसक्तम् न चैतद् दृश्यते तस्मान्न पूर्वो विकल्पः । नाप्युत्तरः, तत्प्रतिपादकस्य प्रत्यक्षादेर्निषिद्धत्वात् बाधकस्य च प्रदर्शितत्वात् । अतस्तत्प्र५ तिपादक आगमः प्रमाणविरुद्धार्थप्रतिपादकत्वाद्गौणत्वेन व्याख्यायते शास्त्रदृष्टविरुद्धान्यवाक्यवत् । एतच्चाभ्युपगम्योक्तम्, न तु सुखस्य बोधस्वभावताऽपि विद्यते तत्स्वभावतानिराकरणात् ।
यश्वोक्तम् 'सुखरागेण प्रवृत्तस्य मुमुक्षोर्यथा बन्धप्रसङ्गस्तथा द्वेषनिबन्धनायामपि प्रवृत्ताववश्यम्भावी बन्धः तदयुक्तम्ः मुमुक्षोद्वेषाभावात्ः स हि विषयाणां तत्त्वदर्शी तेष्वारोपितं सुखत्वं तत्साधनत्वं वा तत्त्वज्ञानाभ्यासादन्यथा प्रतिपद्यते । एवं च तस्याऽऽरोपिताकारमिथ्याज्ञानव्यावृ१० त्तावुत्तरोत्तरकार्याभावादपवर्ग उच्यते, न तु तस्य दुःखसाधने द्वेषः किन्त्वारोपिते सुखे तत्साधने वा तत्त्वज्ञानाभ्यासाद् रागाभावः न च स एव द्वेषः, तस्य रागाभावसव्यतिरेकेण प्रत्यक्षेण स्वरूपसंवित्तेः, अन्यथोपेक्षणीये वस्तुनि रागाभावे द्वेषः स्यात् न चैतद् दृष्टम्, तस्मान्न मुमुक्षोद्वेष निबन्धना प्रवृत्तिः ।
भवतु वा, तथापि न तस्य बन्धः, द्वेषो हि स बन्धहेतुर्य उत्पन्नः स्वविषये वागू - मनः- कायलक्षणां शास्त्रविरुद्धां पुरुषस्य प्रवृत्तिं कारयतिः तस्य शास्त्रविरुद्धार्थाचरणेऽधर्मोत्पत्तिद्वारेण शरीरादि१५ ग्रहणम् तन्निबन्धनं च दुःखम् । अयं तु मुमुक्षोर्विषयेषु द्वेषः सकलप्रवृत्तिप्रतिपन्थित्वाद्धर्माधर्मयोरनुत्पत्तौ शरीराद्यभावान्न केवलं नैं बन्धाय किन्तु स्वात्मघाताय कल्पते । तदिदमुक्तम् - "प्रहाणे नित्यसुखरागस्याप्रतिकूलत्वम् । नास्य नित्य सुखाभावः ( नित्यसुखभावः ) प्रतिकूल इत्यर्थः । यद्येवं मुक्तस्य नित्यं सुखं भवति अथापि न भवति, नास्योभयोः पक्षयोर्मोक्षाधिगमाभावः” [ वात्स्या० भा० अ० १, आ० १, सूत्र २२, पृष्ठ ४४ ]
२०
अनेन च भाष्यवाक्येन न मुक्तस्य नित्यसुखसंवित्तिरुपेयते तस्याः प्रमाणवाधितत्वात् किन्तु सर्वथा यदर्थं शास्त्रमारब्धं तस्योपपत्तिरनेन प्रतिपाद्यते, वाक्यस्वाभाव्यात् । तद्धि किञ्चिद्वस्त्वभि• धानवृत्त्या प्रतिपादयदपि तात्पर्यशक्तेरन्यत्र भावान्न श्रूयमाणार्थपरं परन्यायविद्भिः परिगृह्यते, विषभक्षणादिवाक्यवत् । तन्न परमानन्दप्राप्तिर्मोक्षः ।
१५४
नापि विशुद्धज्ञानोत्पत्तिः, रागादिमतो विज्ञानात् तद्रहितस्य तस्योत्पत्तेरयोगात् । तथाहि२५ यथा बोधाद् बोधरूपता ज्ञानान्तरे तद्वद् रींगादिरपि स्यात् तादात्म्यात्, विपर्यये तदभावप्रसङ्गात् । न च विलक्षणादपि कारणाद् विलक्षणकार्यस्योत्पत्तिदर्शनात् बोधाद् वोधरूपतेति प्रमाणमस्ति, अत एव ज्ञानस्य ज्ञानान्तेरहेतुत्वे न पूर्वकालभावित्वं समानजातीयत्वमेकसन्तानत्वं वा हेतुः, व्यभि - चारात् । तथाहि - पूर्वकालत्वं तत्समानक्षणैः समानजातीयत्वं च सन्तानान्तरज्ञानैर्व्यभिचारीति । पूर्वकालवे तत्समानजातीयत्वेऽपि न विवक्षितज्ञानहेतुत्वमिति । एकसन्तानत्वं चान्त्य
३० ज्ञानेन व्यभिचरतीति ।
अथ नेष्यत एवान्त्यज्ञानं सर्वदाऽऽरम्भात् । तथाहि मरणशरीरज्ञानमपि ज्ञानान्तर हेतु:, जाग्रदवस्थाज्ञानं च सुषुप्तावस्थाज्ञानस्येति । नन्वेवं मरणशरीरज्ञानस्यान्तराभवशरीरज्ञानहेतुत्वे गर्भशरीरज्ञानहेतुत्वे वा सन्तानान्तरेऽपि ज्ञानजनकत्वप्रसङ्गः, नियमहेतोरभावात् । अथेष्यत एवोपाध्यायज्ञानं शिष्यज्ञानस्य, अन्यस्य कस्मान्न भवतीति ? अथ कर्मवासना नियामिकेति चेत्, ३५नः तस्या विज्ञानव्यतिरेकेणासम्भवात् । तथाहि तादात्म्ये सति विज्ञानं बोधरूपतयाऽविशिष्टं बोधाश्च बोधरूपतेत्यविशेषेण विज्ञानं विदध्यात् ।
यच्चेदम् 'सुषुप्तावस्थाज्ञानस्य जाग्रदवस्थाज्ञानं कारणम्' इति, (अ) सदेतत्; सुषुप्तावस्थायां हि ज्ञानसद्भावे जाग्रदवस्थातो न विशेषः स्यात्; उभयत्रापि स्वसंवेद्यज्ञानस्य सद्भावाविशेषात् ।
१ पृ० १५१ पं० २५ । २ पृ० १५१ पं० २७ । ३ न सुख वा बा० । ४ पृ० १५२ पं० ३५ ॥ ५- भावस्य प्रत्यति-वा०, बा० । ६ न बाधाय वि० । ७ वात्स्यायनभाष्यानुरोधेन अर्थानुरोधेन चात्र 'नित्यसुखरागः' इत्येव सम्यक्, अथवा भावपदमेव रागपरं ज्ञेयम् । ८ प्रतिपादयिष्यदपि वि० । ९- णार्थपरं न्याय - वा०, बा० । १० रागादेरपि वि० । प्रमेय०मा० " रागादेरपि" इत्येव पाठः- पृ० ८९ द्वि०, पं० २ । १ अत्र स्थले प्रमेय • मा० " न च बोधादेव बोधरूपतेति प्रमाणमस्ति विलक्षणादपि कारणात् विलक्षणकार्यस्योत्पत्तिदर्शनात्” इति पाठ: - पृ० ८९ द्वि०, पं० ३ । १२ - न्तरे हे वा०, बा० । १३ प्र० पृ० पं० ३२ ।