________________
प्रथमे काण्डे -
१३८
यदि तेनैवानुमानेन, अन्योन्याश्रयदोषः - व्याप्तिसिद्धावनुमानम्, ततश्च व्याप्तिसिद्धिरिति । अनुमानान्तरेण तत्प्रतिपत्तावनवस्था । प्रमाणान्तरेण च तत्प्रतिपत्तौ वैशेषिकस्य द्वे प्रमाणे, नैयायिकस्य चत्वारि प्रमाणानि इति प्रमाणसंख्याव्याघातः । ततो मानसप्रत्यक्षेण व्याप्तिर्गृह्यत इत्यभ्युपगन्तव्यम्; तथा च प्रयत्नसमान गुणस्य समाकर्षकस्य, तत्समाकृष्यमाणस्य च पश्वादेस्तत्प्रत्यक्षत्वमित्यस्मदादि५ प्रत्यक्षत्वं धर्मादेरपि परैरभ्युपगन्तव्यम् । यदि पुनः 'बाह्येन्द्रियप्रभवास्मदादिप्रत्यक्षत्वे सति' इति हेतुर्विशिष्यते तदा साधनविकलता दृष्टान्तस्य सुखादेस्तथाऽप्रत्यक्षत्वात् । विभुद्रव्यं च यदि अत्राकाशमस्मदाद्यप्रत्यक्षं विवक्षितं तदा तद्वत् तद्गुणस्याप्यस्मदाद्यप्रत्यक्षत्वमिति 'अस्मदादिप्रत्यक्षत्वे सति' इति विशेषणा सिद्धिर्हेतोः, गुणिनोऽप्रत्यक्षत्वे तद्विशेषगुणस्याप्यप्रत्यक्षत्वेन प्रतिपादितत्वात् ।
किञ्च, सिद्धे हि शब्दे गुणे तदाधारसिद्धिः - गुणस्याधारमन्तरेणानवस्थानात् - तत्सिद्धौ च तदाधारस्य नित्यत्वे सत्यस्मदादिप्रत्यक्षशब्दगुणाधारत्वेन विभुद्रव्यत्वसिद्धिः, तत्सिद्धेश्च शब्दस्य क्षणिकत्वसिद्धिः क्रियावत्त्वप्रतिषेधेन द्रव्यत्वाभावं साधयेत्, ततश्च गुणत्वम्, ततो विभुद्रव्याश्रितत्वम्, ततोऽपि क्षणिकत्वम्, इति चक्रकमासज्येत । साधनशून्यश्च साधर्म्य दृष्टान्तः, बुद्धेरपि विभ्वात्म विशेषगुणत्वासिद्धेः । न च शब्ददृष्टान्तेन तत् साध्यते, तस्याद्याप्यसिद्धत्वात् १५ इतरेतराश्रयदोषप्रसङ्गतः । न च 'विभ्वात्म विशेषगुणो ज्ञानम्, तत्कार्यत्वात्, शब्दवत्' इत्यतोऽ नुमानात् तस्य तद्विशेषगुणत्वसिद्धिः, कार्यत्वस्यैश्व र निराकरणे परप्रसिद्धस्यासिद्धत्वेन प्रतिपादितत्वात् इतरेतराश्रयदोषस्य च तदवस्थत्वात् - सिद्धे हि शब्दस्य विभुद्रव्यविशेषगुणत्वे दृष्टान्तत्वम्, ततो ज्ञानस्य तत्सिद्धिः, ततश्च शब्दस्य तत् इति कथं नेतरेतराश्रयदोषः इति साधनविकलो दृष्टान्तः । तथा साध्यविकलश्च, बुद्धेः क्षणिकत्वासंभवात् तथात्वे वा तस्याः न ततः संस्कारः, २० तदभावाद् न स्मरणम्, तदभावाश्च न प्रत्यभिज्ञादिव्यवहारः । न हि विनष्टात् कारणात् कार्यम्, अन्यथा चिरतरविनष्टादपि ततस्तत्प्रसङ्गात् । अनन्तरस्य कारणत्वे सर्वमनन्तरं तत्कारणमासज्येत। अथैकार्थसमवायिज्ञानमनन्तरं तत्कारणम्, न; ज्ञानस्यात्मनो भेदे समवायस्य सर्वत्राविशेषात् प्रतिषिद्धत्वाच्च 'एकार्थसमवायि' इत्यसिद्धम् । विनष्टाच्च कारणात् कथमनन्तरं कार्यम् येनानन्तर्य कार्यकारणभावनिबन्धनत्वेन कल्प्येत ? न हि तत् कारणम् नापि तत् तस्य कार्यम्, २५ तदभाव एव भावात् । न हि यदभावेऽपि यद् भवति तत् तस्य कार्यमितरत् कारणमिति व्यवस्था, अतिप्रसङ्गात् । विनश्यदवस्थं कारणमिति चेत्, नः साऽपि विनश्यदवस्था यदि ततो भिन्ना तर्हि तया तदभिसंबन्धाभावादनुपकाराद् 'विनश्यदवस्थम्' इति कुतो व्यपदेशः अतिप्रसङ्गादेव ? उपकारे वा सोऽपि यदि ततो व्यतिरिक्तः, अतिप्रसङ्गोऽनवस्थाकारी । अव्यतिरेके विनश्यदवस्थैव तेन कृता स्यात् । तामपि यद्यविनश्यदवस्थमेव कारणमुत्पा३० दयेत् किं प्रकृतेऽपि विनश्यदवस्थाकल्पनेन ? विनश्यदवस्थं चेत् तां कुर्यात् अन्या तर्हि ततोऽर्थान्तरभूता विनश्यदवस्था कल्पनीया । तया तदभिसंबन्धाभावः, अनुपकारात् । उपकारे वा तदवस्थः प्रसङ्गः अनवस्था च । तथा चापरापरविनश्यदव स्थोत्पादनेनोपक्षीण. शक्तित्वात् प्रकृतकार्योत्पादनमनवसरं प्रसक्तम् । विनश्यदवस्थायास्तत्र समवायात् तद् विनइयवस्थमित्यपि वर्तम्, विहितोत्तरेत्वात् । अथाभिन्ना तर्हि विनश्यदवस्थाकारणैक समय३५ संगता, एवं च विनश्यदवेस्थं कारणं कार्य करोतीति कोऽर्थः ? स्वोत्पत्तिकाल एव करोतीत्यर्थः समायातः । तथा च कार्य-कारणयोः सव्येतरगोविषाणव देककालत्वाद् न कार्यकारणभावः । तथापि तद्भावे सकलकार्यप्रवाहस्यैकक्षणवर्तित्वम् ।
१०
अथ न सौगतस्येवाऽणोरण्वन्तरव्यतिक्रमलक्षणेन क्षणेन क्षणिकत्वम् - येनायं दोषः - किन्तु षट्समयस्थित्यनन्तरनाशित्वं तत्ः ननु कालान्तरस्थायिनि तथा व्यवहारं कुर्वन् सहस्रक्षण४० स्थायिन्यपि तत्र तं किं न कुर्यात् ? अपि च, पूर्वपूर्वक्षणसत्तात उत्तरोत्तरक्षणसत्ताया भेदाभ्युपगमे तदेव सौगतप्रसिद्धं क्षणिकत्वमायातम् । अभेदाभ्युपगमे पूर्वक्षणसत्तायामेवो
१ पृ० १३५ पं० १७ । २ पृ० १०५ पं० ३१ । ३ प्र० प्र० पं० २२ । ४- मवायसं - गु० । ५-वस्थका - भां० ।