SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ आत्मपरिमाणवादः। १३९ तरक्षणसत्तायाः प्रवेशादेकक्षणस्थायित्वमेव, न षट्क्षणस्थायित्वं बुद्धेः परपक्षे संभवति । भेदेतरपक्षाभ्युपगमे चानेकान्तसिद्धिः, षटूक्षणस्थानानन्तरं च निरन्वयविनाशे न ततः किञ्चित् कार्य संभवतीत्युक्तम् । न चैवं बुद्धिक्षणिकत्ववादिनः क्वचित् कालान्तरावस्थायित्वं सिध्यति, तद्रहणाभावात् । तथाहि-पूर्वकालबुद्धस्तदैव विनाशाद् नोत्तरकालेऽस्तित्वमिति ने तेन तया सांगत्यं कस्यचित् ५ प्रतीयते, अतिप्रसङ्गात् । उत्तरबुद्धेश्च पूर्वमसंभवाद् न पूर्वकालेन तत् तयाऽपि प्रतीयते । उभयत्रात्मनः सद्भावात् ततस्तत्प्रतीतिरित्यपि नोत्तरम्, आकाशसद्भावात् तत्प्रतीतिरित्यस्यापि भावात् । तस्याचेतनत्वाद् नेति चेत्, स्वयं चेतनत्वे आत्मनः स येन स्वभावेन पूर्व रूपं प्रतिपद्यते न तेनोत्तरम्। न हि नीलस्य ग्रहणमेव पीतग्रहणम्, तयोरभेदप्रसङ्गात्। अथान्येन स्वभावेन पूर्वमवगच्छति, अन्येनोत्तरमिति मतिस्तथा सत्यनेकान्तसिद्धिः। स्वयं चात्मनश्चेतनत्वे किमन्यया १० बुद्ध्या यस्याःक्षणिकत्वं साध्यते ? अथ स्वयं न चेतन आत्मा अपि तु बुद्धिसंबन्धाच्चेतयत इति, अत्राप्यचेतनस्वभावपरित्यागेऽनित्यता आत्मनोऽन्यबुद्धिकल्पनावैफल्यं च, स्वयमपि तत्संबन्धात् प्रागपि तथाविधस्वभावाविरोधात् । तत्संबन्धेऽपि तत्स्वभावापरित्यागे 'ज्ञानसंबन्धादात्मा चेतयते' इत्यपि विरुद्धमेव । अथ तत्समवायिकारणत्वात् चेतयते न स्वयं चेतनस्वभावोपादानादिति तर्हि येन स्वभावेन पूर्वज्ञानं प्रति समवायिकारणमात्मा तेनैव यद्युत्तरं १५ प्रति तथा सति पूर्वमेव तत्कार्य ज्ञानं सकलं भवेत; न ह्यविकले कारणे सति कार्यानत्पत्तिर्यता तस्याऽतत्कार्यत्वप्रसङ्गात् । अथ पूर्व सहकारिकारणाभावाद् न तत् कार्यम्, किं पुनः स्वयमसमर्थस्याकिञ्चित्करेण सहकारिणा? किश्चित्करत्वेऽपि यदि तत् ततो मिन्नं क्रियते प्रतिबन्धासिद्धिः अनवस्था वा। अभिन्नस्य करणेऽप्यात्मन एव करणमिति कार्यता। कथञ्चिदभिन्नस्य करणे तद्बुद्धिरपि ततः कथञ्चिदभिन्नेति नैकान्तेन तस्याः क्षणिकता । तदेवं पक्ष-हेतु-दृष्टान्तदोष-२० दुष्टत्वाद् नातोऽनुमानात् शब्दस्य क्षणिकत्वमिति सक्रियत्वं सिद्धम् , अतोऽपि द्रव्यत्वम् । गुणवत्त्वाच्च द्रव्यं शब्द:-'गुणवान् ध्वनिः, स्पर्शवत्त्वात्, यो यः स्पर्शवान् स स गुणवान् , यथा लोटादिः, तथा च ध्वनिः, तस्माद् गुणवान्' इति । स्पर्शवत्वाभावे कंसपाध्यादिध्वानाभिसंबन्धेन कर्णशष्कुल्याख्यस्य शरीरावयवस्याभिघातो न स्यात्, न ह्यस्पर्शवताऽऽकाशेनाभिसंबन्धात् तदभिघातो दृष्टः भवति च तच्छब्दाभिसम्बन्धे तदभिघातः, तत्कार्यस्य बाधिर्यस्य २५ प्रतीतेः। ननु स्पर्शवता शब्देन कर्णविवरं प्रविशता वायुनेव तद्वारलग्नतूलांऽशुकादेः प्रेरणं स्यात् , न; धूमेनानेकान्तात्-धूमो हि स्पर्शवान्, तदभिसम्बन्धे पांशुसम्बन्धवञ्चक्षुषोऽस्वास्थ्योपलब्धेः, न च तेन चक्षुष्प्रदेशं प्रविशता तत्पक्ष्ममात्रस्यापि प्रेरणमुपलभ्यते । न च स्पर्शवत्वे शब्दस्य वायोरिव प्रदेशान्तरेण ग्रहणप्रसङ्गः, धूमस्यापि चक्षुरादिप्रदेशव्यतिरिक्तशरीरप्रदेशेन ग्रहणप्रसक्तेः । धूमवचक्षुषा तस्य ग्रहणं स्यादिति चेत्, न; जलसंयुक्तेनानलेन व्यभिचारात्-३० तस्योष्णस्पर्शोपलम्भेऽपि चक्षुषा भास्वररूपानुपलम्भात् । अनुभूतत्वमुभयत्र समानम् । जलसहचरितेनाऽनलेनोष्णस्पर्शवता शरीरप्रदेशदाहवत् तथाविधेन शब्दसहचरितेन वायुना श्रवणाख्यशरीरावयवाभिघात इति चेत्, न; शब्देन तदभिघाते को दोषः येनेयमदृष्टपरिकल्पना समाधीयते? न च तस्य गुणत्वेन निर्गुणत्वात् स्पर्शाभावाद् न तदभिघातहेतुत्वमिति वक्तुं युक्तम्, चक्रकदोषप्रसङ्गात् । तथाहि-गुणत्वमद्रव्यत्वे, तदप्यस्पर्शत्वे, तदपि गुणत्वे, तदप्यद्रव्यत्वे, तदप्यस्पर्शत्वे, ३५ तदपि गुणत्व इति दुरुत्तरं चक्रकम् । शब्दाभिसम्बन्धान्वय-व्यतिरेकानुविधाने तदभिघातस्यान्यहेतुत्वकल्पनायां तत्रापि का समाश्वासः? शक्यं हि वक्तुम् न वाचभिसंबन्धात् तदभिघातः किन्त्वन्यतः, न ततोऽपि अपि त्वन्यत इत्यनवस्थाप्रसक्तिहेतूनाम् । तस्मात् सिद्धं स्पर्शवत्त्वाच्छब्दस्य गुणवत्वम्। अल्प-महत्त्वामिसंबन्धाच्च, स च 'अल्पः शब्दः महान् शब्दः' इति प्रतीतेः । न च शब्दे ४० मन्द-तीव्रताग्रहणम् इयत्तानवधारणात्-यथा द्रव्येषु 'अणुः शब्दोऽल्पो मन्दः' इत्येतस्य धर्मस्य मन्दत्वस्य ग्रहणम्, 'महान् शब्दः पटुस्तीवः' इत्येतस्य तीव्रत्वस्य धर्मस्य ग्रहणं न पुनः परिमाणस्य, १ न तस्य या सा-आ० । न तेन तस्य या सां-कां०, गु०। २ तत्संभवत्वेऽपि भां०, मां० । ३-न च त-गु०। ४-षु गुणः श-वा०, बा० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy