SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ आत्मपरिमाणवादः। खाप्रभवत्वानुमानमपि तामताग्राहि प्रत्यक्षबाध्यं न स्यात् । अथ पक्षे एव व्यभिचाराद् न साध्याविनाभूतहेतुप्रभवत्वमेकशाखाप्रभवत्वानुमानस्य, तत् शब्दक्षणिकत्वानुमानेऽपि समानम् । न च शब्दक्षणिकत्वप्रसाधकमनुमानं पराभ्युपगमे संभवति । यश्च 'क्षणिकः शब्दः, अस्मदादिप्रत्यक्षत्वे सति विभुद्रव्यविशेषगुणत्वात्, यो योऽस्मदादिप्रत्यक्षत्वे सति विभुद्रव्यविशेषगुणः स स क्षणिकः, यथा ज्ञानादिः, तथा च शब्दः, तस्मात् क्षणिकः' इत्यनुमानम्, तदेकशाखाप्रभव. ५ त्वानुमानवद् मानसप्रत्यक्षाभिमतप्रत्यभिज्ञानबाधितकर्मनिर्देशानन्तरप्रयुक्तत्वात् कालात्ययापदिष्टहेतुप्रभवत्वाद् न साध्यसिद्धिनिबन्धनम् । किञ्च, धर्मादेविभुद्रव्यविशेषगुणत्वेऽपि न क्षणिकत्वमिति हेतोर्व्यभिचारः । तस्यापि पक्षीकरणे सर्वत्र व्यभिचारविषये पक्षीकरणाद् न कश्चिद् हेतुर्व्यभिचारी स्यात् 'अस्मदादिप्रत्यक्षत्वे सति' इति च विशेषणमनर्थकम् , व्यवच्छेद्याभावात् । धर्मादेः क्षणिकत्वे च स्वोत्पत्तिसमयानन्तरमेव ध्वस्तत्वादु न ततो जन्मान्तरफलप्राप्तिः। शब्दात् शब्दोत्पत्तिवद्१० धर्मादेर्धर्माद्युत्पत्तावभ्युपगमबाधा 'परस्य अनुकूलेष्वनुकूलाभिमानजनितोऽभिलाषोऽभिलषितुराभिमुखक्रियाकारणमात्मविशेषगुणमाराध्नोति, अनुकूलेष्वनुकुलाभिमानजनिताभिलाषत्वात्, आत्मनोऽनुकूलाभिमानजनिताभिलाषवत्' इत्यस्य च विरोधः, यतो योऽसौ परस्यानुकूले. प्वनुकूलाभिमानजनिताभिलाषोत्पादित आत्मविशेषगुणो नासावभिलपितुराभिमुखक्रियाकारणम्, तत्समानतत्कारणत्वात् , यश्च तक्रियाकारणम् नासौ यथोक्ताभिलाषेणारब्ध इति ।१५ तथा, 'प्रवर्तक-निवर्तकाविच्छा-द्वेषनिमित्तौ धर्माऽधर्मो, अव्यवधानेन हिताहितविषयप्राप्ति-परिहारहेतोः कर्मणः कारणत्वे सत्यात्मविशेषगुणत्वात्, प्रवर्तक-निवर्तकप्रयत्नवत्' इत्यत्र हेतोय॑भिचारश्च, जन्मान्तरफलप्रदयोर्धर्माधर्मयोरव्यवधानेन हिताहितप्राप्ति-परिहारहेतोः कर्मणः कारणत्वे सत्यात्मविशेषगुणत्वेऽपीच्छा-द्वेषजनितत्वाभावात् । किञ्च, धर्मादिवद् अपरापरतकार्योत्पत्तिप्रसङ्गश्च । ततो न शब्दात् शब्दोत्पत्तिवदू धर्मादेर्धर्माद्युत्पत्तिः, तस्य क्षणिकत्वेन २० जन्मान्तरे ततः फलमित्यक्षणिकत्वं तस्याभ्युपगन्तव्यमतस्तेन व्यभिचारी हेतुः । अथास्मदादिप्रत्यक्षत्व विशेषणविशिष्टस्य विभुद्रव्यविशेषगुणत्वस्य धर्मादावसंभवाद् न व्यमिचारः, असदेतत्; विपक्षविरुद्धं हि विशेषणं ततो हेतुं निवर्तयति, यथाऽहेतुकत्वविरुद्धं ततः कादाचित्कत्वं निवर्तयति। न चास्मदादिप्रत्यक्षत्वमक्षणिकत्वविरुद्धम्, अक्षणिकेष्वपि सामान्यादिषु भावात्, ततो यथाऽस्मदादिप्रत्यक्षा अपि केचित् क्षणिकाः प्रदीपादयः, अपरेऽक्षणिकाः सामान्या-२५ दयस्तथाऽस्मदादिप्रत्यक्षा अपि विभूद्रव्यविशेषगुणाः केचित क्षणिकाः, अपरेऽक्षणिका भविष्यन्तीति संदिग्धविपक्षव्यावृत्तिकत्वादनैकान्तिको हेतुः । न चास्मदादिप्रत्यक्षत्वविशेषणविशिष्टस्य विभुद्रव्यविशेषगुणत्वस्याक्षणिकेऽदर्शनात् ततो व्यावृत्तिसिद्धिः, अदर्शनस्यात्मसंबन्धिनः परलोकादिनाऽनैकान्तिकत्वात, सर्वसंबन्धिनोऽसिद्धत्वात् । न च कृतकत्वादावप्ययं दोषः समानः, तत्र विपक्षे हेतोः सद्भावबाधकप्रमाणभावात् प्रकृतहेतोश्च तस्याभावात् । यदि पुनर्विपक्षे ३० हेतोरदर्शनमात्रादेव ततो व्यावृत्तिस्तथा सति __"वेदाध्ययनं सर्व तदध्ययनपूर्वकम् । __ वेदाध्ययनवाच्यत्वात् अधुनाऽध्ययनं यथा" [श्लो० वा०, अ०७ श्लो० ३६६ ] इत्यस्यापि विपक्षेऽदर्शनात् ततो व्यावृत्तिसिद्धिरित्यपौरुषेयत्वसिद्धेन तस्येश्वरप्रणीतत्वं स्यात् । धर्माधर्मादेश्चास्मदाद्यप्रत्यक्षत्वे 'देवदत्तं प्रत्युपसर्पन्तः पश्वादयो देवदत्तगुणाकृष्टाः, देवदत्तं ३५ प्रत्युपसर्पणवत्त्वात्, यद् यद् देवदत्तं प्रत्युपसर्पणवत् तत् तद् देवदत्तगुणाकृष्टम् , यथा ग्रासादिः, तथा च पश्वादयः, तस्माद् देवदत्तगुणाकृष्टाः' इत्यनुमानमसंगतं स्यात्, व्याप्तेरग्रहणात् । तथाप्यनुमाने यतः कुतश्चिद् यत् किश्चिदवगम्येत । ग्रासादेर्देवदत्तं प्रत्युपसर्पणस्य देवदत्तप्रयत्न गुणाकृष्टत्वेन व्याप्तिप्रदर्शनात् तस्यैव तत्पूर्वकत्वानुमानं स्यात्, तस्य च वैयर्थ्यम् । अथ पश्वादेरपि देवदत्तं प्रत्युपसर्पणस्य देवदत्तप्रयत्नसमानगुणाकृष्टत्वेन व्याप्तिः प्रतीयते तर्हि प्रयत्नसमानगुणस्य ४० पश्वादेर्देवदत्तं प्रत्युपसर्पणस्य वाऽप्रतिपत्तौ कथं तदाकृष्टत्वेन व्याप्तिसिद्धिः न हि प्रयत्नाप्रतिपत्तौ तदाकृष्टत्वेन प्रतिपन्नस्य ग्रासादेर्देवदत्तं प्रत्युपसर्पणस्य व्याप्तिप्रतिपत्तिः ? तत्प्रतिपत्त्यभ्युपगमश्च १-क्तत्व(त्वेन)का-वा०, बा० । २-नतत्वात्, यन-वा०, पा० । ३-करवं बि-बि०, भा०। स० त०१८
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy