SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डेविशेषणासिद्धो हेतुःप्रसक्तः। साध्य-साधनधर्मविकलश्चाकाशलक्षणः साधर्म्यदृष्टान्तः, नित्यत्वे सस्यस्मदायुपलभ्यमानगुणाधिष्ठानत्वस्य साधनधर्मस्य, विभुत्वलक्षणसाध्यधर्मस्य तत्रासिद्धेः। ___ अथ 'शब्दाधिकरणं द्रव्यं विभु, नित्यत्वे सत्यस्मदायुपलभ्यमानगुणाधिष्ठानत्वात् , आत्मवत्' इत्यतो हेतोस्तत्र विभुत्वस्य सिद्धेर्न साध्यविकलो दृष्टान्तः । नापि साधनविकला, ५अमदादिप्रत्यक्षशब्दगुणाधिष्ठानत्वस्य तत्र सिद्धत्वात्-न च शब्दस्यासदादिप्रत्यक्षत्वम् गुणत्वं वाऽसिद्धम, श्रोत्रव्यापारेणाध्यक्षबुद्धौ शब्दस्य परिस्फुटरूपतया प्रतिमासनात् निषिध्यमानद्रव्यकर्मत्वे सति सत्तासंबन्धित्वात् , पृथिव्यादिवृत्तिबाधकप्रमाणसद्भावे सति गुणस्याऽऽश्रितत्वे. नाकाशाऽऽश्रितत्वसिद्धेश्च न साधन विकलताप्याकाशस्य । असदेतत्; सिद्धे ह्यात्मनो विभुत्वे तन्निदर्शनादाकाशस्य विभुत्वसिद्धिः, तत्सिद्धेश्चात्मनो विभुत्वसिद्धिरितीतरेतराश्रयदोषप्रसङ्गात् १० नाप्याकाशस्य विभुत्वसिद्धिरिति साध्यविकलता तदवस्थैव । यच्च शब्दस्य गुणत्वसाधकमनु. मानं तत्र 'सत्तासंबन्धित्वात्' इति हेतौ सत्तायाः तत्संबन्धित्वहेतोः समवायस्य चासिद्धत्वादसिद्धता, 'प्रतिषिध्यमानद्रव्यत्वे सति' इति विशेषणस्य चासिद्धता, शब्दस्य द्रव्यत्वात् । [प्रासङ्गिकं शब्दस्य द्रव्यात्मकत्वसाधनम् ] तथाहि-द्रव्यं शब्दः, क्रियावत्त्वात्, यद् यत् क्रियावत् तत् तद् द्रव्यम्, यथा शरः, १५ तथा च शब्दः, तस्माद् द्रव्यम् । निष्क्रियत्वे श्रोत्रेणाग्रहणप्रसङ्गः, तेना मिसंबन्धात् । तथापि ग्रहणे श्रोत्रस्याप्राप्यकारित्वप्रसक्तिः। तथा च 'प्राप्यकारि चक्षुः, बाह्येन्द्रियत्वात्, त्वगिन्द्रियवत्' इत्यस्य श्रोत्रेणानैकान्तिकत्वप्रसक्तिः । संबन्धकल्पनायां वा श्रोत्रं वा शब्ददेशं गत्वा शब्देनाभिसंबन्ध्येत, शब्दो वा श्रोत्रदेशमागत्य तेनाभिसंबन्ध्येत? न तावत् प्रथमः पक्षः, स्वधर्माऽधर्माभिसंस्कृतकर्णशष्कुल्यवरुद्धनभोदेशलक्षणश्रोत्रस्य शब्दोत्पत्तिदेशे निष्क्रियत्वेन तथा२० प्रतीत्यभावेन च गत्यसम्भवात् । गत्यभ्युपगमे वा विवक्षितशब्दापान्तरालवर्तिनामन्यान्य शब्दानामपि ग्रहणप्रसङ्गः, संबन्धाविशेषात् । अनुवात-प्रतिवात-तिर्यग्वातेषु च प्रतिपत्यप्रतिपत्तीषप्रतिपत्तिभेदाभावप्रसङ्गश्च, श्रोत्रस्य गच्छतस्तत्कृतोपकाराद्ययोगात्। नाप शब्द शागमनसम्भवः, गुणत्वेन तस्य निष्क्रियत्वोपगमात् आगमने वा सक्रियत्वाद् द्रव्यत्वमेव । अथापि स्यात् न आद्य एवाकाशतद्वेणुमुखसंयोगात् समवाय्यऽसमवायि-निमित्तकारणा२५ दुद्भूतः शब्दः श्रोत्रेणागतः संबन्ध्यते येनायं दोषः स्यात्, अपि तु जलतरङ्गन्यायेनापरापर पवाकाश-शब्दादिलक्षणात् समवाय्यऽसमवायि-निमित्तकारणादुपजातस्तेनामिसंबन्ध्यत इति । नन्वेवं बाणादयोऽपि पूर्वपूर्वसमानजातीयक्षणप्रभवा अन्ये एव लक्ष्येणाभिसंवन्ध्यन्त इति किं नाभ्युपगम्यते ? तथा च क्रियायाः सर्वत्राभाव इति 'क्रियावद् द्रव्यम्' इति द्रव्यलक्षणं न क्वचिद् व्यवतिष्ठेत । अथ प्रत्यभिज्ञानाद् वाणादौ नित्यत्वसिद्धेर्नेयं कल्पना । नन्वेवं शब्देऽपि मा ३०भूदियम्, तत्राप्येकत्वग्राहिणः प्रत्यभिज्ञानस्य 'देवदत्तोच्चारित शब्दं शृणोमि' इत्येवमाकारेणोप जायमानस्याऽबाधितस्वरूपस्यानुभवात् । न च लूनपुनर्जातकेश-नखादिष्विव सदृशापरापरो त्पत्तिनिबन्धनमेतत् प्रत्यभिज्ञानमिति वक्तुं शक्यम् , बाणादावपि तस्य तथात्वाविशेषात्। . अथ शब्दे बाधकसद्भावात् तथा तत्परिकल्पनम् न वाणादौ, विपर्ययात् । ननु न शब्दैकत्वविषयं प्रत्यक्षं तावदस्य बाधकम् , समानविषयत्वेन तस्य तद्बाधकत्वायोगात् । क्षणि३५कत्वविषयं तु शब्देऽन्यत्र वा विवादगोचरचारीति न तद्बाधकं युक्तम् । न चानुमानं प्रत्यमिशानबाधकम्, प्रत्यभिज्ञानस्य मानसप्रत्यक्षत्वाभ्युपगमात्; तदेव हनुमा॑नस्यैकशाखाप्रभवत्वादेर्वाध. कमुपलब्धम्, न पुनरनुमानं तस्य । अथ शब्दैकत्वग्राहकप्रत्यभिक्षाप्रत्यक्षस्य तदाभासत्वादनुमानं स्थिरचन्द्राऽर्कादिग्राहकस्येव देशान्तरप्राप्तिलिङ्गजनितानुमानवद् बाधकं भविष्यति, कथं पुनरस्य प्रत्यक्षाभासत्वम् ? अनुमानेन वाधनादिति चेत्, अनेनाप्यनुमानस्य बाधनादनुमानाभासत्वं ४० किं न स्यात्? अथानुमानबाधित विषयत्वाद् नैतदनुमानबाधकम् अनुमानमप्येतद्वाधितविषयत्वाद् नास्य बाधकमिति प्रसक्तम् । अथ साध्याविनाभाविलिङ्गजनितन्वान्नानुमानमेतद्वाध्यम् एकशा १-नमिसंधानान् । वा०, बा. विना। २-३-बध्य-वा०, वा०, मा०। ८ पृ. १३५पं० २९ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy