SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ आत्मपरिमाणवादः । स्वरूपेण सर्वत्राविशेषात् । अथात्मकार्यत्वादात्मगुणो बुद्धिः, कुत एतत् ? आत्मनि सति भावात्, आकाशादावपि सति भावात् तस्यास्तकार्यताप्रसक्तिः । नाप्यात्मनोऽभावेऽभावात् तस्याः तत्कार्यत्वम्, तन्नित्यत्व-व्यापित्वाभ्यां तत्र तस्यायोगात् । नापि तत्र तस्याः प्रतीतेः तत्कार्यैवासौ नाकाशादिकार्या, तत्र तत्प्रतीतेरसिद्धः। तथाहि-न तावद् आत्मा आत्मनि बुद्धि प्रत्येति, तस्य स्वसंविदितत्वानभ्युपगमात् । ज्ञानान्तरप्रत्यक्षत्वेऽपि विवादात्। तन्न तेनात्मस्वरूपमपि गृह्यते, ५ दरत एव स्वात्मव्यवस्थितत्वं बुद्धः। नापि बुद्धया तयवस्थितत्वं स्वात्मनो गृह्यते, तया आत्मनः स्वकीयरूपस्य वाऽग्रहणात्, बुद्धधन्तरग्राह्यत्वासम्भवात्, स्वसंविदितत्वस्य चानिप्टेः, अज्ञातायाश्च घटादेरिवापरग्राहकत्वानुपपत्तेन तयाप्यात्मनि व्यवस्थितं स्वरूपं गृह्यते । न च तदुत्कलितत्वम्, तदाधेयत्वम्, तत्समवेतत्वं वा आकाशादिपरिहारेणात्मगणत्वनिबन्धनम, सर्वस्य निषिद्धत्वात्। न च कार्येणाननुकृतव्यतिरेकं नित्यमात्मलक्षणं वस्तु कस्यचित् कारणं सिध्यति, अतिप्रसङ्गात् । १० यथा च नित्यस्यकान्तत आत्मनोऽन्यस्य वा न कारणत्वं संभवति तथा प्रतिपादयिष्यते। तन्न बुद्धरात्मनो व्यतिरेके 'तस्यैवासौ गुणो नाकाशादेः' इति व्यवस्थापयितुं शक्यम् । अव्यतिरेके च ततः तद्वदेव तस्या अपि द्रव्यत्वमिति 'प्रतिषिध्यमानद्रव्यत्वे सति' इति विशेषणमसिद्धम् । अपि च बुद्धेर्गुणत्वसिद्धावनाधारस्य गुणस्यासंभवात् तदाधारभूतस्यात्मनो द्रव्यत्यसिद्धिः, तत्सिद्धेश्च द्रव्य-कर्मभावप्रतिषेधे मति तदाश्रितत्वेन तस्या गुणत्वसिद्धि-१५ रितीतरेतराश्रयत्वम् । किञ्च, आत्मनोऽप्रत्यक्षत्वे बुद्धस्तद्विशेषगुणत्वेऽस्मदाद्युपलभ्यमानत्वविरोधः । तथाहि-येऽत्यन्तपरोक्षगुणिगुणा न तेऽस्मदादिप्रत्यक्षाः, यथा परमाणुरूपादयः, तथा च परेणाभ्युपगम्यते बुद्धिः, तस्माद् नास्मदादिप्रत्यक्षा। न च वायुस्पर्शन व्यभिचारः, वायोः कथञ्चित् तद्व्यतिरेकेण तद्वत् प्रत्यक्षत्वात् ; स्पर्श विशेषस्यैव तत्त्वात् । अस्मदादिप्रत्यक्षत्वे च बुद्धरत्यन्तपरोक्षात्मविभुद्र २० व्यविशेषगुणत्व विरोधः । तथाहि-यद् अस्मदादिप्रत्यक्षं न त अत्यन्तपरोक्षगुणिगुणः, यथा घटरूपादि, तथा च बुद्धिः । न च वायुस्पर्शन व्यभिचारः, पूर्वमेवं परिहृतत्वात् । ततोऽस्मदादि. प्रत्यक्षत्वे बुद्धर्नात्यन्तपरोक्षात्मविशेषगुणत्वम् । तत्वे वा नास्मदादिप्रत्यक्षत्वमित्यसिद्धोऽस्मदाद्युपलभ्यमानलक्षणविशेषणोऽपि हेतुः। अथ आत्मनः प्रत्यक्षत्वाभ्युपगमादू नायं दोषः, नन्वेवंतस्य प्रत्यक्षत्वाभ्युपगमे हर्ष-विषादाद्यनेकविवर्तात्मकस्य देहमात्रव्यापकस्य स्वसंवेदनप्रत्यक्ष-२५ सिद्धत्वाद् न युगपत् सर्वदेशावस्थिताशेषमूर्तद्रव्यसंवन्धलक्षणस्य विभुत्वस्य साधनमनुमानतो युक्तम्, अन्यथा घटादिमिर्मेर्वादेस्तेन च घटादीनां तथा संयोगः किं नेष्यते यतः सांख्यदर्शनं न स्यात् ? प्रत्यक्षबाधनाद नवमिति चेत्, किमत्र प्रत्यक्षबाधनं काकक्षितम् ? अथात्र पक्षधर्मान्वयव्यतिरेकलक्षणयुक्तहेतुसद्भावात् तथाभ्युपगमः अन्यत्र विपर्ययाद नेति चेत् तर्हि 'पकान्येतानि फलानि, एकशाखाप्रभवत्वात्, उपयुक्तफलवत्' इत्यत्र तथाविधहेतुसद्भावात् तथाभ्युपगमः किं ३० न स्यात् ? पक्षस्य प्रत्यक्षबाधा हेतोर्वा कालात्ययापदिएत्वमन्यत्रापि समानम्। न च स्वसंवेदनप्रत्यक्षमेवानुमानेन प्रकृतेन बाध्यत इति वक्त यनम्, प्रत्यक्षपूर्वकत्वाभ्युपगमादनुमानस्य प्रत्यक्षाप्रामाण्ये तस्याप्रवृत्तिप्रसङ्गात् । न च तथाभूतात्मग्राहकस्य स्वसंवेदनाध्यक्षस्याप्रामाण्य निबन्धनमपरमुत्पश्यामः। न चान्यादृक्षस्यान्मनो विभूत्वसाधनाय हेतूपन्यासः सफलः, तस्य प्रमाणाविषयत्वेनासिद्धत्वाद हेतोराश्रयासिद्धताप्रसङ्गात् । तदेवमस्मदाद्युपल महात। नदेवमस्मदाद्यपलभ्यन्वे बद्धिलक्षणस्य गुणस्य ३५ हेतोः कालात्ययापदिष्टत्वम्, अनुपलभ्यन्वे विशेषणासिद्धन्वम् । __परमाणूनां च नित्यत्वे सत्यस्मदाधुपलभ्यमानपाकजगुणाधिष्ठानत्वे सत्यपि न विभुत्वमिति व्यमिचारः। परमाणुपाकजगुणानामस्मदाद्यप्रत्यक्षरवे 'विवादास्पदं बुद्धिमत्कारणम्, कार्यत्वात्, घटादिवत्' इत्यत्र प्रयोगे व्याप्तिग्रहणं दर्लभमासज्येत । तथाहि-कार्यत्वेनामिमतानां परमाणुपाकजरूपादीनां व्याप्तिज्ञानेनाविषयीकरणे बद्धिमत्कारणत्वेन व्याप्तिसिद्धिन स्यात, तथा चैते-४० रेव कार्यत्वहेतोय॑मिचाराशका स्यात् । अथ 'नित्यत्वे सत्यस्मदादिबाह्येन्द्रियोपलभ्यमानगुणाविष्ठानत्वात्' इति हेतुरमिधीयते तर्हि बाह्येन्द्रियोपलभ्यमानत्वस्य बुद्धावसिद्धेः पुनरपि १पृ० १०५ पं० ३३ । २ प्र.पृ० पं० १९। ३-न वा घ-वा०, बा०। ४-क्षस्य प्रा-वा०, बा।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy