SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ ईश्वरस्वरूपवादः। सहकारिसन्निधानेऽपि स्वरूपेणैवाऽसौ कार्य निर्वर्तयति, पररूपेण जनकत्वे सर्वस्य स्वरूपेणाजन. कत्वात् कार्याऽनुत्पादप्रसङ्गः, तस्य चाविकलस्य तजननखभावस्य भावादुत्तरकालभाविसमस्तकार्योत्पत्तिस्तदैवस्यात् । तथाहि-यद् यदा यजननसमर्थ तत् तदा तद् जनयत्येव, यथाऽन्त्यावस्थाप्राप्त बीजमङ्कुरम्, अजनने वा तदा तस्य तद् जननस्वभावमेव न स्यात्, तजननस्वभावश्च कर्मादिसामग्यसन्निधानेऽप्येकस्वभावतयाऽभ्युपगम्यमानो महेश इति स्वभावहेतुः। अथ कर्मादिसामग्र्यभावे ५ तत्स्वभावोऽप्यसौ विवक्षितकार्य न जनयति, न तर्हि तजनकस्वभावः-यो हि यदा यन्न जनयति स तजनकस्वभावो न भवति; यथा शालिबीजं यवाङ्कुरस्य, अतजनकस्यापि तत्स्वभावत्वेऽतिप्रसङ्गः, न जनयति च कर्मादिसामग्र्यभावे विवक्षितं कार्यमीश इति व्यापकाऽनुपलब्धिः। अथ कर्मादिसामग्र्यभावे स स्वभावस्तदपेक्षकार्यजनकत्वलक्षणो नास्ति तर्हि स्वभावभेदात् कथं न तस्य भेदः अपरस्य तन्निबन्धनस्याभावात् ? तथा च क्रमवर्त्यनेकमङ्कुरादिकार्य नाक्रमैकेश्वरविहितम् इति १० नैकत्वं तस्य सिद्धिमासादयति । तन्न सर्वज्ञत्वाऽशरीरित्वैकत्वादिधर्मयोगस्तस्य सिद्धिमुपढौकते । 'नापि कृत्रिमज्ञानसंबन्धित्वं तज्ज्ञानस्य प्रत्यर्थ नियमाभावात्' इत्यादि यदुक्तम्, तदपि निरस्तम्; नित्यसर्वपदार्थविषयज्ञानसंबन्धित्वस्य तत्र प्रतिषिद्धत्वात् । - यच्च 'यथा स्थपत्यादीनां महाप्रासादादिकरणे एका भिप्रायनियमितानामैकमत्यं तद्वदत्रापि यदि क्षित्याद्यनेककार्यकरणे बहूनां नियामकः कश्चिदेकोऽस्ति, स एवेश्वरः' इत्युक्तम् , तदप्यसङ्गतम् ; १५ यतोन ह्ययं नियमः-एकेनैव सर्व कार्य निर्वर्तनीयम्, एकनियमितैर्वा वहभिरितिः अनेकधा कार्यकर्तृत्वदर्शनात् । तथाहि-क्वचिदेक एवैककार्यस्य विधाता उपलभ्यते यथा कुविन्दः कश्चिदेकस्य पटस्य, कचिदेक एव बहूनां कार्याणाम् यथा घट-शरावोदञ्चनानामेकः कुलालः, क्वचिदनेकोऽप्यनेकस्य यथा घट-पट-शकटादीनां कुलालादिः, क्वचिदनेकोऽप्येकस्य यथा शिविकोद्वहनादेरनेकः पुरुष. सङ्घातः। न च प्रासादादिलक्षणेऽप्यनेकस्थपत्यादिनिर्वय॑ऽवश्यंतयैकसूत्रधारनियमितानां तेषां तत्र २० व्यापार उपलब्धः, प्रतिनियताभिप्रायाणामप्येकसूत्रधाराऽनियमितानां तत्करणाऽविरोधात् इति नैकः कर्ता क्षित्यादीनां सिद्धिमासादयति । अत एव न तन्निबन्धना सर्वज्ञत्वसिद्धिरपि तस्य युक्ता। तदेवं नित्यत्वादिविशेषसाकल्यसाधकानुमानाऽसंभवात् तद्विपर्ययसाधकस्य च प्रसङ्गसाधनस्य तत्र भावात् कथं न विशेषविरुद्धावकाशः? अथ शरीरादिमदबुद्धिमत्कारणत्वव्याप्तं यदि क्षित्यादी कार्यत्वमुपलभ्येत तदा ततस्तत्र तत् सिद्धिमासादयत् तथाभूतमेव सिध्येदिति भवेत् कार्यत्वादे-२५ विरुद्धत्वम्, साध्यविपर्ययसाधनात्; न च तथाभूतं तत् तत्र विद्यते इति कथं विरुद्धता? न; परप्रसिद्धपक्षधर्मत्वम् विपर्ययव्याप्तिं वाऽऽश्रित्य विरुद्धताभिधानात् । परमार्थतस्तु कार्यत्वविशेषस्य क्षित्यादावसिद्धत्वम् तत्सामान्यस्य त्वनैकान्तिकत्वम् इति प्रतिपादितम् । सर्वेषु चेश्वरसाधनायोपन्यस्तेष्वनुमानेष्वसिद्धत्वादिदोषः समानः इति कार्यत्वदुषणेनैव तान्यपि दूषितानि इति न प्रत्युच्चार्य दुष्यन्ते । महेश्वरस्य च नित्यत्वं तद्वादिभिरभ्युपगम्यते; न चाक्षणिकस्य सत्त्वं संभवति ३० इति प्रतिपादयिष्यामः । ___ यञ्च 'पृथिव्यादिमहाभूतानि खासु क्रियासु बुद्धिमत्कारणाधिष्ठितानि प्रवर्तन्ते, अनित्यत्वात् , वास्यादिवत्' इति, तत्र कुलालादिबुद्धावप्यनित्यत्वलक्षणस्य हेतोः सद्भावात् तत्राप्यपरबुद्धिमत्कारणाधिष्ठितत्वप्रसक्तिः, तथाऽभ्युपगमे महेशबुद्धेरप्यनित्यत्वस्य प्रसाधनात् तस्याप्यपरबुद्धिमदधिष्ठितत्वम्, तदुद्धावप्येवम् इत्यनवस्था । अथ बुद्धरनित्यत्वे सत्यपि न बुद्धिमदधिष्ठितत्वं तदा ३५ व्यमिचारी हेतुः; अपरं चात्र प्रतिविहितत्वान्नाशयते । यश्च कार्यत्वहेतोर्दूषणमसिद्धत्वादि तत्रापि समानम् । तथाहि-यादृशमनित्यत्वं बुद्धिमदधिष्ठितं (त) वास्यादौ सिद्धं तादृशं तन्वादिष्वसिद्धम् । अनित्यत्वमात्रस्य प्रतिबन्धासिद्धेर्व्यभिचारः। प्रतिबन्धाभ्युपगमे सतीष्टविपरीतसाधनाद् विरुद्धत्वम् । साधर्म्यदृष्टान्तस्य साध्यविकलता, नित्यैकबुद्धिमदधिष्ठितत्वेन साध्यधर्मेणान्वयासिद्धेः । सामान्येन साध्ये सिद्धसाध्यता, विशेषेण व्यभिचारः, घटादिष्वन्यथादर्शनादिति । एवं सर्वेषु प्रकृतसाध्य-४० साधनायोपन्यस्तेषु हेतुषु योज्यम् । १पृ० १.० ५० ११। २ पृ० १२६ पं० २३ । ३ पृ० १०० पं० २१ । ४-सिद्धं प-भां•। ५-तिं बाऽऽभि-भा- ६ पृ. ११५५.११-१.। पृ.१०.पं.३१
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy