SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ १३२ प्रथमे काण्डेयञ्च 'स्थित्या प्रवृत्तेः' इति साधनमुक्तम् , तत्रान्यदपि दूषणं वाच्यम्-सर्वभावानामुदयसमनन्त. राऽपवर्गितया क्षणमात्रमपि न स्थितिरस्ति इति कुतः स्थित्वा प्रवृत्तिः? तस्मात् प्रतिवाद्यसिद्धो हेतुः अनैकान्तिकश्चेश्वरेणैवः यतः सोऽपि क्रमवत्सु कार्येषु स्थित्वा प्रवर्तते अथ च नासौ चेतनावताऽधिष्ठितः अनवस्थाप्रसङ्गात् । अथ 'अचेतनत्वे सति' इति सविशेषणो हेतुरुपादीयते यथा ५प्रशस्तमतिनोपन्यस्तस्तथापि संदिग्धविपक्षव्यावृत्तिकतयाऽनैकान्तिकत्वमनिवार्यम्-यदेव हि विशेषणं विपक्षाद्धेतुं निवर्तयति तदेव न्याय्यम्, यत् पुनर्विपक्षे संदेहं न व्यावर्तयति तदुपादानमप्यसत्कल्पम्, पूर्वोक्तश्चासिद्धतादोपः सविशेषणत्वेऽपि तदवस्थ एव । यच्चोक्तम् 'सादी व्यवहार इत्यादि, तत्रापि 'उत्तरकालं प्रबुद्धानाम्' इत्येतद् विशेषणमसिद्धम् । तथाहि-नास्मन्मते प्रलयकाले प्रलुप्तज्ञान-स्मृतयो वितनु-करणाः पुरुषाः संतिष्ठन्ते किन्त्वाभास्वरादिषु स्पष्टशानातिशययोगिषु १० देवनिकायेषत्पद्यन्तेः ये त प्रतिनियतनिरयादिविपाकसंवर्तनीयकर्माणस्ते लोकधात्वन्तरेषत्पद्यन्ते इति मतम् । विवर्तकालेऽपि तत एव आभास्वरादेश्च्युत्वा इहालुप्तज्ञान-स्मृतय एव संभवन्ति तस्मात् 'उत्तरकालं प्रबुद्धानाम्' इति विशेषणमसिद्धम् । अनैकान्तिकश्च हेतुः संदिग्धविपक्षव्यावृ. त्तिकत्वात् । किञ्च, अन्योपदेशपूर्वकत्वमात्रे साध्ये सिद्धसाध्यता, अनादेर्व्यवहारस्य सर्वेषामेवान्योपदेश१५ पूर्षकत्वस्येष्टत्वात् । अथेश्वरलक्षणपुरुषोपदेशपूर्वकत्वं साध्यते तदाऽनैकान्तिकता, अन्यथाऽपि व्यवहारसंभवात् , दृष्टान्तस्य च साध्यविकलता । एतच्चान्यहेतुसामान्यं दृषणं पूर्वमुक्तम् । विरुद्धश्च हेतुः अभ्युपेतबाधा च प्रतिक्षायाः, निर्मुखस्योपदेष्टुत्वासंभवात्-यदि ईश्वरोपदेशपूर्वकत्वं व्यवहारस्य संभवेत् तदा स्यादविरुद्धता हेतोः यावताऽसौं विगतमुखत्वादुपदेष्टा न युक्तः, तञ्च विमुखत्वं वितनुत्वेन, तदपि धर्माधर्मविरहात्, तथा च उद्द्योतकरेणोक्तम्-"यथा बुद्धिमत्तायामीश्वरस्य २० प्रमाणसंभवः, नैवं धर्मादिनित्यत्वे प्रमाणमस्ति" [ न्यायवा० पृ० ४६४ पं० १४] इति । तस्मादी श्वरस्योपदेष्टत्वासंभवात् तदुपदेशपूर्वकत्वं व्यवहारस्य न सिध्यति किन्त्वीश्वरव्यतिरिक्तान्यपुरुषोपदेशपूर्वकत्वम्; अत इष्टविघातकारित्वाद् विरुद्धो हेतुः। अथेश्वरस्योपदेष्टुत्वमङ्गीक्रियते तदा विमुखत्वमभ्युपेतं हीयत इत्यभ्युपेतबाधः । एवमन्येष्वपि सर्वज्ञत्वादितद्विशेषसाधकेषु हेतुष्वसि द्धत्वाऽनैकान्तिकत्व-विरुद्धत्वादिदोषजालं स्वमत्याऽभ्यूह्यं दिङ्मात्रदर्शनपरत्वात् प्रयासस्य । अत एव २५ “सप्त भुवनान्येकबुद्धिनिर्मितानि, एकवस्त्वन्तर्गतत्वात् , एकावसथान्तर्गतानेकापवरकवत् ; यथैकावसथान्तर्गतानामपवरकाणां सूत्रधारैकबुद्धिनिर्मितत्वं दृष्टं तथैकस्मिन्नेव भुवनेऽन्तर्गतानि सप्त भुवनानि, तस्मात् तेषामप्येकबुद्धिनिर्मितत्वं निश्चीयते; यद्बुद्धिनिर्मितानि चैतानि स भगवान् महेश्वरः सकलभुवनैकसूत्रधारः" [ ] इत्यादिकाः प्रयोगाः प्रशस्तमतिप्रभृतिमिरुपन्यस्तास्तेष्वपि हेतुरसिद्धः, न होकं भुवनम् आवसथादिर्वाऽस्ति, व्यवहारलाघवार्थ बहुश्वियं संज्ञा कृता, अत एवं ३० दृष्टान्तोऽपि साधनविकलः: एकसौधाद्यन्तर्गतानामपवरकादीनामनेकसूत्रधारघटितत्वदर्शनाच्चानकान्तिको हेतुः। ___ यञ्च “एकाधिष्ठाना ब्रह्मादयः पिशाचान्ताः, परस्परातिशयवृत्तित्वात् । इह येषां परस्परातिशयवृत्तित्वं तेषामेकायत्तता दृष्टा, यथेह लोके गृह-ग्राम-नगर-देशाऽधिपतीनामेकस्मिन् सार्वभौम नरपतौ, तथा च भुजग-रक्षो-यक्षप्रभृतीनां परस्परातिशयवृत्तित्वम् : तेन मन्यामहे तेषामप्येक३५मिनीश्वरे पारतन्यम्” इति, तदेतद् यदि 'ईश्वराख्येनाधिष्ठायकेनैकाधिष्ठानाः' इत्ययमर्थः साध. यितुमिष्टस्तदाऽनैकान्तिकता हेतोः, विपर्यये बाधकप्रमाणाभावात् प्रतिबन्धाऽसिद्धेः । दृष्टान्तस्य च साध्यविकलता। अथाधिष्ठायकमात्रेण साधिष्ठाना इति साध्यते तदा सिद्धसाध्यता, यत इष्यत एव सुगतसुतैर्भगवता संबुद्धेन सकललोकचूडामणिना सर्वमेव जगत् करुणावशादधिष्ठितम्, यत्प्रभावादद्याप्यभ्युदय-निःश्रेयससंपदमासादयन्ति साधुजनसार्थाः । सर्वेष्वपि च सर्वक्षसाधनेषु ४० परोपन्यस्तेषु यदि सामान्येन 'कश्चित् सर्वज्ञः' इति साध्यमभिप्रेतं तदा नाऽस्मान् प्रति भवतामिद साधनं राजते सिद्धसाध्यतादोषात् किन्तु ये सर्वज्ञाऽपवादिनो जैमिनीयाश्चार्वाका वा तेम्वेव १ पृ० १.१ पं० १७। २ पृ० १०१ पं० २० । ३-मतेन प्र-भा०। ४ पृ० ११५ पं० ३५। ५-था भु-बा., बा ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy