SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डेयतूक्तम् 'विपर्यासकारणा रागादयः, विपर्यासश्चाधर्मनिमित्तः, न च भगवत्यधर्मः' इति, तदप्यसारम्; अधर्मवद् धर्मस्यापि तद्धेतोश्च सम्यग्ज्ञानादेस्तत्रासंभवस्य प्रतिपादितत्वात् । यच्चोक्तम् 'रागादय इष्टानिष्टसाधनेषु विषयेषूपजायमाना दृष्टाः, न च भगवतः कश्चिदिष्टानिष्टसाधनो विषयः, अवाप्तकामत्वात्' इति, तदप्यसारम् ; यतो यदि इष्टानिष्टसाधनो न तस्य कश्चिद्विषयः कथं ५तर्हि असाविष्टाऽनिष्टोपादान-परिवर्जनार्थ प्रवर्तते बुद्धिपूर्विकायाः प्रवृत्तेर्हेयोपादेयजिहासोपादित्सापूर्वकत्वेन व्याप्तत्वात्? तभावेऽपि प्रवृत्तावुन्मत्तकप्रवृत्तिवद् न बुद्धिपूर्विकेश्वरप्रवृत्तिः स्यात् हेयोपादेयजिहासोपादित्से अप्यनाप्तकामत्वेन व्याप्ते, अवाप्तकामस्य हेयोपादेयजिहासोपादित्साऽ. नुपपत्तेः । अनाप्तकामत्वमप्यनीश्वरत्वेन व्याप्तम् , ईश्वरस्यानाप्तकामवायोगाद् इति यत्र बुद्धिपूर्विका प्रवृत्तिरिष्यते तत्र हेयोपादेयजिहासोपादित्से अवश्यमङ्गीकर्तव्ये, यत्र च ते तत्रानाप्तकामत्वम्, १० यत्र च तत् तत्रानीश्वरत्वम् इति प्रसङ्गसाधनम् । ईश्वरत्वे चावाप्तकामत्वम्, अवाप्तकामत्वाच्च न हेयोपादेयविषये तद्धानोपादानेच्छा, तदभावे न बुद्धिपूर्विका प्रवृत्तिरिति प्रसङ्गविपर्ययः। अत एव स्वतन्त्रसाधनपक्षे यद् आश्रयासिद्धत्वादिहेतुदोषोद्भावनम् तदसंगतम्, व्याप्तिप्रसिद्धिमात्रस्यैवात्रोपयोगात्; सा च प्रतिपादिता । 'या तु प्रवृत्तिः शरीरादिसर्गे सा क्रीडा, अवाप्तकामानामेव च क्रीडा भवति' इति यदुक्तम् तदसंगतम् , 'रतिमविन्दतामेव क्रीडा भवति, न च रत्यर्थी भगवान्, १५दुःखाभावात्' इति वार्तिककृतैव प्रतिपादितत्वात् । यच्चोक्तम् 'न हि दुःखिताः क्रीडासु प्रवर्तन्ते' इति, तत् प्रक्रमानपेक्षं वचनम् : दुःखाभावेऽपि क्रीडावतां रागाद्यासक्तिनिमित्तेष्टसाधनविषयव्यतिरेकेण तस्यासंभवात्। यञ्च 'कारुण्यात् तस्य तत्र प्रवृत्तिः' इत्यादि, तदप्यनालोचिताभिधानम्; नहि करुणावतां यातनाशरीरोत्पादकत्वेन प्राणिगणदुःखोत्पादकत्वं युक्तम् । न च तथाभूतकर्मसव्यपेक्षस्तथा तेषां २० दुःखोत्पादकोऽसौ निमित्तकारणत्वात् तस्येति वक्तुं युक्तम्, तत्कर्मणामीश्वरानायत्तत्वे कार्यत्वे च तेनैव कार्यत्वलक्षणस्य हेतोर्व्यभिचारित्वप्रसङ्गात् । तत्कृतत्वे वा कर्मणोऽभ्युपगम्यमाने प्रथम कर्म प्राणिनां विधाय पुनस्तदुपभोगद्वारेण तस्यैव क्षयं विदधतो महेशस्याऽप्रेक्षाकारिताप्रसक्तिः, न हि प्रेक्षापूर्वकारिणो गोपालादयोऽपि प्रयोजनशून्यं विधाय वस्तु ध्वंसयन्ति । तन्न करुणाप्रवृत्तस्य कर्मसव्यपेक्षस्यापि प्राणिदुःखोत्पादकत्वं युक्तम् । किञ्च, प्राणिकर्मसव्यपेक्षो यद्यसौ प्राणिनां २५ दुःखोत्पादक इति न कृपालुत्वव्याघातस्तर्हि कर्मपरतन्त्रस्य प्राणिशरीरोत्पादकत्वे तस्याभ्युपगम्यमाने वरं तत्फलोपभोक्तृसत्त्वस्य तत्सव्यपेक्षस्य तदुत्पादकत्वमभ्युपगन्तव्यम्, एवमदृष्टेश्वरपरिकल्पना परिहृता भवति । 'यथा प्रभुः सेवाभेदानुरोधात् फलप्रदो नाऽप्रभुस्तथा महेश्वरोऽपि कर्मापेक्षफलप्रदो नाप्रभुः' इत्यप्ययुक्तम् । यतो यथा राज्ञः सेवाऽऽयत्तफलप्रदस्य रागादियोगः नैपुंण्यम् सेवाऽऽ. यत्तता च प्रतीता तथेशस्याप्येतत् सर्वमभ्युपगमनीयम्; अन्यथाभूतस्यान्यपरिहारेण क्वचिदेव ३० सेवके सुखादिप्रदत्वानुपपत्तेः । तदेवं कर्मपरतन्त्रत्वे तस्यानीशत्वम्, करुणाप्रेरितस्य कर्तृत्वे "सृजेच शुभमेव सः” इति वार्तिककारीयदूषणस्य व्यवस्थितत्वम् । यच्च 'नारक-तिर्यगादिसर्गोऽप्यकृतप्रायश्चित्तानां तत्रत्यदुःखानुभवे पुनर्विशिष्टस्थानावाप्तौ अभ्युदयहेतुरिति सिद्धं दुःखिप्राणिसृष्टावपि करुणया प्रवर्तनमीशस्य' इति, तदपि प्रतिविहितमेव; यतः कर्म प्राणिनां दुःखप्रदं विधाय तत्फलोपभोगविधानद्वारेण क्षयनिमित्तं प्राणिनामभ्युदयं विदधतस्तस्याऽशुचिस्थानपतितगृहीतप्रक्षालित३५ मोदकत्यागविधायिनो नसमानबुद्धित्वप्रसक्तिः। अपि च, यदि प्राणिकर्मपरवशस्तेषां दुःखादिकं तत्क्षयनिमित्तप्रायश्चित्तकल्पमुपजनयतीत्यभ्युपगमस्तदा तत्कर्मकार्यत्वं तस्य प्रसक्तम्-तत्कृतोपकाराभावे तदपेक्षाया अयोगात्; उपकारस्य च तत्कृतस्य तद्भेदे तेन संबन्धायोगात्, अभिनस्य तत्करणे तस्यैव करणमिति कथं न तत्कार्यत्वम् ? अथ यद् यदा यत्र कर्मादिकं सहकारिकारणमासादयति तेन सह संभूय तत् तदा तत्र सुखा४० दिकं कार्यं जनयति, एककार्यकारित्वमेव सहकारित्वमिति न कार्यत्वलक्षणस्तस्य दोषः, ननु कर्मादिसहकारिसव्यपेक्षः कार्यजननखभावस्तस्य कर्मादिसहकारिसन्निधानाद् यदि प्रागप्यस्ति तदा १ पृ० ९१ पं० २३ । २ पृ. ९९ पं० २६ । ३ प्र० पृ० पं० । ४ पृ. ९१५० २८। ५ पृ. ९९ पं० ३०। ६ पृ० ९९५० ३१ । ७ पृ. ९९ पं० ३२। ८-कर्मणं ई-(ण ई-) वा०, बा० विना। (पृ. ९९ पं० ३८ । १० पृ. १०० पं० १ ११ पृ० १०.५०८। १२ प्र. पृ०५० २२ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy