SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ ईश्वरस्वरूपवादः । १२९ याचशेषपदार्थत्वलक्षणसर्वज्ञत्वसिद्धिः । यच्चोक्तम् 'क्षेत्रज्ञानां नियतार्थविषयग्रहणं सर्वविदधिष्ठितानाम. यथा प्रतिनियतशब्दादिविषयग्राहकाणामनियतविषयसर्वविदधिष्ठितानां जीवच्छरीरे' इत्यादि. तदप्यसङ्गतम्। यतः शब्दादिविषयग्राहकाणामिति दृष्टान्तत्वेनोपन्यासो यदीन्द्रियाणां तदा तेषां करणत्वाद् वेदनलक्षणक्रियाऽनाश्रयत्वात् कथं नियतशब्दादिविषयग्रहणम् ? अथ ग्रहणाधारत्वेन न तेषां नियतशब्दादिविषयग्रहणं किन्तु करणत्वेनः नन्वेवं क्षेत्रज्ञानामपि विषयग्रहणे करणत्वम न ५ कर्तृत्वमिति घटादि कुलालकर्तृकं तत्कारणशक्तिपरिशानेन न सिद्धमिति कुतस्तदृष्टान्तान् क्षित्यादेानाधारकर्तृकत्वं सिद्धिमुपगच्छति ? यदि पुननिसमवायेन चक्षुगदीनां नियतविषयाणां कर्तृत्वेऽप्यनियतविषयाऽपरक्षेत्रज्ञकधिष्ठितत्वमङ्गीक्रियते तर्हि चेतनानामपि क्षेत्रज्ञानां नियतविषयाणां यथा परोऽनियतविषयश्चेतनोऽधिष्ठाता तथा तस्याऽपि प्रतिनियतविषयत्वकल्पनायामपरोऽनियतविषयस्तद्धिष्ठाताऽभ्युपगन्तव्यः, तस्याप्यपर इत्यनवस्थाप्रसक्तिः। तथा, चेतनानामपि क्षेत्रज्ञानां १० यदा चेतनोऽधिष्ठाताऽभ्युपगम्यते तदा 'अचेतनं चेतनाधिष्ठितं प्रवर्तते, अचेतनत्वात्, वास्यादिवत्' इति प्रयोगेऽचेतनग्रहणं धर्मि-हेतुविशेषणं नोपादेयं स्यात्, व्यवच्छेद्याऽभावात् ।। ___ यत्तुक्तम् 'भवत्वनिष्टा यदि तत्प्रसाधकं प्रमाणं किञ्चिदस्ति, तावत एवाऽनुमानसिद्धत्वात्' इति, तदप्यसङ्गतम् ; यतः प्रमाणमन्तरेण हेत्वाभासाद् यद्येकस्य सिद्धिरभ्युपगम्यते अपरस्यापि तत एव सा किं नाभ्युपगम्यते? प्रमाणसिद्धत्वं तु तावतोऽपि नास्ति, अनिष्ठया तत्प्रसाधकस्य प्रमाण-१५ स्याप्रामाण्याऽऽसञ्जनाद् । यदप्युक्तम् 'आगमोऽप्यस्मिन् वस्तुनि विद्यते' इत्यादि, तदप्ययुक्तम् आगमस्य तत्प्रणीतत्वेन प्रामाण्यम्, तत्प्रामाण्याच्च ततस्तत्सिद्धिरितीतरेतराश्रयप्रसक्तेः। नित्यस्य त्वागमस्य प्रामाण्यं वैशेषिकै भ्युपगतम् , ईश्वरकल्पनावैयर्थ्यप्रसङ्गात् । नाप्यन्येश्वरकृततदागमात् तत्सिद्धिः, तत्रापि तत्कृतत्वेन प्रामाण्ये इतरेतराश्रयदोषात् । अपरेश्वरप्रणीताऽपरागमकल्पनेऽपि तदेव वक्तव्यमित्यनिष्ठाप्रसक्तिः । तदेवं स्वरूपेऽर्थे आगमस्य प्रामाण्येऽपि न तत ईश्वरसिद्धिः।२० यत्तूक्तम् 'तस्य च सत्तामात्रेण स्वविषयग्रहणप्रवृत्तानां क्षेत्रज्ञानामधिष्ठायकता यथा स्फटिकादीनामुपधानाकारग्रहणप्रवृत्तानां सवितृप्रकाशः' तदयुक्तम् ; सत्तामात्रेण सवितृप्रकाशस्यापि स्फटिकाद्यधिष्ठायकत्वाऽसंभवात्-तदसंभवश्चाकाशादेरपि सत्तामात्रस्य सद्भावात् तदधिष्ठायकना स्यात्किन्तु सवितृप्रकाशस्य तद्विशिष्टावस्थाजनकत्वेन तदधिष्ठायकत्वम्, तच्चेत् क्षेत्रक्षेप्वीश्वरस्य परिकप्यते तदा तेषां तत्कार्यताप्रसक्तिः, तथा च यथा क्षेत्रज्ञानामात्मत्वेऽविशिष्टेऽपि कार्यता तथेश्वर-२५ स्यात्मत्वाऽविशेषात् कार्यतेति तदधिष्ठायकोऽपरस्तत्कर्ताऽभ्युपगन्तव्यः, तत्राप्यपर इत्यनवस्था । अथ तस्य कार्यत्वे सत्यप्यनधिष्ठितस्यैव स्वकार्ये प्रवृत्तिस्तर्हि जगदुपादानादेरपि तदनधिष्ठितस्य प्रवृत्तिरिति व्यभिचारी अधिष्ठातृसाधकन्वेनोपन्यस्यमानस्तेनैव हेतुः । अपि च, सत्तामात्रेण तस्य तदधिष्ठायकत्वे गगनस्येव न सर्वशत्वम् इति सर्वशत्वसाधकहेतोस्तद्विपर्ययसाधनाद् विरुद्धत्वम् । न च सर्वविषयज्ञानसमवायात् तत्र तस्यैव सर्वक्षन्वं नाऽऽ-३० काशादेरिति वक्तुं युक्तम्, समवायस्य निषिद्धन्वात् । सत्त्वेऽपि नित्यव्यापकत्वेनाकाशादावपि भावप्रसङ्गात् । न च समवायाऽविशेषेऽपि समवायिनोर्विशेष इति वक्तुं शक्यम्, तद्विशेषस्यैवासिद्धत्वात् । सिद्धत्वेऽपि समवायपरिकल्पनावैयर्थ्यप्रसङ्गादिति प्रतिपादयिष्यमाणत्वात् । न च सत्तामात्रेण तस्य तदधिष्ठायकत्वे झानमात्रमप्युपयोगि, आस्तां सकलपदार्थसार्थकारकपरिज्ञानम् । यदप्युक्तम् 'ज्ञानस्य स्वविषयसदर्थप्रकाशत्वं नाम स्वभावः, तस्याऽन्यथाभावः कुतश्चिद्दोपसद्भावात्'३५ तत् सत्यमेव । यश्चोक्तम् 'यत् पुनश्चक्षुराद्यनाश्रितं न च रागादिमलाऽऽवृतं तस्य विषयप्रकाशनखभावस्य' इत्यादि, तदप्यसङ्गतम्। यतो न चक्षराद्यनाश्रितं ज्ञानं परस्य सिद्धम्, तत्सिद्धौ चक्षुराधनाश्रितस्य ज्ञानस्यव सुखस्यापि सिद्धेरानन्दरूपता कथं मुक्तानां न संगच्छते-येन 'सुखादिगुणरहितमात्मनः स्वरूपं मुक्तिः' इत्यभ्युपगमः शोमेत? न च रागादेरावरणस्याभावो महेशे सिद्धः-येन तज्ज्ञानमनावृतमशेषपदार्थविषयं तत्र सिद्धिमुपगच्छेत्, तत्स्वरूपस्यैवासिद्धत्वात् तत्र ४० रागाधभावप्रतिपादकस्याव्यभिचरितस्य हेतोस्त्वदभ्युपगमविचारणया दुरापास्तत्वाच्च । ४ पृ. ९८ पं० ३० । १ पृ. ९८५० २२ । २ पृ० १.१ पं० १२-२५। ३ पृ. ९८ पं० २८ । ५पृ.९९पं०१५। ६पृ.९९ पं. १९। ७.९९५०२०। स.त. १७
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy