SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १२८ प्रथमे काण्डेच्छति । तस्मान्नित्यबुद्धिपूर्वकत्वेऽङ्करादीनां किमिति युगपदुत्पादो न भवेत् ईश्वरवत् तबुद्धरपि सदा सन्निहितत्वात् ? अनित्यबुद्धिसव्यपेक्षस्यापीश्वरस्याचेतनाधिष्ठायकत्वेन जगद्विधातृत्वे तस्य नित्यत्वेन तबुद्धरपि सदा सन्निहितत्वम् , अविकलकारणयोः सर्वदा सन्निहितत्वात् युगपदकुरादिका र्योत्पत्तिप्रसङ्गः । तस्मात् 'बुद्धिमत्त्वात्' इति विशेषणमकिञ्चित्करमेव; इति नाऽनैकान्तिकता हेतोः। ५ न चापि विरुद्धता, सपक्षे भावात् । } न चैवं भवति तस्माद् विपर्ययप्रयोगः-यद् यदा न भवति न तत् तदानीमविकलकारणम्, यथा कुशूलावस्थितबीजावस्थायामनुपजायमानोऽङ्कुरः, न भवति चैकपदार्थोत्पत्तिकाले सर्व विश्वम् इति व्यापकानुपलब्धिः। न च सिद्धसाध्यता, ईश्वरस्य तज्ज्ञानादेर्वा कारणत्वे विकलकारणत्वानुपपत्तेः प्रसाधितत्वात् । तन्न नित्यज्ञान-प्रयत्न-चिकीर्षाणां तत्समवायस्य वा नित्यस्य कर्तृत्वं युक्तम् । १० तस्माच्छरीरसंबन्धस्यैव कुम्भकारादौ कर्तृत्वव्यापकत्वेन प्रतीतेस्तदभावे कर्तृत्वस्याऽपि व्याप्यस्याभावप्रसङ्गः। तच्च क्वचित् करादिव्यापारेण कारकप्रयोक्तृत्वलक्षणम्-यथा कुम्भकारस्य दण्डादिकारणप्रयोक्तृत्वम्, अपरं वाग्व्यापारेण-यथा स्वामिनः कर्मकरादिप्रयोक्तृत्वस्वरूपम्, अन्यच्च प्रयत्नव्यापारेण-यथा जाग्रतः स्वशरीरावयवप्रेरकत्वस्वभावम्, किञ्चिच्च निद्रा-मद-प्रमादवि शेषेण ताल्वादि-करादिप्रेरकत्वम् , सर्वथा शरीरसंबन्ध एव कर्तृत्वस्य व्यापकः; स चेदीश्वरान्निवर्तते १५स्वव्याप्यमपि कर्तृत्वमादाय निवर्तते इति न तस्य कर्तृत्वमभ्युपगन्तव्यमिति प्रसङ्गः। अथ तस्य जगत्कर्तृत्वमभ्युपगम्यते तदा शरीरसंबन्धः कर्तृत्वव्यापकोऽभ्युपगन्तव्य इति प्रसङ्गविपर्ययः। न च कारकशक्तिपरिज्ञानलक्षणं तस्य कर्तृत्वम्-येन प्रसङ्ग-विपर्यययोात्यसिद्धेरभावः स्यात्कुम्भकारादौ मृद्दण्डादिकारकशक्तिपरिज्ञानेऽपि शरीरव्यापाराभावे घटादिकार्यकर्तृत्वादर्शनात् सुप्त-प्रमत्तादौ च ताल्वादिकारणपरिज्ञानाभावेऽपि तद्यापारे प्रयत्नलक्षणे सति तत्प्रेरणकार्यदर्शनात् । २० यदप्यभिधानमात्रेण विषापहारादिकार्यकर्तृत्वम् तदपि न ज्ञानमात्रनिबन्धनम् किन्तु शरीरसंबन्धाऽविनाभूतविशिष्टात्मप्रयत्नहेतुकमेव । अपि च, विशिष्टधर्माऽधर्माद्युपदेशविधायीश्वरः सर्वज्ञत्वेन मुमुक्षुभिरुपास्यः; अन्यथा अज्ञोपदेशानुष्ठाने तेषां विप्रलम्भशङ्कया तत्र प्रवृत्तिर्न स्यात् । तदुक्तम् ___"ज्ञानवान् मृग्यते कश्चित् तदुक्तप्रतिपत्तये । अज्ञोपदेशकरणे विप्रलम्भनशङ्किभिः" ॥ [ तस्य च सर्वशत्वे सत्यप्यशरीरिणो वक्त्राभावादपदेष्टत्वाऽसंभव इति तत्कतत्वेन तदपदेश प्रामाण्याऽसिद्धेर्न मुमुक्षूणां तत्र प्रवृत्तिः स्यादिति उपदेशकर्तृत्वे तस्य शरीरसंबन्धोऽप्यवश्यमभ्युपगन्तव्यः, व्याप्याभ्युपगमस्य व्यापकाभ्युपगमनान्तरीयकत्वात् । शरीरसंबन्धाभावे तु व्याप्यस्या प्युपदेशविधातृत्वस्याभाव इति प्रसङ्ग-विपर्ययो । व्याप्यव्यापकभावप्रसाधकं च प्रमाणं ताल्वादि३० व्यापाराभावेऽप्युपदेशस्य सद्भावे तस्य तद्धेतुकत्वं न स्यादिति कार्यकारणभावप्रसाधकं प्रागेव प्रदर्शितमिति न पुनरुच्यते । तत् स्थितमेतत्-न शरीराभावे महेशस्य कर्तृत्वमिति । तेन शरीरमनःसंबन्धाभावे प्रयत्न-बुद्ध्यादेरभावादीश्वरसत्तैवासिद्धा । अतः 'तभावे कस्य विशेषः शरीरादियोगलक्षणः साध्यते?' इत्यादिपूर्वपक्षवचनं निःसारतया व्यवस्थितम्, प्रसङ्ग-विपर्यययोनिमित्तभूतव्याप्तिप्रदर्शनस्य विहितत्वात् । यदप्युक्तम् 'ज्ञान-चिकीर्षा-प्रयत्नानां समवायोऽस्तीश्वरे, ३५ ते तु ज्ञानादयस्तत्र नित्याः' इति, तदप्ययुक्तत्वेन प्रतिपादितम् । यच्चोक्तम् तत्र शरीरसंबन्धस्य व्याप्त्यभावादसिद्धिः', तदप्यसत् ; शरीरसंबन्धस्य कर्तृत्वव्यापकत्वप्रतिपादनात्। __ यदप्युक्तम् 'नाप्यसर्वज्ञत्वं विशेषः कुलालादिषु दृष्टस्तत्र साध्यते' इत्यादि, तदप्ययुक्तम् । कुलालादेर्घटादिकार्यस्योपादानाद्यभिज्ञत्वे कर्मादिनिमित्तकारणाभिज्ञत्वप्राप्तेः सर्वशत्वप्रसक्तिः इति व्यर्थमपरेश्वरसर्वशपरिकल्पनम् , तन्निर्वर्तकातीन्द्रियाऽदृष्टपरिज्ञानवत् तस्यापि सकलपदार्थपरिशान४०प्रसक्तेः। अथादृष्टापरिज्ञानेऽपि कुलालो मृत्पिण्डदण्डादिकतिपयकारकशक्तिपरिज्ञानादेव घटादिलक्षणं स्वकार्य निर्वर्तयतीति, तहीश्वरोऽप्यतीन्द्रियाशेषपदार्थपरिज्ञानमन्तरेणापि कतिपयकारकशक्तिपरिज्ञानादेव स्वकार्य निर्वर्तयिष्यति इति न सकलकार्यकर्तृत्वान्यथाऽनुपपत्त्या तस्यातीन्द्रि १ पृ. ५७ पं. १८ । २ पृ. ९८५० ८। ३ पृ. ९८ पं० १३ । ४ पृ. १२६ पं० २३। ५ पृ. ९८ पं० १५। ६ प्र. पृ. पं० १४ । ७ पृ. ९८ पं० १६ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy