SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १२७ ईश्वरस्वरूपवादः । युगपद् भवेत् । { स्यादेतत्, नेश्वरबुद्धयादिकमेव केवलं कारणम् अपि तु धर्माऽधर्मादिसहकारिकारणमपेक्ष्य तत् तत् करोति, निमित्तकारणत्वादीश्वरबुद्धयादेः; अतो धर्मादेः सहकारिकारणस्य वैकल्यादविकलकारणत्वमसिद्धम्, असदेतत्; यदि हि तस्य सहकारिभिः कश्चिदुपकारः क्रियेत तदा स्यात् सहकारिसव्यपेक्षता यावता नित्यत्वात् परैरनाधेयातिशयस्य न किञ्चित् तस्य सहकारिभ्यः प्राप्तव्यमस्ति किमिति तत् तथाभूतान् अनुपकारिणोऽपेक्षेत ? किञ्च तेऽपि सहकारिणः ५ किमिति सततं न सन्निहिता भवन्ति यदि तज्जन्याः ? अपरस्वसन्निधिहेतुसहकारिवैकल्यादिति नोत्तरम्, तेषामपि तत्संनिधिसहकारिणां तदायत्तोत्पत्तीनां तदैव सन्निधिप्रसक्तेः कथमसिद्धता हेतोः ? अथ नित्यत्वे तद्बुद्ध्यादिकं सहकारिकारणमुत्पाद्य पश्चादङ्कुरादिकार्यमुपजनयतीत्यभ्युपगमस्तर्ह्यपरापरसहकारिजनने एवोपक्षीणशक्तित्वात् तस्य नाङ्कुरादिकार्यजननम् । अथातजन्या एव धर्माऽधर्मादिसहकारिणः अतोऽयमदोषः; नन्वेवं तैरेव 'अचेतनोपादानत्वात्' इति हेतुरनैकान्तिकः १० स्यात्, अतस्तदायत्तसंनिधयो धर्मादिसहिकारिण इति नाविकलकारणत्वाख्यो हेतुरसिद्धः । न चानैकान्तिकोऽपि, अविकलकारणत्वहानिप्रसङ्गात्, अविकलकारणस्याप्यनुत्पत्तौ सर्वदेवानुत्पत्तिप्रसङ्गाच्च विशेषाभावात् । एतेन यदपि उद्योतकरेणोक्तम् - " यद्यपि नित्यमीश्वराख्यं कारणमविकलं भावानां सन्निहितं तथापि न युगपदुत्पत्तिः, ईश्वरस्य बुद्धिपूर्वकारित्वात् । यदि हीश्वरः सत्तामात्रेणैवाऽबुद्धिपूर्व भावानामुत्पादकः स्यात् तदा स्यादेतच्चोद्यम्; यदा तु बुद्धिपूर्व करोति १५ तदा न दोषः तस्य स्वेच्छया कार्येषु प्रवृत्तेः, अतोऽनैकान्तिकतैव हेतोः” [ ] इति, तदपि निरस्तम् ; न हि कार्याणां कारणस्येच्छाभावाभावापेक्षया प्रवृत्ति-निवृत्ती भवतः येनाऽप्रतिबद्धसापीश्वराख्ये कारणे सदा सन्निहिते तदीयेच्छाऽभावाद् न प्रवर्तेरन्, किं तर्हि कारणगतसामर्थ्यभावाभावानुविधायिनो भावाः । तथाहि इच्छावतोऽपि कर-चरणादिव्यापाराक्षमात् कुलालादेरसमर्थाद् नोत्पद्यन्ते घटादयो भावाः, समर्थाच्च बीजादेरनिच्छावतोऽपि समुत्पद्यमाना उपलभ्यन्तेऽङ्कु- २० रादयः । तत्र यदीश्वराख्यं कारणं कार्योत्पादकालवदप्रतिहतशक्ति सदैवावस्थितं भावानां तत् किमिति तदीयामनुपकारिणीं तामिच्छामपेक्षन्ते येनोत्पादकालवद् युगपन्नैवोत्पद्येरन् ? एवं हि तैरविकलकारणत्वमात्मनो दर्शितं भवेत् यदि युगपद् भवेयुः । न चापीश्वरस्य परैरनुपकार्यस्य काचिदपेक्षाऽस्ति येनेच्छामपेक्षेत । न च बुद्धिविशेषव्यतिरेकेणापरेच्छा तस्य संभवति । बुद्धिश्वेश्वरस्य यदि नित्या व्यापि कैका चाऽभ्युपगम्येत तदा सैवाऽचेतनपदार्थाधिष्ठात्री २५ भविष्यतीति किमपरतदाधारेश्वरात्मपरिकल्पनया ? अथानाश्रितं तज्ज्ञानं न संभवतीति तदात्मपरिकल्पना; ननु तदात्माऽप्यनाश्रितो न संभवतीति अपरापराश्रयपरिकल्पनयाऽनन्तेश्वरप्रसङ्गः । अथ द्रव्यत्वात् तस्यानाश्रितस्यापि सद्भावः न बुद्धेः गुणत्वात् इति नायं दोषः । ननु कुतस्तस्या गुणत्वम्? तत्र समवेतत्वादिति नोत्तरम्, तस्यैवानिश्चयात् । तदाधेयत्वात् तस्याः तत्समवेतत्वमिति चेत्, ननु केनैतत् प्रतीयते ? न तावदीश्वरेण तेनात्मनः ज्ञानस्य चाऽग्रहणात् 'इदमत्र समवेतम्' ३० इति तस्य प्रतीतेरयोगात् । तज्ज्ञानस्य तत्र समवेतत्वमेव तद्ग्रहणमित्यपि नोत्तरम्, अन्योन्यसंश्रयात् - सिद्धे हि 'इदमत्र' इति ग्रहणे तत्र समवेतत्वसिद्धिः, अस्याश्च तद्ग्रहणसिद्धिरित्यन्योन्याश्रयः । तन्नेश्वरस्तज्ज्ञानमात्मनि समवेतमवैति यश्चात्मीयमपि ज्ञानमात्मनि व्यवस्थितं न वेत्ति स सर्वजगदुपादान - सहकारिकारणादिकमवगमयिष्यतीति कः श्रद्धातुमर्हति ? नापि तज्ज्ञानमवैति 'स्थाणावहं समवेतम्' इति, तेनात्मनोऽवेदनात् आधारस्य च । न च तद्ग्रहणे 'इदं मम रूपमत्र स्थितम्' इति ३५ प्रतीतिः संभवति । न च तत् आत्मानमप्यवैति, अस्वसंविदितत्वाभ्युपगमात् । न चापरं तद् ग्राहकं नित्यं ज्ञानं तस्येश्वरस्यापि संभवति - येनैकेन सकलं पदार्थजातमवगमयति, अपरेण तु तज्ज्ञानम् - समानकालं यावद्द्रव्यभाविसजातीयगुणद्वयस्यान्यत्रानुपलब्धेस्तत्रापि तत्कल्पनाऽसंभवात् । तत्कल्पने वाऽकर्तृकमङ्कुरादिकार्य किं न कल्प्येत ? अस्तु वा तत्र यथोक्तं ज्ञानद्वयम् तथापि तयोर्ज्ञानयोरन्यतरेण स्वग्रहणविधुरेण न स्वाधारस्य, न सहचरस्य ज्ञानस्य, नाप्यन्यस्य गोचरस्य ग्रहणम् । तथाहि - ४० यत् स्वग्रहण विधुरं तन्नान्यग्रहणम्, यथा घटादि, स्वग्रहणविधुरं च प्रकृतं ज्ञानम्, ततोऽनेन सहचरस्याग्रहणात् कथं तेनास्य ग्रहणम् ? तेनापि ग्रहणविरहितेनाऽस्य वेदने तदेव वक्तव्यम् इति न कस्यचिद् ग्रहणम् इति न तत्समवेतत्वेन तद्बुद्धेर्गुणत्वम्, नापि तदाधारस्य द्रव्यत्वं सिद्धिमुपग १ उक्तमेतद् न्यायवार्तिके " तत्खाभान्यात् सततप्रवृत्तिः इति चेत्” इति पक्षस्य चर्चांवसरे पृ० ४६३ पं० ७ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy