SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १२६ प्रथमे काण्डेन्तव्यः। तथाहि-शानादीनामुत्पत्तावात्मा समवायिकारणम्, आत्म-मनःसंयोगोऽसमवायिकारणम. शरीरादि निमित्तकारणम् न च कारणत्रयाभावे परेण कार्योत्पत्तिरभ्युपगम्यते । न चाऽस वायिकारणात्म-मनःसंयोगादिसद्भाव ईश्वरेऽभ्युपगत इति न ज्ञानादेरपि तत्र भावः। __ अथासमवायिकारणादेरभावेऽपि तत्र ज्ञानाद्युत्पत्तिस्तर्हि निमित्तकारणेश्वरव्यतिरेकेणारादेः ५किमिति नोत्पत्तिर्युक्ता ? अथ शानाद्यभावे तदनधिष्ठितानां कथमचेतनानां तदुपादानादीनां प्रवृत्तिः वास्यादिवदचेतनस्य चेतनानधिष्ठितस्य प्रवृत्त्यदर्शनात् ? प्रवृत्तावपि निरभिप्रायाणां देश-कालाऽऽकारनियमो न स्यात् , तदधिष्ठितस्यैव तस्य तन्नियतत्वदर्शनात् । नन्वेवं चेतनस्यापि चेतनान्तरानधिष्ठितस्य कर्मकरादेरिव स्वाम्यनधिष्ठितस्य कथं प्रवृत्तिः ? अथ स्वामिन एवान्यानधिष्ठितस्य चेतनस्य प्रवृत्तिरुपलभ्यते, किमङ्करादेरकृष्टोत्पत्तेरुपादानस्य तदनधिष्ठितस्य सा नोपलभ्यते ? अथ १० घटादेरुपादानस्य तदनधिष्ठितस्य तत्करणे प्रवृत्तिर्नोपलभ्यत इत्यङ्कुरायुपादानस्यापि तदधिष्ठितस्यैव सा प्रसाध्यते तर्हि कर्मकरादेरपि स्वाम्यनधिष्ठितस्य सा नोपलभ्यत इति स्वामिनोऽप्यपरचेतनान्तराधिष्ठितस्य सा साध्यताम् । यदि पुनः स्वामिनोऽप्यधिष्ठाता चेतनो महेशः परिकल्प्यते तर्हि तस्याप्यपर इत्यनवस्था। ने च चेतनस्याप्यपरचेतनाधिष्ठितस्य प्रवृत्त्यभ्युपगमे 'अचेतनं चेतनाधिष्ठितम्' इति प्रयोगे १५'अचेतनम्' इति धर्मिविशेषणस्य 'अचेतनत्वादेः' इति हेतोश्चाव्यर्थमुपादानम्, अचेतनवचेतनस्यापि चेतनाधिष्ठितस्य प्रवृत्त्यभ्युपगमे व्यवच्छेद्याभावात् । न चाचेतनानामपि स्वहेतुसन्निधिसमासादितोत्पत्तीनां चेतनाधिष्ठातृव्यतिरेकेणापि देश-कालाऽऽकारनियमोऽनुपपन्नः, तन्नियमस्य स्वहेतुबलायातत्वात्; अन्यथाऽधिष्ठातृशानकृतोऽपि स न स्यात्। तज्ज्ञानस्य सर्वाऽचेतनाधिष्ठायकत्वे क्षणिकत्वे च-तज्ज्ञेयत्वमेव तदधिष्ठितत्वम्-तेषां सर्वकालभाविकार्ये तदैव प्रवृत्तिरिति एकक्षण २०एवोत्तरकालभाविकार्योत्पत्तिप्रसङ्गः, अपरक्षणेऽपि तथाभूततज्ज्ञानसद्भावे पुनरप्यनन्तरकालकार्योत्पत्तिः सदैव, इति योऽयं क्रमेणाङ्कुरादिकार्यसद्भावः स विशीर्येत । कतिपयाचेतनविषयत्वे च तज्ज्ञानादेः तदविषयाणां स्वकार्ये प्रवृत्तिर्न स्यात् इति तत्कार्यशून्यः सकलः संसारः प्रसक्तः, न हि तनानादिविषयत्वव्यतिरेकेणापरं तेषां तदधिष्ठितत्वं परेणाभ्युपगम्यते। अथ नित्यं तज्ज्ञानादि: नन्वेवं 'क्षणिकं ज्ञानम् , अस्मदादिप्रत्यक्षत्वे सति विभुद्रव्यविशेषगुणत्वात् , शब्दवत्' इत्यत्र प्रयोगे २५महेशज्ञानेन हेतोय॑मिचारः। अथ 'तज्ज्ञानादिव्यतिरेके सति' इति विशेषणान्नायं दोषः, न: विपक्षविरुद्ध विशेषणं हेतोस्ततो व्यावर्तकं भवति; अन्यथा तद्यावर्तकत्वायोगात्। न चाक्षणिकत्वेन तद्यतिरिक्तत्वं विरुद्धम्, द्विविधस्यापि विरोधस्यानयोरसिद्धः । न च विपक्षाविरुद्ध विशेषणोपादानमात्रेण हेतोय॑भिचारपरि हारः; अन्यथा न कश्चिद् हेतुर्व्यभिचारी स्यात्, सर्वत्र व्यभिचारविषये 'एतद्यतिरिक्तत्वे सति' इति ३०विशेषणस्योपादातुं शक्यत्वात् । न च नैयायिकमतेनाक्षणिकं ज्ञानं संभवति' "अर्थवत् प्रमाणम्" [वात्स्या०भा०पृ०१] इति वचनात् अर्थकार्य ज्ञानं तद्विषयमभ्युपगतम्, अर्थश्च क्रमभावी अतीतोऽनागतश्च । यश्च क्रमवज्ञयविषयं ज्ञानं तत् क्रमभावि, यथा देवदत्तादिशानं ज्वालादिगोच. रम्, क्रमवद्विज्ञेयविषयं चेश्वरज्ञानमिति स्वभावहेतुः। प्रसङ्गसाधनं चेदम् , तेनाश्रयासिद्धता हेतो शङ्कनीया । न च विपर्यये बाधकप्रमाणाभावाद् ३५व्याप्यव्यापकभावासिद्धेन प्रसङ्गसाधनावकाशोऽत्रेति वक्तव्यम् , तस्य भावात् । तथाहि-यदि क्रमवता विषयेण तद् ईश्वरज्ञानं स्वनिर्भासं जन्यते तदा सिद्धमेव क्रमित्वम् । अथ न जन्यते तदा प्रत्यासत्तिनिबन्धनाभावाद् न तद् जानीयात्, विषयमन्तरेणापि च भवतः प्रामाण्यमभ्युपगतं हीयेत, अतीतानागते विषये निर्विषयत्वप्रसङ्गादिति विपर्ययबाधकसद्भावः सिद्धः। तज्ज्ञानादेश्च नित्यत्वे तद्विषयत्वमन्तरेणापरस्य चेतनाधिष्ठितत्वस्याभावादविकलकारणस्य ४० जगतो युगपदुत्पत्तिप्रसङ्गः । तथाहि-यद् अविकलकारणं तद् भवत्येव, यथाऽन्त्यावस्थाप्राप्तायाः सामग्या अविकलकारणो भवनडरः, अविकलकारणं च सर्वदा सर्वमीश्वरज्ञानादिहेतुकं जगत् इति १ अत्र स्थले प्रमेयकमलमार्तण्डे एतादृशः पाठः-"चेतनस्यापि अपरचेतनाधिष्ठितस्य प्रवृत्त्यभ्युपगमे च 'अचेतनं चेतनाधिष्ठितम्' इत्यत्र प्रयोगे 'अचेतनम्' इति धर्मिविशेषणस्य 'अचेतनत्वात्' इति हेतोश्चाऽपार्थकत्वं व्यवच्छेद्याभावातू"पृ० ७८ प्र०, पं० १३। २ पृ० १.१ पं० २५। ३-श्च व्यर्थ-वा०, बा० विना ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy