SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ईश्वरस्वरूपवादः। १२५ नसप्रदेशेऽग्निसहचरितमुपलब्धं धूममात्रं गिरिशिखरादावुपलभ्यमानमग्निविरुद्धधर्माध्यासितोदकगमकं युक्तम् , अतिप्रसङ्गात् । यच्चोक्तम् 'पूर्वोक्तविशेषणानां धर्मिविशेषरूपाणां व्यभिचारात्' इत्यादि, तदप्यसङ्गतम्; यादग्भूतं हि कार्यत्वं घटादावनीश्वरादिधर्मोपेतबुद्धिमत्कारणत्वेन व्याप्तमुपलब्धं तादृग्भूतं तदन्यत्रापि जीर्णप्रासादादावुपलभ्यमानमक्रियादर्शिनोऽपि तथाभूतकर्तृपूर्वकत्वप्रतिपत्तिं जनयति । न च तत्र केनचिदनीश्वरत्वादिधर्मेण व्यभिचारः कदाचित् केनाऽ. ५ प्युपलभ्यते। तथाभूतसाध्यव्याप्तहेतूपलम्भ एव तत्र तव्यभिचारः, स चेदस्ति कथमनीश्वरत्वादिधर्माणां व्यभिचारादसाध्यत्वं सचेतसा वक्तुं युक्तम्; अन्यथा धूमादग्निप्रतिपत्तावपि भास्वररूपसंबन्धादिधर्माणां व्यभिचारात् तथाभूतस्याग्नेरसाध्यत्वं स्यात् । एतेन 'पूर्वस्माद्धेतोः स्वसाध्यसिद्धावुत्तरेण पूर्वसिद्धस्यैव साध्यस्य किं विशेषः साध्यते, आहोस्वित् पूर्वहेतोः स्वसाध्यसिद्धिप्रतिबन्धः क्रियते'? इत्यादि सर्व निरस्तम्, यतो यदि कार्यत्वमात्रं हेतुत्वेन क्षित्यादौ १० साध्यसाधकत्वेनोपादीयते तदा तस्य संदिग्धविपक्षव्यावृत्तिकत्वेन बुद्धिमत्कारणपूर्वकत्वाऽसाधकत्वम् । अथ घटादौ बुद्धिमत्कारणत्वेन व्याप्तं यत् कार्यत्वं तत् तत्र हेतुत्वेनोपादीयते, तत् तत्रासिद्धमिति कथं तत् तत्र बुद्धिमत्कारणत्वस्यापि गमकम् ? इत्य विशिष्टस्य कार्यत्वस्य व्याय. भावादेवापरविशेषसाधकहेतुव्यापारमन्तरेणाऽपि कार्यत्वस्य हेतोः स्वसाध्यसाधकत्वव्याघातः संभवत्येव, कार्यत्वविशेषस्य तु तत्रासिद्धत्वादेव साध्यासिद्धिलक्षणस्तद्विघातः। १५ यत्तु 'शब्दस्य कृतकत्वादनित्यत्वसिद्धौ हेत्वन्तरेण गुणत्वसिद्धावपि न पूर्वस्य क्षतिः' इति, तदप्यचारु; गुणत्वं हि द्रव्याश्रितत्वादिधर्मयुक्तत्वमुच्यते, तञ्चेच्छब्दे सिद्धिमासादयति तदा पूर्वहेतुसाधितमनित्यत्वं तत्र व्याहन्यत एव; न ह्यनुत्पन्नस्य तस्याऽसत्त्वादेव द्रव्याश्रितत्वम् गुणत्वसमवायो वा संभवति उत्पन्नस्याप्युत्पत्त्यनन्तरध्वंसित्वेन तन्न संभवति । न च तदाश्रितस्य उत्पत्त्या दिकमेव तत्, खरविषाणादेरपि तत्त्वप्रसङ्गादित्यादि आश्रयादावसिद्धत्वं हेतोः प्रतिपाद-२० यद्भिर्निर्णीतमिति न पुनरुच्यते । सर्वथोत्पादककारणव्यक्तिव्यतिरिक्तस्य क्षणमात्रस्थितेर्गुणत्वं न संभवति तत्संभवे च क्षणिकत्वं व्याहन्यत इति प्रतिपादयिष्यामः । द्वितीये तु विकल्पे 'न च धर्मिविशेषविपर्ययोद्भावनेन कस्यचिदपि रूपस्याभावः कथ्यते' इति यदुक्तम् , तदप्यसङ्गतम्। यतो यद्यन्याहशस्य धर्मिणः कुतश्चिद्धेतोः क्षित्यादी सिद्धिः स्यात् तदा युज्येताऽपि वक्तुम्धर्मिविशेषविपर्ययोद्भावनेन न कस्यचिद्धेतुरूपस्याभाव इति, तथाभूतँस्य तु धर्मिणो न प्रकृतसा-२५ धनादवगम इति प्रतिपादितम् । अत एवागमादू हेत्वन्तराद् वा न तत्र विशेषसिद्धिः, बुद्धिमकारणस्यैव धर्मिणः क्षित्यादिकर्तृत्वेनासिद्धत्वात् । ततः 'तच्चाऽन्वयव्यतिरेकिपूर्व केवलव्यतिरे. किसंज्ञकं तदेव चान्वयव्यतिरेकिलक्षणं पक्षधर्मताप्रसादाद् विशेषसाधनम्' इति प्रतिपादनं दुरापास्तम्, धर्म्यसिद्धौ तद्विशेषसिद्धेर्दरोत्सारितत्वात् । अत एव 'य इत्थम्भूतस्य पृथिव्यादेः कर्ता नियमेनाऽसावकृत्रिमज्ञानसंबन्धी शरीररहितः सर्वज्ञ एक इत्येवं यदा विशेषसिद्धिस्तदा ३० न विशेषविरुद्धानामवकाशः' इति निःसारतया व्यवस्थितम् ।। ____यत्तूक्तम् 'शरीरसंबन्धस्य तावद् व्याप्त्यभावेन तत्र निराकृतिः, शरीरान्तररहितस्याऽप्यात्मनः शरीरधारण-प्रेरणक्रियासु यथा व्यापारस्तथेश्वरस्यापि क्षित्यादिकार्ये' इति, तदप्ययुक्तम् ; अपरशरीररहितत्वेऽप्यात्मनः शरीरसंबद्धस्यैव तद्धारणादिकर्तृत्वोपलब्धेरीश्वरस्यापि शरीरसंबद्धस्यैव कार्यकर्तृत्वमभ्युपगन्तव्यमिति प्रतिपादितत्वात् । यदि च शरीरसंबन्धाभावेऽपि तस्य क्षित्यादि-३५ कार्यकर्तृत्वं तदा वक्तव्यम्-किं पुनस्तत् तत्र ? ज्ञान-चिकीर्षा-प्रयत्नानां समवायः तत् तत्रोक्तमेवेति चेत्, न; समवायस्य निषिद्धत्वात् । न च कुम्भकारादौ शरीरसंबन्धव्यतिरेकेणाऽन्यत् कर्तृत्वमपलब्धमितीश्वरेऽपि तदेव परिकल्पनीयम् , दृष्टानुसारित्वात् कल्पनायाः। न च शरीरव्यतिरेकेण ज्ञान-चिकीर्षा-प्रयत्नानामपि सद्भावः क्वचिदप्युपलब्ध इति नेश्वरेऽपि तद्भावेऽसावभ्युपग १ पृ० ९७ पं. २। २ पृ. ९७ पं० ८। ३ पृ. ९७ पं० १० । ४-णव्यतिरिक्तस्य वा०, बा० । ५ पृ० ९७ पं० १३। ६ धर्मविशेषस्य वि-वा०, बा० । ७-तस्य ध-वा०, बा०। ८ पृ. ९-पूर्वकेव-वा०, बा०, हा०। १० पृ. ९७ पं० २९ । ११ पृ. ९८ पं० २। १२ पृ० ११६ पं० २५-३१ । १३ पृ. १०६ पं० १.।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy