SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १२४ प्रथमे काण्डेसर्वस्य कार्य कारणं च स्यात्, न क्वचिद् कार्यकारणभावव्यवस्था; अन्वय-व्यतिरेकानुविधा हि कार्यकारणभावव्यवस्थानिबन्धनम्, तदभावेऽपि कार्यकारणभावं कल्पयतः किमन्यत् तद्यकस्थानिबन्धनं स्याद् इति ? अतोऽतिव्याप्तिपरिहारेण क्वचिदेव कार्यकारणभावव्यवस्थामिच्छता तदभावे कार्यकारणभावो नाभ्युपगन्तव्य इत्यन्वयव्यतिरेकानुविधानेन कार्यकारणभावो व्याप्तः, ५स यत्रोपलभ्यते तत्रान्वय-व्यतिरेकानुविधानसंनिधापनेन तदभावं बाधत इत्यनुमानसिद्धो व्यतिरेकः; तत्सिद्धेश्चान्वयोऽपि सिद्धः । तथाहि-य एवं सर्वत्र साध्याभावे साधनाभावलक्षणो व्यतिरेकः स एव साधनसद्भावेऽवश्यंतया साध्यसद्भावस्वरूपोऽन्वय इति व्यापकानुपलब्धेः पक्षधर्मत्वान्वयव्यतिरेकलक्षणः साध्याव्यभिचारः प्रमाणतः सिद्धः । न चैवं कार्यत्वादेरयमविनाभावः संभवति, पक्षव्यापकत्वे सत्यन्वय-व्यतिरेकयोरभावस्य विपर्यये बाधकप्रमाणाभावतः प्रतिपा १० दितत्वात्। __ अपि च, बुद्धिमत्कारणत्वे तन्वादीनां साध्ये तद्विपर्ययोऽबुद्धिमत्कारणाः परमाण्वादयः, न च तेभ्यो बुद्धिमत्कारणसाध्यव्यावृत्तिनिमित्तकार्यत्वादिनिवृत्तिप्रतिपादकप्रमाणप्रवृत्तिः सिद्धा, घटादेरवयवित्वनिराकरणेन विशिष्टावस्थाप्राप्तपरमाणुरूपत्वात् । न च तेभ्यो बुद्धिमत्कारणव्यावृत्तिकृता कार्यत्वव्यावृत्तिः प्रत्यक्षतः सिद्धा, बुद्धिमत्कारणनिमित्तकार्यत्वग्राहकत्वेन प्रत्यक्षस्य प्रत्य१५क्षानुपलम्भशब्दवाच्यस्य तत्र प्रवृत्तेः, परमाण्वन्तरासंसृष्टपरमाणूनां च प्रत्यक्षबुद्धावप्रतिभासनान ततः साध्यव्यावृत्तिप्रयुक्ता साधनव्यावृत्तिप्रतिपत्तिः। नाप्यबुद्धिमत्कारणेषु कार्यत्वादेरदर्शनात् साकल्येन ततो व्यतिरेकसिद्धिः, स्वसंबन्धिनोऽदर्शनस्य परचेतोवृत्तिविशेषैरनैकान्तिकत्वात् सर्वसंबन्धिनोऽसिद्धत्वात् ; न ततो विपक्षाद्धेतोाल्या व्यतिरेकसिद्धिः। नाऽपि परमाण्वादीनामनुमानान्नित्यत्वसिद्धेरकार्यत्वस्य कार्यत्वविरुद्धस्य तेषु सद्भावात् ततो व्यावर्तमानः कार्यत्वल२०क्षणो हेतुर्बुद्धिमत्कारणत्वेनाऽन्वितः सिध्यति, कार्यत्वस्याबुद्धिमत्कारणत्वेन विरोधासिद्धेरङ्कुरादिष्वबुद्धिमत्कारणनिष्पाद्येष्वपि तस्य संभवात् । अथ नित्येभ्योऽकृतत्वादेव कार्यत्वं व्यावृत्तम्, उत्पत्तिमतां चारादीनां बुद्धिमत्कारणपूर्वकत्वेन पक्षीकृतत्वान्न तैर्हेतोय॑भिचार आशङ्कनीय इति तेषु वर्तमान कार्यत्वलक्षणो हेतुर्बुद्धिमत्कारणत्वेनान्वितः सिद्धः। स्यादेतत् यदि पक्षीकरणमात्रेणैवाऽबुद्धिमत्कारणत्वाभावस्तेषु सिद्धः स्यात्, तथाऽभ्युपगमे वा पक्षीकरणादेव साध्यसिद्धेहे२५ तूपादानं व्यर्थम् । अथ तत्सहितात् साध्यनिर्देशात् तदभावसिद्धिः, कथं साकल्येनाऽनिश्चितव्यतिरेकात् कार्यत्वान्नित्यव्यतिरिक्तानां सर्वेषामङ्कुरादीनामबुद्धिमत्कारणत्वाभावसिद्धिः? तदभावासिद्धौ च न साकल्येन व्यतिरेकनिश्चय इति इतरेतराश्रयदोषः कथं न स्यात् ? तदेवं व्याप्त्या व्यतिरेकासिद्धौ न साकल्येनान्वयसिद्धिः, तदसिद्धौ च न व्यतिरेकसिद्धिरिति न कार्यत्वादेहेतोः प्रकृतसाध्यसाधकत्वम् । न च सर्वानुमानेष्वेष दोषः समानः, अन्यत्र विपर्यये बाधकप्रमाणबला३० दन्वय-व्यतिरेकसिद्धेः । न च प्रकृते हेतौ तदस्तीत्यसकृदावेदितम् । तेन 'साध्याभावे हेतोरभावः स्वसाध्यव्याप्तत्वादेव सिद्धः' इति निरस्तम्, यथोक्तप्रकारेण स्वसाध्यव्याप्तत्वस्य प्रकृतहेतोरसंभवात्। 'नाऽपि धर्म्यसिद्धर्ता' इति, एतदपि निरस्तम्; धर्म्यसिद्धत्वस्य प्राक् प्रतिपादितत्वात् । 'कार्यकारणसङ्घात' इत्यादिकस्तु ग्रन्थोऽयुक्तत्वेन प्रतिपादितः । अत एवेश्वरावगमे प्रमाणाभावः, तत्प्रतिपादकप्रमाणस्य समानदोषत्वेनान्यस्याऽप्यचेतनोपादानत्वादेर्निराकृतत्वात्। ३५ यश्चोक्तम् 'नाऽपि हेतोर्विशेषविरुद्धता' इत्यादि, तदप्यसङ्गतम् ; यतो यदि कार्यमात्रात् कारणमात्रं तन्वादेः साध्यते तदा व्याप्तिसिद्धेन विरुद्धावकाशः । अथ बद्धिमत्कारणपर्वकत्वं साध्यते तदा तत्र व्याप्तेरसिद्धत्वं प्रतिपादितमेव । यदि पुनर्घटादौ कार्यत्वं बुद्धिमत्कारणसहचरितमुपलब्धमिति पृथिव्यादावपि तत् साध्यते; तथा सति दृष्टान्तेऽनीश्वराऽसर्वश-कृत्रिमशानशरीरसंबन्धिकर्तृपूर्वकत्वं कार्यत्वस्योपलब्धमिति ततस्तादृग्भूतमेव क्षित्यादौ सिद्धिमासादयति ४० न तु तत्सहचरितत्वेनाऽष्टमीश्वरत्वादिविरुद्धधर्मकलापोपेतबुद्धिमत्कारणपूर्वकत्वम् ; न हि महा १-व पूर्वत्र सा-वा०, वा०। २-धकसद्भा-वा०, वा०। ३-द्धिः ? तदसिद्धौ च वा०, बा० । ४ प्र० पृ० पं० १२। ५ पृ० ९६ पं० ३३ । ६ पृ. ९६ पं० ३५। ७ पृ० १०२ पं० ११। ८ पृ. ९६ पं० ३५। ९पृ० ९६५३८ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy