SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ईश्वरस्वरूपवादः। १११ द्रव्यादेः स्वतः सत्त्वबाधनमित्याशङ्का न निवर्तते-'किं द्रव्यादिसंबन्धात् सत्ता सती किं वा तया द्रव्यादिकं सत्' इति । तन्न सत्तातः तन्वादेः सत्त्वम् , तस्या एवासिद्धत्वात् ।। {सत्ताप्रत्यक्षादिप्रमाणसिद्धत्वात् सत्तायाः प्रत्यक्षबाधितविषयत्वेन एवमुपन्यस्यमानस्य प्रसङ्गसाधनस्यानवकाशः। न च द्रव्यप्रतिभासवेलायां प्रत्यक्षबुद्धौ परिस्फुटरूपेण व्यक्तिविवेकेन सत्ता न प्रतिभातीति शक्यं वक्तुम् , अनुगताकारस्य व्यावृत्ताकारस्य च प्रत्यक्षानुभवस्य संवेदनात् । न चानु- ५ गत-व्यावृत्तवस्तुव्यतिरेकेण याकारा बुद्धिर्घटते । न हि विषयव्यतिरेकेण प्रतीतिरुत्पद्यते, नीलादिस्वलक्षणप्रतीतेरपि तथाभावप्रसङ्गात् । अथ तैमिरिकस्य बाह्यार्थसन्निधिव्यतिरेकेणापि केशोण्डुकादिप्रतीतिरुदेति तथैवानुगतरूपमन्तरेणापि भिन्नवस्तुष्वनुगताकारा बुद्धिरुदेष्यतीति न ततः सत्ताव्यवस्था, तदयुक्तम् ; तैमिरिकप्रतीतौ हि प्रतिभासमानस्य केशोण्डुकादेर्बाधक-कारणदोषपरिज्ञानादतत्त्वम् ; सत्तादर्शने तु न बाधकप्रत्ययोदयः नापि कारणदोषपरिज्ञानमिति न तद्राहिणो विज्ञानस्य मिथ्यात्वम्। १० तथाहि-विभिन्नेष्वपि घट-पटादिष्वर्थेषु 'सत् सत्' इति अभेदमुल्लिखन्ती प्रतीतिरुदयमासादयति; न चासौ कालान्तरादौ विपर्ययमुपगच्छन्ती लक्ष्यते, सर्वदा सर्वेषां घट-पटादिषु 'सत् सत्' इति व्याहृतेः । व्यवहारमुपरचयन्ती च प्रतीतिः परैरपि प्रमाणमभ्युपगम्यते । यथोक्तं तैः-"प्रामाण्यं व्यवहारेण" [ ] इति । तदेवमवस्थितम्-अनुगताकारा हि बुद्धिावृत्तरूपप्रतीत्यनधिगतं साधारणरूपमुल्लिखन्ती मु(सु)परिनिश्चितरूपा बाधाऽयोगात् प्रमाणम् । सा च अक्षान्वय-व्यतिरेका-१५ नुसारितया प्रत्यक्षम् । तथाहि-विस्फारितलोचनस्य घट-पटादिषु रूपमारूढां सत्तामुल्लिखन्ती 'सत् सत्' इति प्रतीतिः, तदभावे च न भवतीति तदन्वय-व्यतिरेकानुविधायितया कथं न प्रत्यक्षम् ? तस्माद् बहुषु व्यावृत्तेषु तुल्याकारा बुद्धिरेकतामवस्यति । यश्चात्र विभिन्नेषु घटादिषु प्रतिनियतमेकमनुगतस्वरूपं सैव जातिः। अथ व्यक्तिव्यतिरिक्ता जातिरुपेयते न च व्यक्तिदर्शनवेलायां तद्रूपसंस्पर्शविषयव्यतिरिक्तवपुर-२० परमनुगतिरूपं प्रतिभाति तत् कथं तत् सामान्यम् ? नैतदस्ति; यस्मादगृहीतसङ्केतस्यापि तनुभृतः प्रथममुद्भाति वस्तु द्वितीये तुल्यरूपतामनुसरति बुद्धिः क्वचिदेव न सर्वत्र । प्रतिपत्त्यन्यता च सर्वत्र धन तुल्यदेश-कालेऽपि रूप-रसादौ च, प्रतिपत्त्यन्यता जातावपि विद्यत इति कथं न सा भिन्नाऽस्ति ? तथाहि-व्यत्याकारविवेकेन विशदमनुगतिरूपता भाति तद्विवेकेन च व्यावृत्तरूपतेति कथं व्यक्तिस्वरूपाद् भिन्नावभासिनी जातिर्भिन्ना नाभ्युपगमविषयः? अथैकेन्द्रियावसेयत्वाद् जाति-व्यक्त्योरेकता रूप-रसादौ तु भिन्नेन्द्रियग्राह्यत्वाद् भेदः, तदप्यसङ्गतम् । यत एकेन्द्रियग्राह्यमपि वाताऽऽतपादिकं समानदेशं च भिन्नं प्रतिभातीति भिन्नवपुरभ्युपेयते तथा प्रतिनियतेन्द्रियविषयमपि जाति-व्यक्तिद्वयं भिन्नम् : भिन्नप्रतिभासादेव । तथाहिघटमन्तरेणापि पटग्रहणे 'सत् सत्' इति पूर्वप्रतिपन्ना सत्ताऽवगतिर्दृष्टा; यदि तु व्यक्तिरेव सती न तत्सत्त्वाप तद्व्यतिरिक्ता च, तथा सति व्यक्तिरूपवत् तदननुगतिरपि व्यक्त्यन्तरे प्रस-३० ज्येत । प्रतीयते च सद्पता युगपद् घट-पटादिषु परस्परविविक्ततनुष्वपि सर्वदा। तेनैकरूपैव जातिः, प्रत्यक्षे तथाभूताया एव तस्याः प्रतिभासनात्: शब्द-लिङ्गयोरपि तस्यामेव संबन्धग्रहणमिति ताभ्यामपि सा प्रतीयते । तदेवं प्रत्यक्षादिप्रमाणावसेयत्वात् सत्तायाः न तन्निराकरणाय प्रसङ्गसाधनानुमानप्रवृत्तिरिति ।} असदेतत् । यतो न व्यक्तिदर्शनवेलायां स्वरूपेण बहिर्लाह्याकारतया प्रतीतिमवतरन्ती जातिरुद्भाति, नहि घट-पटवस्तुद्वयप्रतिभाससमये तदैव तयवस्थितमूर्तिर्भिन्नाऽभिन्ना वा जातिराभाति, तदाकारस्यापरस्य ग्राह्यतया बहिस्तत्राप्रतिभासनात् । बहिर्ग्राह्यावभासश्च बहिरर्थव्यवस्थाकारी, नान्तरावभासः। यदि तु सोऽपि तव्यवस्थाकारी स्यात्, तथा सति हृदि परिवर्त्तमानवपुषः सुखादेरपि प्रतिभासाद् बहिस्तयवस्था स्यात् । तथा च 'सुखाद्यात्मकाः शब्दादयः' इति साङ्ख्यदर्शनमेव स्यात् । अथ सुखा-४० दिराकारो बाह्यरूपतया न प्रतिभातीति न बहिरसौ, जातिरपि तर्हि न बहीरूपतया प्रतिभातीति न बहीरूपाऽभ्युपगन्तव्या, यतः कल्पनामतिरपि दर्शनदृष्टमेव घटादिरूपं बहिरुल्लिखन्ती तद्रिं च अन्तः १-क्षसामान्यबा-मां० । -क्षाबा-भा० । २-स्य च प्रत्य-वा०, बा० विना ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy