SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ११० प्रथमे काण्डेस्वाभावो नैरात्म्यव्यापको विरुद्धः, ततः प्राणादिमत्त्वभावात् तदभावो निवर्त्तते, वलिभावादिव' शीतम् , स च निवर्तमानः स्वव्याप्यं नैराम्यमादाय निवर्त्तते, यथा धूमाभावः पावकाभावमिति । दत्तमत्रोत्तरम्-यदि नैगम्याभावः सात्मको न भवेत् तदवस्थं नैराम्यमिति । भवतु तर्हि नैरात्म्य. निषेधः सात्मकः, तथा सति ‘सत्तासंबन्धात् प्राक तन्वादिर्ना (दि ना ) सत्' इति वचनात् तदा ५तस्य सत्त्वमुक्तम् , 'न सत्' इत्यभिधानादसत्त्वमिति विरोधः । ततोऽसदेव तदभ्युपगन्तव्यमिति न वन्ध्यासुतादेस्तनु-करणादेर्विशेषः । भवत्वेवं तथापि तन्वादेरेव सत्तासंबन्धात् सत्त्वम् न खरशृङ्गादेः तथादर्शनादिति चेत्, उक्तमत्र तथादर्शनोपायाभावादिति । [प्रासङ्गिक सत्तापदार्थनिरमनम् ] अपि च, सत्ताऽपि यदि असती कथं ततो वन्ध्यासुतादेरिवापरस्य सत्त्वम् ? सती चेद् यदि १० अन्यसत्तातः, अनवस्था । स्वतश्चेत्, पदार्थानामपि स्वत एव सत्त्वं स्यादिति व्यर्थ तत्परिकल्पनम। किच, यदि स्वत एव सत्ता सती उपेयने तदा प्रमाणं वक्तव्यम् । अथ स्वतः सत्ता सती-तत्संबन्धात् तन्वादीनां सत्त्वान्यथाऽनुपपत्तः-तान्योन्यसंश्रयः-तत्संबन्धात् तन्वादिसत्त्वे सिद्धे सत्तासत्त्व. सिद्धिः, ततस्तत्संबन्धात् तन्वादिमत्त्व सिद्धिरिति व्यक्तमितरेतगश्रयत्वम् । अथ सत्ता स्वतः सती, सदभिधानप्रत्ययविषयत्वात्, अवान्तरसामान्यादिवत् : नः द्रव्यादिना व्यभिचार:-द्रव्यादिरपि १५'सद् द्रव्यम्, सन् गुणः, सत् कर्म इत्येवं सदभिधानप्रत्ययविषयो भवति, न चासौ परेण स्वतः सन्नभ्युपगतः सत्ताप्रकल्पनर्वफल्यप्रसङ्गात् । न च द्रव्यादी तद्विषयत्वं पगपेक्षं न सत्तायामिति वक्तुं युक्तम्, तस्यामपि तदपेक्षत्वसंभवात् । अथ तत्र तस्य तदपेक्षत्वे किं तदपरमिति वक्तव्यमः नन्वेतद् द्रव्यादावपि समानम् । तत्र सत्तेति चेत्, अत्रापि द्रव्यादिकम् इति तुल्यम-यथैव हि सत्तासंबन्धात् द्रव्यादिकं सत् न स्वतः तथा द्रव्यादिस्वरूपसत्त्वसंबन्धात् सत्ता सती न स्वतः। २० द्रव्यादेः स्वरूपसत्त्वं नास्ति तेनायमदोपः, तदस्तित्वे को दोष इति वाच्यम् । ननु तस्या (तस्य) स्वतः सत्वेऽवान्तरसामान्याभावप्रसङ्गो दोपः, ननु स्वतोऽसत्त्वे खरविषाणादेरिव सुतरां तेदभाव. दोषः। अपि च, यो हि तत्र सत्तासंबन्धं नेच्छति स कथमवान्तरसामान्यसंबन्धमिच्छेत् ? न चात्र प्रमाणं स्वतोऽसन्तो द्रव्यादयो नावान्तरसामान्यमिति । अथैतत्-द्रव्यादयो न स्वतः सन्तः, अवान्तरसामान्यवत्त्वात्, यत् पुनः स्वतः सत् न तद अवान्तरसामान्यवत्, यथा सामान्य-विशेष२५ समवाया इति व्यतिरेकी हेतुः, नैतत् : यदि हि द्रव्यादयो धर्मिणः कुतश्चित् प्रतीतिगोचर चारिणेत्सन्तो भवन्ति [सं कथमवान्तरसामान्यसंबन्धमिच्छेत् ? न चात्र प्रमाणं स्वतोऽसन्तो द्रव्यादयो नावान्तरसामान्यमिति । अथैतत्-द्रव्यादयो न स्वतः सन्तोऽवान्तरसामान्यवत्त्वात्, यत् पुनः स्वतः सत् न तदवान्तरसामान्यवत्, यथा] सामान्यप्रतीतिः सत्त्वं साधयन्ती स्वत इति प्रतिज्ञाम् तदसत्त्वविषयाबाधने चेद (चारिणस्सन्तो भवन्ति तदा कथं न तत्प्रतीतिः स्वतस्सत्वं ३०साधयन्ती'न स्वतस्सन्तस्ते' इति प्रतिज्ञां तदसत्त्वविषयां बाधते । न चेद) मत्रोत्तरम्-न स्वतः सन्तस्ते प्रतीतिविषयाः किन्तु सत्तासंबन्धादिति, यतो 'न स्वयमसन्तस्तत्संबन्धात् तद्विषया भवन्ति' इत्युक्तम् । किंच, द्रव्यादेरेकान्तेन यस्य भिन्नान्यवान्तरसामान्यानि कथं तस्य तानि स्युः यतोऽवान्तरसामान्यवत्त्वादिति हेतुः सिद्धः स्यात् ? अथ तथापि तस्याति (तस्येति), न; परस्परमपि स्युरिति सामान्यसमवायात् परिशेषवत् (सामान्य-समवाय-विशेषवत् ) इति वैधर्म्यनिदर्शनम३५ युक्तम । यदि मतम्-द्रव्यादौ तानि समवेतानि ततस्तस्य तानि न सामान्यादेविपर्ययादिति. तत्र सम्यकः 'तत्र समवेतानि' इति समवायेन संबद्धानीति यद्यर्थः, स न युक्तःः समवायस्य निषिद्धस्वान्निषेत्स्यमानत्वाच्च । भवतु वा समवायः तथापि यत्र द्रव्ये, गुणे, कर्मणि च द्रव्यत्वम्, गुणत्वम्, कर्मत्वं चाऽवान्तरसामान्यं तत्रैव पृथिवीत्वादीनि, रूपत्वादीनि, गमनत्वादीनि च तथाविधानि सामान्यानि, समवायोऽपि तत्रैव सामान्यवत् तस्य सर्वगतत्वाश्च द्रव्यादिवदन्योन्यसत्तानीति न १ पृ. १०९ पं० ३८। २ तन्वादिर्नाऽसन्निति व-वा०, बा. विना। ३ पृ. १०९ पं० १८। ४ पृ० १०९ ५०२। ५ तदभावा (वो) दोषः भां०। ६-तद् यथा सामा-मां०, भां०। [] एतच्चिह्रान्तर्गताः पतयः केनाऽपि कारणेन द्विरुक्ता जाता इति प्रतिभाति । ८ इति प्रति प्रतिज्ञा-गु०। ९-ज्ञातम् मां०। १०-षयं वाध-वा०, बा०। ११ तस्यापि वा०, बा० विना। १२ पृ. १०६ पं० १० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy