SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ईश्वरस्वरूपवादः। १०९ कार्य-कारणयोरुपलम्मे सति एतत् स्यात् इदमस्य कारणम् कार्य चेदमस्य' इति । न च परस्य तदुपलम्भः प्रत्यक्षतः, उपलम्भकारणमुपलम्भविषय इति नैयायिकानां मतम्-"अर्थवत् प्रमाणम्" [वात्स्या० भा०पृ०१, पं०२] इत्यत्र भाष्ये "प्रमात-प्रमेयाभ्यामर्थान्तरमव्यपदेश्याव्यभिचारिव्यवसायात्मकशाने कर्त्तव्येऽर्थः सहकारी विद्यते यस्य तद् अर्थवत् प्रमाणम्" [ ] इति व्याख्यानात् । न चाजनकं सहकारि, 'सह करोतीति सहकारि' इति व्युत्पत्तेः । न चासत् शशविषा- ५ णसमं शानस्यान्यस्य वा कारणम् , विरोधात् । अपि च, इन्द्रियार्थसन्निकर्षात् प्रत्यक्षं शानमुत्पत्तिमत्, कार्य-कारणादिना च इन्द्रियसन्निकर्षः संयोगः, सोऽपि कथं तेनासता जन्यते इति चिन्त्यम् । संयोगाभावे च रूपादिनेन्द्रियस्य संयुक्तसमवायः, रूपत्वादिना तु संयुक्तसमवेतसमवाय इति सर्व दुर्घटम् । एतेन द्रव्यत्वादिसामान्यसंबन्धोऽपि तस्य निरूपितः । तन्न तन्वादि विषयमध्यक्षम् । अत एव नानुमानमपि । तदेवं खरविषाणादिवत् कार्य-कारणादेरनुपलम्भान्न युक्तमेतत्-शरीरादेः१० कारणमस्ति, न शशशृङ्गादेरिति । ____ यदि पुनस्तनु-करणादिः सन् वन्ध्यासुतादिपरिहारेणेति मतिः, तत्र कुतः स एव सन् ? कारणसमवायात, सोऽपि कृतः? सत्त्वात, अन्योऽन्यसंश्रयः-तत्समवायात सत्यम अतश्च तत्समवाय इति । प्रागसतः सत्तासमवायात् स एव सन्निति चेत्, कुतः प्राकू? सत्तासमवायात्; ननु तत्समवायकाले प्रागिव स्वरूपसत्वविरहे 'प्राग्' इति विशेषणमनर्थकमित्यादि सर्व वक्तव्यम् । १५ असतश्च सत्तासमवाये खरशृङ्गादेरपि संभवेत् अविशेषात् । 'प्राग्' इति च विशेषणं शशशृङ्गादिव्यवच्छेदार्थ परेणोक्तम् , सत्तासंबन्धसमये च तन्वादेः स्वरूपसत्त्वाभावे कस्ततो विशेषः? अयमस्ति विशेषः-कर्मरोमादिकमत्यन्तासत्, इतरत् पुनः स्वयं न सत् नाप्यसत् अत एव सत्तासंबन्धात् 'तदेव सत्' इत्युच्यत इति, तदेतज्जडात्मनो भवतः कोऽन्यो भाषते । तथाहि-'न सत्' इतिवचनात् तस्य सत्तासंबन्धात् प्रागभाव उक्तः, सत्प्रतिषेधलक्षणत्वादस्य । 'नाप्यसत्' इत्यभिधानाद् भावः,२० असत्त्वनिषेधरूपत्वाद भावस्य रूपान्तराभावात् । तथैव वैयाकरणानां न्यायः-"द्वौ प्रतिषेधौ प्रकृतमर्थ गमयतः" [ ] इति, कथमन्यथा 'नेदं निरात्मकं जीवच्छरीरम् , प्राणादिमत्त्वात्' इत्यत्र नैरात्म्यनिषेधः सात्मकः सिध्येत् ? __ अत्र केचित् ब्रुवते-"नैवं प्रयोगः क्रियतेऽपि तु 'सात्मकं जीवच्छरीरम् , प्राणादिमत्त्वात्" इति । तैरप्येवं प्रयोगं कुर्वद्भिः सात्मकत्वाभावो नियमेन प्राणादिमत्त्वाभावेन व्याप्तोऽभ्युपगन्तव्यः-२५ अन्यथा व्यभिचाराशङ्का न निवर्तेत-तदभ्युपगमे चेदमवश्यं वक्तव्यम्-जीवच्छरीरे प्राणादिमत्त्वं प्रतीयमानं स्वाभावं निवर्त्तयति, स च निवर्तमानः स्वव्याप्यं सात्मकत्वाभावमादाय निवर्तते, इतरथा तेनासौ व्याप्तो न स्यात् । यस्मिन्निवर्तमाने यन्न निवर्त्तते न तेन तद् व्याप्तम् , यथा निवर्तमानेऽपि प्रदीपे अनिवर्तमानः पटादिन तेन व्याप्तः, न निवर्तते च प्राणादिमत्त्वाभावे निवर्तमानेऽपि सात्मकत्वाभाव इति । निवर्त्तते इति चेत्, तन्निवृत्तावपि यदि सात्मकत्वं न सिध्यति न तर्हि तद-३० भावो निवर्त्तते, सात्मकत्वाभावाभावेऽपि तदभावस्य तदवस्थत्वात् । सिध्यतीति चेत्, आयातमिदम्"द्वौ प्रतिषेधौ प्रकृतमर्थ गमयतः" [ ] इति । तथा चेदमपि युक्तम्-'नेदं निरात्मकं जीव. च्छरीरम् , प्राणादिमत्त्वात्' इति। ___ अन्ये तु मन्यन्ते-"अन्यत्र दृष्टो धर्मः क्वचिद्धर्मिणि विधीयते, निषिध्यते च" [ ] इति वचनात् केवलं घटादौ नैरात्म्यमप्राणादिमत्त्वेन व्याप्तं दृष्टम्, तदेव निषिध्यते जीवच्छरीरेऽप्रा-३५ णादिमत्त्वाभावेन, न पुनः सात्मकत्वं विधीयते; तस्यान्यत्रादर्शनात्" इति । तेषां घटादी नैरात्म्यं प्रतिपन्नं प्रतिषिध्यते इति भवतु सुक्तम, तथापि तन्निषेधसामर्थ्याद् यदि जीवच्छरीरे सात्मकत्वं न स्यात् न तर्हि तत्र तन्निषेधः-यदा हि नैरात्म्यनिषेधो न सात्मकः-किन्तु यथाऽऽत्मनोऽभावो नैरात्म्यं तथाऽस्याऽभावोऽपि तुच्छरूपः आत्मनोऽन्यत्वाद भङ्गयन्तरेण नैरात्म्यमेव, पुनस्तन्निषेद्धव्यम्, पुनरपि तन्निषेधस्तुच्छरूपो नैरात्म्यमित्यपरस्तन्निषेधो मृग्यः, तथा च सति अनवस्थानान्न नैरात्म्य-४० निषेधः। किंच, यदि नाम घटादौ नैरात्म्यमुपलब्धं किमित्यन्यत्र निषिध्यते? इतरथा देवदत्ते पाण्डित्यमुपलब्धं यज्ञदत्तादौ निषिध्येत । तत्र प्राणादिमत्त्वदर्शनादिति चेत्, युक्तमेतद् यदि प्राणादिमत्त्वं नैरात्म्यविरुद्धं स्याद् अग्निरिव शीतविरुद्धः, न चैवम् अन्यथा सर्वमशेषविरुद्धं भवेत् । प्राणादिमत्त्वेन १ पृ. १०८ पं० ३५।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy