SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ११२ प्रथमे काण्डेप्रतिभाति, न तु तद्व्यतिरिक्तवपुपं जातिमुद्द्योतयति । तन्न तदवसेयाऽपि बहिर्जातिरस्ति । तैमिरिकशाने बहिष्प्रकाशमानवपुपोऽपि हि केशोण्डुकादयो न तथाऽभ्युपेयन्ते, बाध्यमानज्ञानविषयत्वात् । जातिस्तु न बहीरूपतया क्वचिदपि शाने प्रतिभातीति कथं सा सत्त्वाभ्युपगमविषयः ? बुद्धिरेव केवलं घट-पटादिषु प्रतिभासमानेषु 'सत् सत्' इति तुल्यतनुराभाति । यदि तर्हि न बाह्या जातिरस्ति, ५बुद्धिरपि कथमेकरूपा प्रतिभाति नहि बहिर्निमित्तमन्तरेण तदाकारोत्पत्तिमती सा युक्ता? ननु केनोच्यते बहिर्निमित्तनिरपेक्षा जातिमतिरिति, किन्तु बहिर्जातिर्न निमित्तमिति, बाह्यास्तु व्यक्तयः काश्चिदेव जातिबुद्धेनिमित्तम् । ननु यदि व्यक्तिनिवन्धनाऽनुगताकारा मतिः, तथा सति यथा खण्डमुण्डव्यक्तिदर्शने 'गौ!ः' इति प्रतिपत्तिरुदेति तथा गिरिशिखरादिदर्शनेऽपि 'गौ!ः' इत्येतदाकारा प्रतिपत्तिर्भवेत् व्यक्तिभेदाविशेषात्, तदयुक्तम् : भेदाविशेपेऽपि खण्ड-मुण्डादिव्यक्तिषु 'गौौः' १० इत्याकारा मतिरुदयमासादयन्ती समुपलभ्यत इति ता एव तामुपजनयितुं समर्था इत्यवसीयते, न पुनर्गिरिशिखरादिषु 'गोर्गीः' इति मतिर्द ऐति न ते तन्निबन्धनम् । यथा च आमलकीफलादिषु यथाविधानमुपयुक्तेषु व्याधिविरतिलक्षणं फलमुपलभ्यत इति तान्येव तद्विधौ समर्थानीयवसीयते, भेदाविशेषेऽपि न पुनस्त्रपुप-दध्यादीनि । अथ भिन्नप्वपि भावेषु 'सत् सत्' इति मतिरस्ति, विभिनेषु च भावेषु यदेकत्वं तदेव जातिः, तत्रोच्यते-तदेकत्वं घट-पटादिषु किमन्यत्, उतानन्यत् ? न १५तावदन्यत्, तस्याप्रतिभासनादिन्युक्तः । नाप्यनन्यत्, एकरूपाऽप्रतिभासनात्: न हि घटस्य पटस्य चैकमेव रूपं प्रतिभाति, सर्वात्मना प्रतिद्रव्यं भिन्नरूपदर्शनात् । तस्मादप्रतीतेरभिन्नाऽपि जाति स्ति, बुद्धिरेव तुल्याकारप्रतिभासा 'सत् सत्' इति शब्दश्च दृश्यत इति तदन्वय एव युक्तः न जात्यन्वयः, तस्यादर्शनात् । न च बुद्धिस्वरूपमप्यपरवुद्धिस्वरूपमनुगच्छति इति न तदपि सामान्यमित्येकानुगतजातिवादो मिथ्यावादः।। २० अपि च, अनेकव्यक्तिव्यापि सामान्यं तद्वादिभिरभ्युपगम्यते । न च तद्यापित्वं तस्य केनचित् शानेन व्यवस्थापयितुं शक्यम् । तथाहि-सन्निहितव्यक्तिप्रतिभासकाले जातिस्तयक्तिसंस्पर्शिनी स्फटमवभाति न व्यक्त्यन्तरसंवन्धितया, तस्यास्तथाऽसन्निधानेन प्रतिभासायोगात । तदप्रतिभासे च तन्मिश्रताऽपि नावगतेति कथमसन्निहितव्यक्त्यन्तरसंवद्धशरीरा जातिरवभाति । यदेव हि परिस्फुटदर्शने प्रतिभाति रूपं तदेव तस्या युक्तम् , दर्शनासंस्पर्शिनः स्वरूपस्यासंभवात्; संभवे २५वा तस्य दृश्यस्वभावाद् भेदप्रसङ्गात्, तदेकत्वे सर्वत्र भेदप्रतिहतेः अनानैकं जगत् स्यात् । दर्शन गोचरातीतं च व्यक्त्यन्तरसंबद्धं जातिस्वरूपमप्रतिभासनादसत्: प्रतिभासने वा तस्य तत्संबद्धानां व्यवहितव्यक्त्यन्तराणामपि प्रतिभासप्रसङ्ग इति सकलजगत्प्रतिभासः स्यात् । अथ मतम्सन्निहितव्यक्तिदर्शनकाले व्यक्त्यन्तरसंबन्धिनी जातिन भातिः यदा तु व्यक्त्यन्तरं दृश्यते तदा तद्दर्शनवेलायां तद्गतत्वेन जातिराभातीति साधारणस्वरूपपरिच्छेदः पश्चात् संभवतीति, ततश्च ३० पश्चादर्थान्वयदर्शने कथं न तस्यास्तद्यापिताग्रहः? असदेतत्; यतो व्यक्त्यन्तरदर्शनकालेऽपि तत्परिगतमेव जातेः स्वरूपं प्रतिभाति न पूर्वव्यक्तिसंस्पर्शितयाः तस्याः प्रत्यक्षगोचरातिक्रान्ततया तत्संबद्धस्यापि रूपस्य तदतिक्रान्तत्वात् । तत् कथं सन्निहिताऽसन्निहितव्यक्तिसंबद्धजातिरूपावगमः? __ अथ प्रत्यभिज्ञानादनेकव्यक्तिसंबन्धित्वेन जातिः प्रतीयते, ननु केयं प्रत्यभिज्ञा? यदि प्रत्यक्षम्, कुतस्तदवसेया जातिरेकानेकव्यक्तिव्यापिनी प्रत्यक्षा? अथ नयनव्यापारानन्तरं समुपजायमाना ३५प्रत्यभिशा कथं न प्रत्यक्षम् ? निर्विकल्पकस्याप्यक्षान्वय-व्यतिरेकानुविधानात् प्रत्यक्षत्वं तदत्रापि तुल्यम्, असदेतत्; यदि अक्षजा प्रत्यभिज्ञा तथा सति प्रथमव्यक्तिदर्शनकाल एव समस्तब्यक्ति संबद्धजातिरूपपरिच्छेदोऽस्तु । अथ तदा स्मृतिसहकारिविरहान्न तत्त्वावगतिः, यदा तु द्वितीयव्यक्तिदर्शनं तदा पूर्वदर्शनाहितसंस्कारप्रबोधसमुपजातस्मृतिसहितमिन्द्रियं तत्त्वदर्शनं जनयति, तदप्यसत्; यतः स्मरणसचिवमपि लोचनं पुरःसन्निहितायामेव व्यक्तौ तत्स्थजातौ च प्रतिपत्ति ४० जनयितुमीशम् ; न पूर्वव्यक्तौ, असन्निधानात् । तन्न तस्थितां जातिं दर्शनं परिदृश्यमाने व्यक्त्यन्तरे संधत्ते। अथेन्द्रियवृत्तिर्न स्मरणसमवायिनी करणत्वादिति नासौ संधानकारिणी, पुरुषस्तु कर्तृतया १ तर्हि बाह्या भा०, मा०, वा०, बा. विना। २ पृ० १११ पं० ३८ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy