SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ईश्वरस्वरूपवादः। तस्माद न कल्पनोल्लिख्यमानवपुरप्यवयवी बहिरस्ति, केवलमनादिरयमेकव्यवहारो मिथ्यार्थः। न च व्यवहारमात्रा बहिरेकं वस्तु सिध्यति, 'नीलादीनां स्वभावः' इत्यत्रापि व्यवहाराभेदादेकता. प्राप्तेः स्वभावस्य । अथ तत्र प्रतिनीलादिस्वभावं दर्शनभेदादेकत्वं बाध्यते, इहापि तर्हि बहीरूपस्योर्डाऽधो-मध्यादिनिर्भासस्य भेदादेकता तन्वादीनां प्रतिदलतु । तनावयविरूपो याह्योऽथोंऽस्ति । अथावयविनोऽभावे तदवयवानामपि पाण्यादीनां दिग्मेदादिविरुद्धधर्माध्यासाद् भेदः, तद. ५ वयवानामप्यङ्गुल्यादीनां तत एव भेदात् तावद् भेदो यावत् परमाणवः, तेषां च स्थूलप्रतिभासविषयत्वानुपपत्तिः। स्थूलतनुश्च बहिर्नीलादिरूपः प्रतिभासः स्फुटमुद्भाति । न च स्थूलरूपं प्रत्येकं परमाणुषु संभवति, तथात्वे परमाणुत्वायोगात् । नापि समुदितेषु स्थूलरूपसंभवः, समुदितावस्थायामप्यणूनां स्वरूपेण सूक्ष्मत्वात् । न च तद्व्यतिरिक्तः समुदायोऽस्ति, तथात्वे द्रव्यवादप्रसकात् तत्र चोक्तो दोषः। तन्न स्थूलता परमाणुषु कथञ्चिदपि संभवति । न चान्याहग निर्भासोऽ-१० न्यारक्षस्यार्थस्य प्रकाशकः, नीलदर्शनस्यापि पीतव्यवस्थापकत्वापत्तेः; तथा च नियतविषयव्यवस्थोच्छेदः। किञ्च, परमाणोरपि नानादिसंबन्धादेकता नोपपन्नैव । तथा चाह "षट्केन युगपद्योगात् परमाणोः षडंशता" [ ] इति । पुनस्तदंशानामपि नानादिक्संबन्धात् सांशताऽऽपत्तिः, तथा चानवस्था । तस्मान्न परमाणूनामपि सत्त्वम् इत्यवयव्यग्रहणे सर्वाग्रहणप्रसङ्ग इति प्रतिभासाभावापत्तने प्रसङ्गसाधनस्यावकाशः। १५ असदेतत्। अवयव्यभावेऽपि निरन्तरोत्पन्नानां घटाद्याकारेण परमाणूनां सद्भावात् तद्राहकाणामपि शानपरमाणूनां तथोत्पन्नानां तद्राहकत्वाद् न बहिरर्थाभावः, नापि तत्प्रतिभासाभाव इति कथं प्रसङ्गसाधनस्य नावकाशः स्थूलैकरूपावयव्यभावेऽपि? यदि चावयविनोऽभावे परमाणूनामप्यभावप्रसक्तेः प्रतिभासाभावेन प्रसङ्गसाधनानवकाशः प्रतिपाद्यत तदा सुतरां परमाणुरूपस्य २० ज्ञानरूपस्य चार्थस्याभावे कार्यत्वादिलक्षणस्य हेतोराश्रयासिद्धतादोषः। बाह्यार्थनयेन चास्माभिराश्रयासिद्धतादोषात् कार्यत्वलक्षणाद्धेतोर्नेश्वरसिद्धिरिति प्रतिपादयितुमभिप्रेतम्, यदि पुनर्विज्ञान-शून्यवादानुकूलं भवताऽप्यनुष्ठीयते तदा साध्य-दृष्टान्तधर्मिसाध्य-साधनधर्मादीनामनुमित्यङ्गभूतानां सर्वेषामप्यसिद्धेः कुत उपन्यस्तप्रयोगादीश्वरसिद्धिः? तदेवं तन्वादिलक्षणस्य कार्यत्वादिहेत्वाश्रयस्यावयविनोऽसिद्धराश्रयासिद्धो हेतुः।} २५ { तथा, 'बुद्धिमत्कारणम्' इति साध्यनिर्देशे 'बुद्धिमत्' इति मतुबर्थस्य साध्यधर्मविशेषणस्थानुपपत्तिः, तज्ज्ञानस्य ततो व्यतिरेके अकार्यत्वे च 'तस्य' इति संबन्धानुपपत्तेः। तद्गुणत्वात् तत् तस्येति चेत्, न; अकार्यत्वे व्यतिरेके च 'तस्यैव तहुणो नाकाशादेः' इति व्यवस्थापयितु. मशक्तेः । समवायो व्यवस्थाकारीति चेत्, न; तस्यापि ताभ्यामर्थान्तरत्वे स एव दोषः-व्यतिरेके समवायस्यापि सर्वत्राविशेषान्न ततोऽपि तद्यवस्था । अथेश्वरात्मकार्यत्वाद् ईश्वरात्मगुणस्तज्ज्ञा-३० नम्, कुत एतत् ? तस्मिन् सति भावादिति चेत्, आकाशादावपि सति तस्य भावात् तत्कार्यता किं न स्यात् ? अथ तद्भावेऽभावात् तत्कार्यत्वम्, तन्न; नित्य-व्यापित्वाभ्यां तस्य तदद्योगात् । तदात्मन्युत्कलितस्य तस्य दर्शनात् तत्कार्यतेति, किमिदं तस्य तत्रोत्कलितत्वम्? तत्र समवेतत्वं तस्येति चेत्, नन्विदमेव पृष्टं किमिदं समवेतत्वं नाम? तत्र समवायेन वर्तनमिति चेत्, ननु किं व्याख्या समवायेन तत्र वर्तनम्, आहोखिदव्याप्त्या? यदि व्यात्या तदाऽस्मदादिज्ञानवैलक्षण्यं यथा तज्ज्ञा-३५ नस्यादृष्टस्यापि कल्प्यते तथाऽकृष्टोत्पत्तिषु वने वनस्पत्यादिषु घटादौ कर्म-कर्तृ-करण निर्वयं कार्यत्वमुपलब्धमपि चेतनकर्तृरहितमपि भविष्यतीति कार्यत्वलक्षणो हेतुर्बुद्धिमत्कारणपूर्वकत्वे साध्ये स्थावरैर्व्यभिचारीति लाभमिच्छतो मलक्षतिरायातेति । अथ अव्यात्या तत् तत्र वर्तते तदा देशान्तरोत्पत्तिमत्सु तन्वादिषु तस्याऽसन्निधानेऽपि यथा व्यापारस्तथाऽदृष्टस्याप्यन्यादिदेशेष्वसन्निहितस्यापि ऊर्ध्वज्वलनादिविषयो व्यापारो भविष्यतीति । "अग्नेरूद्धज्वलनम्, वायोस्तिर्यपवनम्, अणु-मनसोश्चाद्यं कर्माऽदृष्टकारितम्" [वैशेषिकद० अ०५-२-१३] ५० १पृ० १०२ पं. ११ स० त० १४
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy