SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ १०४ प्रथमे काण्डेतत् तेनैव रूपेण सदिति व्यवहारविषयः-यथा नीलं नीलरूपतया प्रतिभासमानं तेनैव रूपेण तद्विषयः, अर्वाग्भागभाव्यवयवसंबन्धितया चाऽवयवी प्रतिभातीति स्वभावहेतुः। न च परभागभाविव्यवहितावयवाऽप्रतिभासनेऽप्यव्यवहितोऽवयवी प्रतिभातीति वक्तुं शक्यम्, तदप्रतिभासने तद्गतत्वेनाप्रतिभासनात् । यस्मिंश्च प्रतिभासमाने यद् रूपं न प्रतिभाति, तत् ततो भिन्नम्-यथा ५घटे प्रतिभासमानेऽप्रतिभासमानं पटस्वरूपम् । न प्रतिभाति च अर्वाग्भागभाव्यवयवसंबन्ध्यवयविस्वरूपे प्रतिभासमाने परभागभाव्यवयवसंवन्ध्यवयविस्वरूपम् इति कथं न तत् ततो मिन्नम् ? तथाऽप्यभेदेऽतिप्रसङ्गः प्रतिपादितः। नापि परभागभाव्यवयवाऽवयविग्राहिणा प्रत्यक्षेण अर्वाग्भागभाव्यवयवसंबन्धित्वं तस्य गृह्यते, तत्र तदवयवानां प्रतिभासात् तत्संबन्ध्येवावयविस्वरूपं प्रतिभासेत नार्वाग्भागभाव्यवयवसंबन्धिः तेषां तत्राप्रतिभासनात् । तदप्रतिभासने च तत्संब१०न्धिरूपस्याप्यप्रतिभासनात्, व्याप्याप्रतिपत्तौ तद्यापकत्वस्यौप्यप्रतिपत्तेः। नापि स्मरणेन अर्वाक् परभागभाव्यवयवसंबन्ध्यवयविस्वरूपग्रहः, प्रत्यक्षानुसारेण स्मरणस्य प्रवृत्त्युपपत्ते, प्रत्यक्षस्य च तद्राहकत्वनिषेधात् । नाप्यात्मा अर्वाक्-परभागावयवव्यापित्वमवयविनो ग्रहीतुं समर्थः-सत्तामात्रेण तस्य तद्राहकत्वानुपपत्तेः; अन्यथा स्वाप-मद-मूर्छाद्यवस्थास्वपि तत्प्रतिपत्तिप्रसङ्गात्किन्तु दर्शनसहायः; तच्च दर्शनं न अवयविनोऽवयवव्याप्तिग्राहकं प्रत्यक्षादिकं संभवतीति प्रतिपा१५ दितम् । अथार्वाग्भागदर्शने सत्युत्तरकालं परभागदर्शनेऽनन्तरस्मरणसहकारीन्द्रियजनितं 'स एवायम्' इति प्रत्यभिज्ञाज्ञानमध्यक्षमवयविनः पूर्वापरावयवव्याप्तिग्राहकम्, तदयुक्तम् ; प्रत्यभिज्ञाज्ञानस्यैतद्विषयस्य प्रत्यक्षत्वानुपपत्तेः । अक्षानुसारि हि प्रत्यक्षम्, न चाक्षाणामक-परभागभाव्यवयवग्रहणे व्यापारः संभवति, व्यवहिते तेषां व्यापारासंभवात् ; संभवे वाऽतिव्यवहितेऽपि मेरु. पृष्ठादौ व्यापारः स्यात् । तन्न तदनुसारिणोऽध्यक्षरूपस्य प्रत्यभिज्ञाशानस्य तत्र व्यापारः। न च २० स्मरणसहायस्यापीन्द्रियस्याविषये व्यापारः संभवति, यद् यस्याऽविषयः न तत् तत्र स्मरणसहाय मपि प्रवर्त्तते-यथा परिमलस्मरणसहायमपि लोचनं गन्धादौ, अविषयश्च व्यवहितोऽक्षाणां परभागभाव्यवयवसंबन्धित्वलक्षणोऽवयविनः स्वभाव इति नाक्षजस्य प्रत्यमिशाज्ञानस्यावयविस्वरूपग्राहकन्वम् । न च 'स एवायम्' इति प्रतीतिरेका, 'सः' इति स्मृतेः रूपम्, 'अयम्' इति तु दृशः स्वरूपम् । तत् परोक्षाऽपरोक्षाकारत्वाद् नैकस्वभावावेतौ प्रत्ययौ । अथ ‘स एवायम्' इत्येकाधिः २५करणतया एतौ प्रतिभात इति एकं प्रत्यभिज्ञाज्ञानम् , न; आकारमेदे सति दर्शन-स्मरणयोरिव सामानाधिकरण्याध्यवसायेऽप्येकत्वानुपपत्तेः। अन्यत्राप्याकारभेद एव भेदः, स चात्रापि विद्यत इति कथमेकत्वम् ? किञ्च, 'सः' इत्याकारः 'अयम्' इत्याकारानुप्रवेशेन प्रतिभाति, आहोखिद अननुप्रवेशेनेति? यदि अनुप्रवेशेन, 'सः' इत्याकारस्य 'अयम्' इत्याकारे अनुप्रविष्टत्वादभाव इति 'अयम्' इत्याकार एव केवलः प्राप्त इति कुतः 'सोऽयम्' इत्येका प्रत्यभिज्ञा? अथ 'अयम्' इत्याकार: ३०'सः' इत्येतस्मिन्ननुप्रविष्टस्तदा 'सः' इत्येव प्राप्तो न 'अयम्' इत्यपि इति कथमेका प्रत्यभिज्ञा? अथ ‘स एव' 'अयम्' इत्याकारौ परस्पराननुप्रविष्टौ प्रतिभातस्तथापि भिन्नाकारौ भिन्नविषयौ च द्वौ प्रत्ययाविति कथमेकार्था एका प्रत्यभिज्ञा प्रतिभासभेदस्य विषयभेदव्यवस्थापकत्वात् ? न च प्रति. भासमेदेऽपि विषयामेदः, प्रतिभासामेदव्यतिरेकेण विषयामेदव्यवस्थायां प्रमाणं विना प्रमेयाभ्यु पगमः स्यात्। तथा च सर्व सर्वस्य सिध्येत् । तन्न प्रत्यभिज्ञातोऽप्यवयव्येकत्वग्रहः । अनुमानस्य च ३५अवयविस्वरूपग्राहकस्य प्रत्यक्षनिषेधे तत्पूर्वकस्य निषेधः कृत एव । सामान्यतोदृष्टस्य चावयविप्रतिषेधप्रस्तावे निषेधो विधास्यत इत्यास्तां तावत् । अथ 'एको घटः' इति द्रव्यप्रतीतिरस्ति तदवयवव्यतिरेकिणी तत् कथमभावोऽवयविनः ? न; घटावसायेऽपि तदवयवाध्यवसायः नामोल्लेखश्चाध्यवसीयते नावयवि द्रव्य पकृित्यक्षराकार शून्यस्य तद्रूपस्य केनचिदप्यननुभवात् । वर्णाकृत्यक्षराकारशून्यं चावयविस्वरूपमभ्युपगम्यते । न च ४० तेन रूपेण कल्पनाशानेऽपि तत् प्रतिभाति, न चान्याकारः प्रतिभासोऽन्याकारस्य वस्तुस्वरूपस्य व्यवस्थापक; अन्यथा नीलप्रतिभासः पीतस्य व्यवस्थापकः स्यादिति न वस्तुव्यवस्था स्यात् । १ -स्याप्रति-कां०, गु०। २ पृ० १०३ पं० ४१। ३ पृ० १०३ पं० ४१। ४-सारि हि तत् प्रत्य -कां०, गु०, हा०। ५-नम् आका-वा०, बा० विना ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy