SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ईश्वरस्वरूपवादः। १०३ "महत्यनेकद्रव्यवत्वात् रूपाञ्चोपलब्धिः " [वैशेषिकद० अ०४-१-६] इति वचनात् । तत् सिद्धमनुपलब्धेः 'उपलब्धिलक्षणप्राप्तस्य' इति विशेषणम् । न च मध्यो-दिभागव्यतिरिक्तवपुर्वहि ह्याकारतां बिभ्राणस्तन्वादिद्रव्यात्मा दर्शने चकास्तीत्यनुपलब्धिरपि सिद्धा। न च समानदेशत्वादद्वयविनोऽवयवेभ्यः पृथगनुपलक्षणमिति वक्तुं शक्यम्, समानदेशत्वादिति विकल्पानुपपत्तेः । तथाहि-समानदेशत्वमवयवाऽवयविनोः किं पारिभाषिकम, ५ लौकिकं वा? यदि पारिभाषिकम्, तदनुरोष्यम्; परिभाषाया अत्रानधिकारात् । न च तत् तत्र भवदभिप्रायेण सिद्धम्। तथाहि-अन्य एव पाण्यादय आरम्भका देशास्तन्वाद्यवयविनो भवद्भिः परिभाष्यन्ते, अन्ये च पाण्यादीनां तदवयवानामारम्भका देशाः, आरभ्यारम्भकवादनिषेधात् । तन्न पारिभाषिकं समानदेशत्वम् । नापि लौकिकम्, आकाशस्य लोकप्रसिद्धस्य समानदेशस्यास्मान् प्रति असिद्धत्वात् । प्रकाशादिरूपस्य च देशस्य तत्सिद्धस्य समानत्वेऽपि मिन्नानां वाताऽऽतपा-१० दीनां भेदेनोपलब्धेः। तथाहि-समानदेशा अपि भावा वाताऽऽतपादयो भिन्नतनवः पृथक् प्रथन्ते; न चैवमवयविनिर्भासः। तनावयवी तन्वादिभिन्नोऽस्ति । _____ अथ मन्दमन्दप्रकाशे अवयवप्रतिभासमन्तरेणाप्यवयविनि प्रतिभास उपलभ्यते तत् कथं प्रतिभासाभावात् तस्याभावः? असदेतत् नहि तथाभूतोऽस्पष्टप्रतिभासोऽवयविस्वरूपव्यवस्थापको युक्तः, तत्प्रतिभासस्यास्पष्टरूपस्य स्पष्टज्ञानावभासितत्स्वरूपेण विरोधात् । अथ स्वरूप-१५ द्वयमेतदवयविनः-स्पष्टम् अस्पष्टं च । तत्रास्पष्टं मन्दालोकज्ञानविषयः; स्पष्टं तु सालोकज्ञानभूमिः। नन्वेतत् स्वरूपद्वयं केनावयविनो गृह्यते? न तावद् मन्दालोकशानेन, तत्र सालोकमानविषय स्पष्टरूपानवभासनात् ; अस्पष्टतत्स्वरूपप्रतिभासं हि तदनुभूयते । नापि सालोकमानेन स्पष्टतत्स्वरूपावभासिना, तत्र मन्दालोकज्ञानावभासितत्स्वरूपानवभासनात्; नहि परिस्फुटप्रतिभासवेलायामविशदरूपाकारोऽवयव्यर्थः प्रतिभाति तत् कथमसाववयविनः स्वरूपम् ? अथ 'मन्दालो-२० कदृष्टमवयविनः स्वरूपं परिस्फुटमिदानीं पश्यामि' इति तयोरेकता; ननु किमपरिस्फुटरूपतया परिस्फुट रूपमवगम्यते, आहोखित् परिस्फुटतयाऽपरिस्फुटम् ? तत्र यद्याद्यः पक्षः, तदाऽपरिस्फुटरूपसंबन्धित्वमेवावयविनः प्राप्नोति, परिस्फुटस्य रूपस्यास्फुटरूपताऽनुप्रवेशेन प्रतिभासनात् । अथ द्वितीयः पक्षः, तथासति स्पष्टस्वरूपसंबन्धित्वमेव, अस्पष्टस्य विशदस्वरूपानुप्रविष्टत्वेन प्रतिभासनात् । तन्न स्वरूपद्वयावगमोऽवयविनः। एकत्वप्रतिभासनं तु प्रतिभासरहितमभिमानमात्र २५ स्पष्टास्पष्टरूपयोः; अन्यथा सालोकज्ञानवदू मन्दालोकज्ञानमपि परिस्फुटप्रतिभासं स्यात् । अथाssलोकभावाभावकृतस्तत्र स्पष्टास्पष्टप्रतिभासमेदः, नन्वालोकेनाप्यवयविस्वरूपमेवोद्धासनीयम, तच्चेद् अविकलं मन्दालोके प्रतिभाति कथं न तत्र तदवभासकृतः स्पष्टावभासः? अन्यथा विषया, वभासव्यतिरेकेणापि ज्ञानप्रतिभासमेदे न ज्ञानावभासमेदो रूप-रसयोरपि मेदव्यवस्थापक: स्यात् । अथावयविस्वरूपमेकमेवोभयत्र प्रतीयते, व्यक्ताऽव्यक्ताकारी तु ज्ञानस्यात्मानावित्युच्येत-३० तदप्यसत्; यतो यदि शानाकारौ तौ कथमवयविरूपतया प्रतिभातः? तद्रूपतया च प्रतिभासनादवयव्याकारौ तावभ्युपगन्तव्यौ । नहि व्यक्तरूपताम् अव्यक्तरूपतां च मुत्वा अवयविस्वरूपमपर" माभाति । तत् तस्यानचभासादभाव एव । व्यक्ताऽव्यक्तैकात्मनश्चावयविनो व्यक्ताऽव्यक्ताकारवद् भेदः । नहि प्रतिभासमेदेऽप्येकता, अतिप्रसङ्गात् । तन्न अस्पष्टप्रतिभासमन्धकारेऽवयविनो रूपमवयवाप्रतिभासेऽपि प्रतिभातीति वक्तुं युक्तम् , उक्तदोषप्रसङ्गात् । किंच, किं कतिपयावयवप्रतिभासे सति अवयवी प्रतिभातीत्यभ्युपगम्यते, आहोस्वित् सम. स्सावयवप्रतिभासे? यद्याद्यः पक्षा, सन युक्तः, जलमग्नमहाकायस्तम्भादेरुपरितनकतिपयावयव. प्रतिभासेऽपि समस्तावयवव्यापिनः स्तम्भाद्यवयविनोऽप्रतिभासनात्। अथ द्वितीयः पक्षः, सोऽपि न युक्तः, मध्य-परभागवर्तिसमस्तावयवप्रतिभासासंभवेनावयविनोऽप्रतिभासप्रसङ्गात् । अथ भूयोऽवयवग्रहणे सति अवयवी गृह्यत इत्यभ्युपगमः, सोऽपि न युक्तः, यतोऽर्वाग्भागभाव्यवयव-४० ग्राहिणा प्रत्यक्षेण परभागभाव्यवयवाग्रहणादून तेन तद्याप्तिरवयविनो ग्रहीतुं शक्या; व्याप्याग्रहणे तेन तद्यापकत्वस्यापि ग्रहीतुमशक्तेः; ग्रहणे वाऽतिप्रसङ्गः। तथाहि-यद् येन रूपेण अवभाति १वा कां०। २-भासिततत्स्व-भी।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy