________________
प्रथमे काण्डेइत्यनेन सूत्रेण सर्वगतात्मसाधकहेतुसूचनं यत् कृतं तदसङ्गतं स्यात्, शानादिविशेषगुणवदृष्ट. गुणस्य तत्रासन्निहितस्याप्यन्यायूद्धज्वलनादिकार्येषु व्यापारसंभवात् । न च सामान्यगुणविशेषगुणत्वलक्षणोऽपि विशेषो गुण-गुणिनो दे संभवति । किंच, समवायस्य सर्वत्राविशेष 'तत्रैव तेन वर्त्तनं नान्यत्र' इति कुतोऽयं विभागः? अथ तत्राऽऽधेयत्वं समवेतत्वं तदा आत्मवद् ५ गगनादेरपि सर्वगतत्वे 'तदात्मन्येव तदाधेयत्वं नान्यत्र' इति दुर्लभोऽयं विभागः। ततस्तज्ज्ञानस्य
तदात्मनो व्यतिरेके 'तस्यैव तज्ज्ञानम्' इति संबन्धानुपपत्तिः । ___अथ ततस्तज्ज्ञानस्य भेदेऽपि संबन्धस्य समवायरूपस्य भावान्नायं दोषः' असदेतत्; सम. वायस्यानुपपत्तेः।
[प्रसङ्गवशात् समवायनिरसनम् ] १० तथाहि-किं सतां समवायः, आहोस्विद् असतामिति ? तत्र यदि असतामिति पक्षः, स न
युक्तः; शशविषाण-व्योमोत्पलादीनामपि तत्प्रसङ्गात् । अथात्यन्तासत्त्वात् तेषां न तत्प्रसङ्गः, ननु तदात्म-तज्ज्ञानयोरत्यन्तासत्त्वाभावः कुतः ? तत्समवायादिति चेत्, इतरेतराश्रयत्वम्-सिद्धे तत्समवाये तयोरत्यन्तासत्त्वाभावः, तदभावाच्च तत्समवाय इति व्यक्तमितरेतराश्रयत्वम् । अथ
सतां समवायः, ननु तेषां समवायात प्राक कुतः सत्त्वम् ? यदि अपरसमवायात्, तदसत् तस्यै. १५कत्वाभ्युपगमात् । अनेकत्वेऽपि यदि अपरसमवायात् प्राक् तेषां सत्त्वम्, सम(तत्सम)वायादपि प्रागपरसमवायात् तेषां सत्त्वमभ्युपगन्तव्यमित्यनवस्था। अथ समवायात् प्राक् तेषां स्वत एव सत्त्वमिति नानवस्था तर्हि समवायव्यतिरेकेणापि सत्त्वाभ्युपगमे व्यर्थ समवायपरिकल्पनमिति 'सत्तासंबन्धात् पदार्थानां सत्ता' इत्युच्यमानं न शोभामावहति ।
___ अथ समवायात् प्राक् पदार्थानां न सत्त्वम् नाप्यसत्त्वम् सत्तासमवायः सत्त्वम्, असदे२० तत्; यतो यदि तत्समवायात् प्राक् पदार्था योगिज्ञानमपि न जनयन्ति तदा कथं तेषां नासत्त्वम् ?
अथ तद् जनयन्ति तदा कथं तेषां न सत्त्वम् ? किंच, अन्योऽन्यव्यवच्छेदरूपाणामेकनिषेधस्यापरसद्भावनान्तरीयकत्वात् कथमसत्त्वनिषेधे न सत्त्वविधानम? तदविधाने वा कथं नासत्वनिषेधः? इत्ययुक्तमुक्तमुद्योतकरेण-"गोत्वसंबन्धात् प्राग् न गौः, नाप्यगौः, गोत्वयोगाद् गौः" [न्यायवा०
पृ० ३१८ पं० २१ ] इति । अपि च, समवायाद् यदि पदार्थानां सत्त्वम् समवायस्य कुतः सत्त्वमिति २५वक्तव्यम् । यदि अपरसमवायात्, अनवस्था । अथ स्वत एव समवायस्य सत्त्वम्, पदार्थानामपि
तत् स्वत एवास्तु रपि व्यर्थ सत्तासमवायकल्पनम् । अथ यदि नाम समवायस्य स्वतः सत्त्वमिति रूपम् कथमन्यपदार्थानामपि तदेव रूपमिति सचेतसा वक्तुं युक्तम् ? नहि लवणस्य स्वतो लवणत्वे सूपादेरपि तद्यतिरेकेण तद् भवति, असदेतत्; यतोऽध्यक्षतः सिद्धे पदार्थस्वभावे युज्यतैतद् वक्तुम् ; न च समवायादेः स्वरूपतः सत्त्वम् अन्यपदार्थानां तु तत्सद्भावात् सत्त्वमित्यध्यक्षात् सिद्धम् । ३० अपि च, अयं समवायः किं समवायिनोः परिकल्प्यते, उतासमवायिनोरिति विकल्पद्वयम् ।
तत्र यद्यसमवायिनोरिति पक्षः, स न युक्तः, घट-पटयोरत्यन्तभिन्नयोस्तत्प्रसङ्गात् । न चासमवायिनोभिन्नसमवायेन समवायित्वं तदभिन्नं विधातुं शक्यम्, विरुद्धधर्माध्यासेन ताभ्यां तस्य भेदप्रसङ्गात् । नापि भिन्नम्, तत्करणे तयोः तत्संबन्धित्वानुपपत्तेः; भिन्नस्योपकारमन्तरेण तदयो.
गात् । उपकारेऽपि तद्भिन्नसमवायित्वकरणे पुनरपि तयोरसमवायित्वम्, अन्यान्योपकारकरणे ३५त्वनवस्था। स्वत एव तु समवायिनोः किं समवायेन तद्धेतुना परिकल्पितेन? अथ समवायेन
तयोस्तद्यवहारः क्रियते, ननु यदि समवायिनोः स्वरूपं प्रत्यक्षादिप्रमाणगोचरस्तदा तत एव तद्यवहारस्यापि सिद्धर्व्यर्थमेव तदर्थ तत्परिकल्पनम् ।
अथ प्रत्यक्षप्रमाणसिद्धत्वात् समवायस्य एवं विकल्पनमयुक्तम्, तदसत्; यदि हि तत्सिद्धत्वं
१-गुणत्व-वि-गु०। २ "गगनादौ” वि.टि.। ३-नुत्पत्तेः वा०, बा. विना। ४ न प्रसङ्गः वा०, बा०, का०, गु०। ५ समवायादपि तत्सपरपरसमवायात वा०, बा०। ६ “समवाय" (सद्भावात् ) वि.टि.। ७ प्रमेयकमलमार्तण्डे तु "स्वत एव तु समवायिनोः समवायित्वे किं समवायेन ?" इत्यादिपाठः-पृ. १८८ द्वि० पृ.पं०८॥