SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ईश्वरस्वरूपवादः । न च स्वरूपप्रतिपादकानामप्रामाण्यम्, प्रमाणजनकत्वस्य सद्भावात् । तथाहि - प्रेमाजनकत्वेन प्रमाणस्य प्रामाण्यं न प्रवृत्तिजनकत्वेन तश्चेहास्त्येव । प्रवृत्ति-निवृत्ती तु पुरुषस्य सुख-दुःखसाधनत्वाध्यवसाये समर्थस्यार्थित्वाद् भवत इति । अथ विधावङ्गत्वादमीषां प्रामाण्यं न स्वरूपार्थत्वादिति चेत्, तदसत्; स्वार्थप्रतिपादकत्वेन विध्यङ्गत्वात् । तथाहि - स्तुतेः स्वार्थप्रतिपादकत्वेन प्रवर्त्तकत्वम्, निन्दायास्तु निवर्त्तकत्वमिति । अन्यथा हि तदर्थापरिज्ञाने विहित प्रतिषिद्वेष्व विशे- ५ पेण प्रवृत्तिर्निवृत्तिर्वा स्यात् । तथा विधिवाक्यस्यापि स्वार्थप्रतिपादनद्वारेणैव पुरुषप्रेरकत्वं दृष्टम् एवं स्वरूप परेष्वपि वाक्येषु स्यात्, वाक्यस्वरूपताया अविशेषात् विशेषहेतोश्चाभावादिति । तथा, स्वरूपार्थानामप्रामाण्ये "मेध्या आपः, दर्भाः पवित्रम्, अमेध्यमशुचि” इत्येवंस्वरूपापरिज्ञाने विध्यङ्गतायामप्यविशेषेण प्रवृत्ति - निवृत्तिप्रसङ्गः, न चैतदस्ति मेध्येष्वेव प्रवर्त्तते अमेध्येषु च निवर्त्तत इत्युपलम्भात् । तदेवं स्वरूपार्थेभ्यो वाक्येभ्योऽर्थ स्वरूपावबोधे सति इष्टे प्रवृत्तिदर्शनात् अनिष्टे च १० निवृत्तेरिति ज्ञायते - स्वरूपार्थानां प्रमाजनकत्वेन प्रवृत्तौ निवृत्तौ वा विधिसहकारित्वमिति, अपरिज्ञानात्तु प्रवृत्तावतिप्रसङ्गः । अथ स्वरूपार्थानां प्रामाण्ये “ग्रावाणः प्लवन्ते" इत्येवमादीनामपि यथार्थता स्यात्, न मुख्ये बाधकोपपत्तेः । यत्र हि मुख्ये बाधकं प्रमाणमस्ति तत्रोपचारकल्पना, तदभावे तु प्रामाण्यमेव । न चेश्वरसद्भावप्रतिपादनेषु किञ्चिदस्ति बाधकमिति स्वरूपे प्रामाण्यमभ्युपगन्तव्यमित्यागमादपि सिद्धप्रामाण्यात् तदवगमः । ईश्वरस्य च सत्तामात्रेण स्वविषयग्रहण. १५ प्रवृत्तानां क्षेत्रज्ञानामधिष्ठायकता यथा स्फटिकादीनामुपधानाकारग्रहणप्रवृत्तानां सवितृप्रकाशः । यथा तेषां सावित्रं प्रकाशं विना नोपधानाकार ग्रहणसामर्थ्य तथेश्वरं विना क्षेत्रविदां न स्वविषय ग्रहणसामर्थ्यमित्यस्ति भगवानीश्वरः सर्ववित्" । [ ] ९९ इतश्चासौ सर्ववित् - ज्ञानस्य सन्निहित सदर्थप्रकाशकत्वं नाम स्वभावः, तस्यान्यथाभावः कुतश्चिद्दोषसद्भावात् । एतत् तावद् रूपं चक्षुराद्याश्रयाणां ज्ञानानाम् । यत् पुनश्चक्षुरनाश्रितं २० न च रागादिमलावृतं तस्य विषयप्रकाशनस्वभावस्य विषयेषु किमिति प्रकाशन सामर्थ्य विघातः यथा दीपादेरपवरकान्तर्गतस्य ? ननु रागादेरावरणस्य कथं तत्राभावोऽवगतः तत्प्रतिपादकप्रमाणाभावात् ? प्रमाणस्याभावे संशयोऽस्तु रागादीनाम् न त्वभावः । विपर्यासकारणा रागादयः, एषां कारणाभावे कथं तत्र भावः ? विपर्यासश्चाधर्मनिमित्तः, न च भगवत्यधर्मः, तत्सद्भावे वा इत्थंविधस्यास्मदादिमिश्चिन्तयितुमध्यशक्यस्य कार्यस्य कथं तस्मादुत्पादः अनेका- २५ दृष्टकल्पनाप्रसङ्गात् ? किञ्च, रागादय इष्टानिष्टसाधनेषु विषयेषूपजायमाना दृष्टाः । न च भगवतः कश्चिदिष्टानिष्टसाधनो विषयः, अवाप्तकामत्वात् । या तु प्रवृत्तिः शरीरादिसर्गे सा कैश्चित् क्रीडार्थमुक्ताः सा चावाप्तप्रयोजनानामेव भवति नत्वन्येषाम् । अतो यदुक्तं वार्त्तिककृता " क्रीडा हि रतिमविन्दताम् ; न च रत्यर्थी भगवान् दुःखाभावात् " [ न्यायवा० पृ० ४६२ ] ३० तत् प्रतिक्षिप्तम् । न हि दुःखिताः क्रीडासु प्रवर्त्तन्ते, तस्मात् क्रीडार्थी प्रवृत्तिः । अन्ये मन्यन्ते - " कारुण्याद् भगवतः प्रवृत्तिः । नन्वेवं केवलः सुखरूपः प्राणिसर्गेऽस्तु, नैधम्; निरपेक्षस्य कर्तृत्वेऽयं दोषः, सापेक्षत्वे तु कथमेकरूपः सर्गः ? यस्य यथाविधः कर्माशयः पुण्यरूपोऽपुण्यरूपो वा तस्य तथाविधफलोपभोगाय तत्साधनान् शरीरादींस्तथाविधांस्तत्सापेक्षः सृजति” [ ] इति । " न चेश्वरत्वव्याघातः सापेक्षत्वेऽपि, यथा सवितृप्र- ३५ काशस्य स्फटिकाद्यपेक्षस्य, यथा वा करणाधिष्ठायकस्य क्षेत्रज्ञस्य, सापेक्षत्वेऽपि तेषु तैस्येश्वरता दत्रापि (तद्वदत्रापि ) नेश्वरताविषं (विसं) घातः” [ ] इति केचित् । अन्ये मन्यन्ते - " यथा प्रभुः सेवाभेदानुरोधेन फलभेदप्रदो नाप्रभुस्तथेश्वरोऽपि कर्माशयापेक्षः फलं जनयतीति 'अनीश्वरः' इति न युज्यते वक्तुम्” [ भाष्यकारः कारुण्यप्रेरितस्य प्रवृत्तिमाह । तन्निमित्तायामपि प्रवृत्तौ न वार्त्तिककारीयं ४० ] १ प्रमाणजन - वा०, बा० विना । २ - त्रविदो न भां०, कां०, गु० । ३ तस्येश्वरताऽविघात इति केवि० । तस्येश्वरताविघात इति के सर्वत्र अन्यत्र । तस्य नेश्वरत्वविघात इति के मां० ब० । ४ वा०, बा० विना नान्यत्र । ५ अत्र न्यायद० अ० ४, आ० १ सू० २१ संबन्धि भाष्यं द्रष्टव्यम् ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy