SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डेदूषणम्-"संसृजेत् शुभमेवैकमनुकम्पाप्रयोजितः" [ श्लो० वा० सू० ५, संबन्धा० श्लो० ५२] इत्येवमादि, यतः कर्माशयानां कुशलाऽकुशलरूपाणां फलोपभोगं विना न क्षय इति भगवान. वगच्छंस्तदुपभोगाय प्राणिसर्ग करोति । उपभोगः कर्मफलस्य शरीरादिकृतः, कस्यचित्तु अशुभस्य कर्मणः प्रायश्चित्तात् प्रक्षयः । तत्रापि स्वलेन दुःखोपभोगेन दीर्घकालदुःखप्रदं कर्म क्षीयते, ५न तु फलमदत्त्वा कर्मक्षयः । येषामपि मतं सम्यग्ज्ञानाद् विपर्यासनिवृत्तौ तजन्यक्लेशक्षये कर्माशयानां सद्भावेऽपि सहकार्यभावान्न शरीराद्याक्षेपकता, तत्रापि कुशलं कर्म समाधि वाऽन्तरेण न तत्त्वज्ञानोत्पत्तिःः तयोस्तु संचये प्रवृत्तस्य यम-नियमानुष्ठानेऽनेकविधदु:. खोत्पत्तिः, अतः कथं केवलसुखिरूपः प्राणिसर्गः ? नारक-तिर्यगादिसर्गोऽपि अकृतप्रायश्चित्तानां तत्रत्यदुःखानुभवे पुनर्विशिष्टस्थानावाप्तावभ्युदयहेतुरिति सिद्धं दुःखिप्राणिसृष्टावपि १० करुणया प्रवर्तनम् । तन्नासर्वशत्वं विशेषः । नापि कृत्रिमज्ञानसंवन्धित्वम्, तज्ज्ञानस्य प्रत्यर्थ नियमाभावात् । यदू ज्ञानमनित्यं तत् शरीरादिसापेक्षं प्रत्यर्थ नियतम् तज्ज्ञानस्य तु शरीराद्यभावे कुतः प्रत्यर्थ नियतता ? भवतु तज्ज्ञानं प्रतिनियतविषयम् न तस्य प्रतिनियतविषयत्वेऽस्माकं पक्षक्षतिः। कथं न क्षतिः? तस्य तथाविधत्वे युगपत् स्थावरानुत्पादप्रसङ्गः, तदनुत्पादे च कर्तृत्वासिद्धिः, तद१५सिद्धौ कस्य कृत्रिमज्ञानसंबन्धिताविशेषः ? अथ युगपत्कार्यान्यथानुपपत्त्या प्रत्यर्थनियता मनेकां बुद्धिमीश्वरे प्रतिपद्येत तत्रापि सन्तानेन वा तथाभूता बुद्धयः, युगपद्वा भवेयुः? प्राच्ये विकल्पे पुनरपि युगपत्कार्यानुत्पादप्रसङ्गः । युगपदुत्पत्तौ वा वुद्धीनां शरीरा दियोगस्तस्यैषितव्यः, स च पूर्व प्रतिक्षिप्तः। अथ कार्यस्य बहुत्व-महत्त्वाभ्यां बहवो बुद्धिमन्तः कर्त्तारो भवन्तु, न त्वेकः सर्वज्ञः सर्वशक्तियुक्तः; नन्वेतस्मिन्नपि पक्षे ईश्वरानेकत्वप्रसङ्गः, २० भवतु, को दोषः? व्याहतकामानां स्वतन्त्राणामेकस्मिन्नर्थेऽप्रवृत्तिः। अथ तन्मध्येऽन्येषामेका. यत्तता तदा स एवेश्वरः, अन्ये पुनस्तदधीना अनीश्वराः । अथ स्थपत्यादीनां महाप्रासादादिकरणे यथैकमत्यं तद्वदत्रापि, नैतदेवम् ; तत्र कस्यचिदभिप्रायेण नियमितानामैकमत्यम्; न त्वत्र बहूनां नियामकः कश्चिदस्ति । सद्भावे वा स एवेश्वरः । एवं यस्य यस्य विशेषस्य साधनाय वा निराकृतये वा प्रमाणमुच्यते तस्य तस्य पूर्वोक्तेन न्यायेन निराकरणं कर्त्तव्यम् । तन्न २५ विशेषविरुद्धता ईश्वरसाधकस्य । प्रसङ्ग-विपर्यययोरप्यनुत्पत्तिः। प्रसङ्गस्य व्याप्त्यभावात् , तन्मूलत्वात् तद्विपर्ययस्य तथे. ष्टविघातकृतश्च । यच्च नित्यत्वादकर्तृकत्वमुच्यते शाक्यैस्तदपि क्षणभङ्गभङ्गे प्रतिक्षिप्तम् । यदपि व्यापारं विना न कर्तृत्वं तदपि ज्ञान-चिकीर्षा-प्रयत्नलक्षणस्य व्यापारस्योक्तत्वानिराकृतम् । वार्तिककारेणापरं प्रमाणद्वयमुपन्यस्तं तत्सिद्धये३० "महाभूतादिव्यक्तं चेतनाधिष्ठितं प्राणिनां सुख-दुःखनिमित्तम्, रूपादिमत्त्वात् , तुर्यादिवत् । तथा, पृथिव्यादीनि महाभूतानि बुद्धिमत्कारणाधिष्ठितानि स्वासु धारणाद्यासु क्रियासु प्रवर्तन्ते, अनित्यत्वात्, वास्यादिवत्" [न्यायवा० पृ०४६७] इति । अविर्द्धकर्णस्तु तत्सिद्धये इदं प्रमाणद्वयमाह"द्वीन्द्रियग्राह्याग्राह्य विमत्यधिकरणभावापन्नं बुद्धिमत्कारणपूर्वकम्, स्वारम्भकावयवसन्निवे. ३५ शविशिष्टत्वात् , घटादिवत्ः वैधम्र्येण परमाणवः" [ ] इति । तत्र द्वाभ्यां दर्शन स्पर्शनेन्द्रियाभ्यां ग्राह्यं महद-नेकद्रव्यवत्त्व-रूपाद्युपलब्धिकारणोपेतं पृथिव्युदकज्वलनसंज्ञकं त्रिविधं द्रव्यं द्वीन्द्रियग्राह्यम् । अग्राह्यं वाय्वादि, यस्माद् महत्त्वमनेकद्रव्यवत्वं रूपसमवायादिश्वोपलब्धिकारणमिष्यते, तञ्च वाय्वादौ नास्ति । यथोक्तम् "महत्यनेकद्रव्यवत्त्वाद् रूपाच्चोपलब्धिः " [वैशेषिकद० अ०४-१-६] ४० "रूपसंस्काराभावाद् वायावनुपलब्धिः " [ वैशेषिकद० अ० ४-१-७1 रूपसंस्कारो रूपसमवायः, द्वयणुकादीनां त्वनुपलब्धिरमहत्त्वादिति । अन्ये तु "वायोरपि स्पर्शनेन्द्रिय १ पृ. ९८ पं० २। २-घातकृतकृतश्च भां०। ३-णभङ्गे प्र-भां०, गु०, वा०। ४ अत्र दर्शितम् अविद्धकर्णोक्तं प्रमाणद्वयं तत्त्वसंग्रहेऽपि (पृ. ४१श्लो० ४७-४८) ईश्वरपरीक्षाप्रकरणे समायातम् । ५-ग्राह्यविम-भां० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy