SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डे - प्रसक्तानां विशेषाणां प्रमाणान्तरबाधया विशेषविरुद्धताऽनवकाश इत्युक्तं तत्र कतमस्य प्रसतस्य विशेषस्य केन प्रमाणेन निराकृतिः ? शरीरसंबन्धस्य तावद्यात्यभावेन, शरीरान्तररहितस्याप्यात्मनः स्वशरीरधारण- प्रेरणक्रियांसु यथा । अथात्मनः प्रयत्नवत्त्वाद् धारणादिक्रियासु शरीराद्याधारासु कर्तृत्वं युक्तम् नेश्वरस्य तद्रहितत्वात् तथा च भवतां मुख्यं कर्तुलक्षणम्"ज्ञान- चिकीर्षा - प्रयत्नानां समवायः कर्तृता" [ ] इति । ९८ ५ केनेश्वरस्य तद्रहितत्वात् प्रयत्नप्रतिषेधः कृतः ? आत्म-मनः संयोगजन्यत्वात् प्रयत्नस्य ईश्वरस्य तदसंभवात् कारणाभावात् तन्निषेधः । बुद्धिस्तर्हीश्वरे कथं तस्या अपि मनःसंयोगजन्यतैव ? साऽपि माभूत् का नः क्षतिः ? नेनु तदसत्तैव न त्वन्या काचित्। सोऽपि भवतु, तदभावे कस्य विशेषः शरीरादिसंयोगलक्षणः साध्यते ? अत एवान्यैरुक्तम् १० " नातीन्द्रियार्थप्रतिषेधो विशेषस्य कस्यचित् साधनेन निराकरणेन वा कार्यः तदभावे विशेषसाधनस्य निराकरण हेतोर्वाऽऽश्रयासिद्धत्वात् किन्त्वतीन्द्रियमर्थमभ्युपगच्छंस्तत्सिद्धौ प्रमाणं प्रष्टव्यः । स चेत् तत्सिद्धौ प्रयोजकं हेतुं दर्शयति 'ओम्' इति कृत्वाऽसौ प्रतिपत्तव्यः । अथ न दर्शयति प्रमाणाभावादेवासौ नास्ति, न तु विशेषाभावात्" [ ] तस्माद् ज्ञान- चिकीर्षा - प्रयत्नानां समवायोऽस्तीश्वरे, ते तु ज्ञानादयोऽस्मदादिज्ञानादिभ्यो विलक्षणाः, वैलक्षण्यं च नित्यत्वादिधर्म१५योगात् । तन्नेश्वरशरीरस्य कर्तृविशेषस्य व्यात्यभावात् सिद्धिः । नाय सर्वज्ञत्वं विशेषः कुलालादिषु दृष्टस्तत्र साध्यते, तत्सिद्धावपि विशेषविरुद्धस्य व्यात्यभाव पवन हा सर्वविदा कर्त्रा कुलालादिना किञ्चित् कार्य क्रियते । ननु कुलालादेः सर्ववित्त्वे नेदानीं कश्चिदसर्ववित्, एवमेव यद् यः करोति स तस्योपादानादिकारणकलापम् प्रयोजनं च जानाति; अन्यथा तत् क्रियायोगात् । सर्वज्ञत्वं च प्रकृतकार्यतन्निमित्तापेक्षम्, अतः कुलालादिर्यथा कर्त्ता २० स्वकार्यस्य सर्वे जानात्युपादानादि एवमीश्वरोऽपि सर्वकर्त्ता सर्वस्य कॅरणप्रयोजनम् विवादवि यस्य सर्वस्योपादानकारणादि च कर्तृत्वादेव जानाति; अतः कथमसाव सर्व वित् ? अन्ये त्वाहु:- "क्षेत्रज्ञानां नियतार्थविषयग्रहणं सर्वविदधिष्ठितानाम्, यथा प्रतिनियतशब्दादिविषयग्राहकाणामिन्द्रियाणामनियत विषयसर्व विदधिष्ठितानां जीवच्छरीरे । तथा च इन्द्रियवृ युच्छेदलक्षणं केचिद् मरणमा हुश्चेतनानधिष्ठितानाम् । अस्ति च क्षेत्रज्ञानां प्रतिनियतविषयग्रहणम् २५ तेनाप्यनियत विषय सर्वविदधिष्ठितेन भाव्यम् । योऽसौ क्षेत्रज्ञाधिष्ठायकोऽनियतविषयः स सर्ववि श्वरः । नन्वेवं तस्यैव सकलक्षेत्रेष्वधिष्ठायकत्वात् किमन्तर्गडुस्थानीयैः क्षेत्रज्ञैः कृत्यम् ? न किञ्चित् प्रमाणसिद्धतां मुक्त्वा । नन्वेवमनिष्ठा - यथेन्द्रियाधिष्ठायकः क्षेत्रज्ञस्तदधिष्ठायकश्चेश्वरःएवमन्योऽपि तदधिष्ठायकोऽस्तु भवत्वनिष्ठा यदि तत्साधकं प्रमाणं किञ्चिदस्ति न त्वनिष्ठासाधकं किञ्चित् प्रमाणमुत्पश्यामः तावत एवानुमानसिद्धत्वात् । ३० आगमोऽप्यस्मिन् वस्तुनि विद्यते - तथा च भगवान् व्यासः " द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः " ॥ [ भग० गी० अ० १५, श्लो० १६ - १७] इति । ३५ तथा श्रुतिश्च तत्प्रतिपादिका उपलभ्यते "विश्वतश्चक्षुरुत विश्व तो मुखो विश्वतो बाहुरुत विश्वतस्पात् । बाहुभ्यां धमति संपतत्रैर्द्यावाभूमी जनयन् देव एक आस्ते " [ श्वेताश्वत० उ० अ० ३, ३] इत्यादि । १ - या नु यथा वा०, बा० । २ अत्र उत्तरपक्षपाठानुरोधेन 'यथा व्यापारस्तथा ईश्वरस्यापि क्षित्यादिकार्ये' इति अधिकं योज्यम् । ३ " नैयायिकः समाधत्ते - प्रागुक्तप्रकारेण बुद्धयादेर्निषेधे तस्यैश्वरस्य असत्तैव क्षतिर्नान्या काचित्” भां• मां० दि० । ४ " परः पुनः प्राह - साऽपि भवतु इति" मां० दि० । ५ कारण - वा०, बा० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy